पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८० ब्राह्मस्फुटसिद्धान्ते घटिकाभिरेव विषुवद्दिवस एतत्सर्वं गोले प्रदर्शयेत् । चरदलं चान्यत्रकाले स्वधिया योज्यम् , यथास्वभावस्। तत्रायं प्रयोगः स्वदेशान्तरघटिकाः पञ्चदशभ्यो विशो ध्यवशेषा या घटिकास्ताभिः मध्याह्नात् प्राग्वारादिः स्वदेशे नित्यं वक्तव्याः। रेखातः प्राक्पश्चात्त्रञ्चरात्रादूर्वं तावतीभिरेव घटिकाभिदनवारादिः प्रथमं पश्वाद्वा भवति, तन्न ज्ञायते । वि. भा--उज्जयिनोदक्षिणोत्तरायः ( रेखातः) प्राग्देशे ( पूर्वदेशे ) रख्युदयात् ( सूर्योदयात् ) देशान्तरघटिकाभिः पश्चात् दिनवारादिः (वरप्रवृत्तिः) भवति, रेखतः पश्चात् ( पश्चिमदेशे ) र्व्युदयाद्देशान्तरघटिकाभिः प्रक् (पूर्व) दिनवरादिर्भवतीति ।३६। अत्रोपपत्तिः यतो लङ्कोदये वारादिरितिनियमेन रेखातः पूर्वदेशे सूर्योदयाद्देशान्तरघटीभिः पश्चात् , पश्चिमदेशे तु ताभिरेव घटीभिः पूर्वं वारप्रवृत्तिर्भवितुमर्हति, भास्करा चार्येणापि सिद्धान्तशिरोमण "अर्कोदयदूर्ध्वमधश्च ताभिः प्राच्यां प्रतीच्यां दिन प्रवृत्तिरित्यनेन “ ब्रह्मगुप्तोक्तमेव कथ्यते, कदाप्रभृति वारप्रवृत्तिर्भवत्येतद्विषये बहूनामाचार्याणां बहूनि भिन्नानि मतानि सन्ति यथा आर्यभटसहाचार्यादयो रवेरु दयात् (अदितरविबिम्बाद) दिनारम्भकालं कथयन्ति, अन्ये दिनार्धात्कथयन्ति, लाटदेवादयो रवेरर्धास्तमयकालमारभ्य तं कथयन्ति, यवननृपतिनिशि दशभिर्महूर्तस्तं कथयति, लाटाचार्यः पुनः स्वसिद्धान्तेऽर्धरात्रौ तं कथयतीति । पञ्चसिद्धान्तिकायां वराहमिहिरेण तथैवोक्तम्- दिनवारप्रवृत्तिनं समा सर्वत्र कारणे कथिता। नेहापि भवति यस्माद्विप्रवदन्तेऽत्र दैवज्ञाः । घुगणाद्दिनवराप्तिशृगणोऽपि च देशकालसम्बन्धः । लाटाचार्येणोक्तो यवनपुरे चास्तगे सूर्ये । रव्युदये लङ्कायां सिहाचार्येण दिनगणोऽभिहितः । यवना निशीह दशभिर्गीतैर्मुहूर्ते तद् गुरुणा । लङ्काऽर्धरात्रसमये दिनप्रवृति जगाद चार्यभट:। भूयः स एव चार्कोदयात्प्रभृत्याह लङ्कायाम् । सिद्धान्तशेखरे श्रीपतिनाऽऽर्थेभटादिमतखण्डनपुरःसरं ब्रह्मगुप्तमतानुरूपमेव स्वमतं कथ्यते यथा सुष्टेर्मुखे ध्वन्तमये हि विश्वे ग्रहेषु सृष्टेष्विनपूर्वकेषु । दिनप्रवृत्तिस्तदधीश्वरस्य वारस्य तस्माद्धृदयात्प्रवृत्तिः ॥