पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमधिकारः ४५ ००००एतयोरन्तरं शरेषुयमवसु-ख-शराश्विनः खचतुष्टयैकाहताः - २५०८२५५०००० तथा च बलभद्रः "खचतुष्कं शरार्थाश्विवसु-शून्यशराश्विनः कल्पोनरात्रा विज्ञेया नित्यमेव मनीषिभिः”। तिथिशशाङ्कदिनमित्युत्तरत्र संबद्धं भवतीति । वि. भा.-रविभगणाः (कल्पपठितरविभगणाः ४३२०००००००) रव्यब्दा (कल्पसौरवर्षाणि) भवन्त्यर्थात्कल्पे यावन्तो रविभगणास्तावन्त्येव कल्पसौर वर्षाणि भवन्ति । ते (व्यब्दाः) द्वादशगुणितास् ।दा रविमासा (सौरमासाः भवन्ति । रवीन्द्वोर्भगणान्तरं (कल्पचन्द्रभगणरविभगणयोरन्तरं) शशिमासाः कल्पचान्द्रमासाःभवन्ति, चान्द्रमासाः सूर्यमासोनाः(कल्पचान्द्रमासाः कल्पसौरमास- रहिताः) तदाऽधिमासाः (कल्पाधिमासा.) भवन्ति । शशिमासाःकल्पचान्द्रमासाः) त्रिशगुणितास्तदा शशिदिवसाः(कल्पचान्द्रदिननि)भवन्ति,शशिसावनदिवसान्तरं कल्पचांद्रदिनकल्पकुदिनयोरन्तरं कल्पावमानि भवन्ति) तिथिः शशाङ्कदिनं (तिथि श्वान्द्रदिनं) भवतीति ॥२३-२४॥ अत्रोपपत्तयः सृष्ट्यादिकाले नाड़ीक्रान्तिवृत्तयोः सम्पाते (स्थिरमेषाद) एव रविस्ततोऽनन्तर रश्न मणेन पुनर्यदा तद्विन्दौ (स्थिरमेषादौ) रविरागच्छति तदा तद्भगणपूतिर्भ वति परमेतावति (द्वादशराशिभोग) काले तसम्पातस्यापि तु किमपि चलनं भवेत्तेन पूर्वोक्तरविभगणे (सोरवर्षे) सम्पातस्य यच्वलनं भवेत्तद्योज्यं तदा सम्पातात् सम्पातं यावत्सायनसौरवर्षमेकरविभगणभोगकालो वा भवति परमत्राचर्येण निरयणसौरवर्षमेव कथ्यते, कल्पेऽपि रविभगणतुल्यानि निरयण्सौरवर्षाण्येव भवितुमर्हन्ति, आचार्येण तथैव कथ्यन्ते । कल्पसौ रवx१२= कल्पसरमासाः एतावता ‘रविभगणा रव्यब्दाः इत्याचार्यकथनं निरयणसौरवर्षषरं बोध्यं, भास्कराचार्येणापि ‘रवेश्चक्रभोगोऽर्कवप्रदिष्टमित्यनेन निरयणसौरवर्षमेव कथ्यते सर्वैरेवाचार्येरयनगतिरत्र विषये शून्या कल्पितेति । अथ चान्द्रमासोपपत्तिः अमान्तकाले रविचन्द्रावेकत्रैव भवत: एव (दर्शः सूर्येन्दुसङ्गम इत्यमरोक्तः) ततोऽनन्तरं स्वस्वगत्या तौ चलितौ तयोश्चन्द्रस्याधिकगतित्वाच्चन्द्रः पूर्वस्थानं (अमान्तबिन्दु) गत्वा रविणा सह पुनरपि मिलितस्तदैकचान्द्रमासपूतिर्जात । तत्र चन्द्रगतिः=१चन्द्रभगण+रविगतिः । अतः चन्द्रगति-रविगति=१चन्द्रभगणः ततोऽनुपातो यदा रविचन्द्रयोर्गत्यन्तरमेकभगणतुल्यं तदेकैश्चन्द्रमासस्तदा कल्पीयगत्यन्तरेण (करुपीय-रविचन्द्रभगणान्तरेण) कियन्तो लब्धा कल्परविचन्द्र- भगणान्तरतुल्यश्चन्द्रमासा एतावता ‘भगणान्तरं रवीन्द्वोः शशिमासाःइति आचार्योक्तमुपपद्यते । वटेश्वरथपतिभास्करप्रभृतिभिराचार्योरेतदनुरूपमेव कथ्यते। सूर्यसिद्धान्तेऽपि ‘भवन्ति शशिनो मासाः सुयैन्द्रभगणान्तरमि’ त्यनेन तदेव कथ्यते । सैयदेवेनेति ॥