पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ गलबन्धाधिकरः प्रारम्यते । तत्रादौ पूर्वापरयाम्योत्तरक्षितिजवृत्तान्याह। प्राच्यपरं सममण्डलमन्यद्याम्योत्तरं क्षितिजमन्यत् । परिकरवत् तन्मध्ये भूगोलस्तत्स्थितद्रष्टुः ॥४em सु. भा-- पूर्वापरमेव वृत्तं सममण्डलम् । अन्यद् याम्योत्तरवृत्तम् । परिकर- वत् कटिबन्धनवत् तदर्धेऽन्यत् क्षितिजम् । तन्मध्ये तेपां वृत्तानां गर्भयकेन्द्र तत्स्थित द्रष्टुस्तस्य भूगोलस्योपरि स्थितो यो द्रष्टा तस्य भूगोलः कल्प्य इति. ॥४९॥ वि. भा. - प्रथमं पूर्वापरं सममण्डलसंज्ञकं वृत्तं विधायान्यत् (द्वितीयं) याम्योत्तरवृत्तं च विधाय पूर्वापरयाम्योत्तरवृत्तयोः सर्वतोऽप्यर्धभागे लम्बाकारेण संश्लिष्टमन्यत् (तृतीयं) क्षितिजवृत्तंसंज्ञकं विधेयम् । तेषां वृत्तानां गर्भायकेन्द्र तस्य भूगोलस्योपरि स्थितो यो द्रष्टा तस्य भूगोलः कल्प्पः । सिद्धान्तशेखरे ‘‘श्रीपरार्यादिससारदारुघटितैः श्लक्ष्णं : समैर्मडलैगलज्ञ दृढ़सन्धिबन्धरुचिरं गोलं विनिर्मापयेत् । तत्र प्रागपरं विधाय वलयं याम्योत्तरं चापरं तिर्यक् तद्वित यार्धसक्तमभितः कुर्यात्तृतीयं पुनः ।” इति श्रीपत्युक्तवृत्तरचनाक्रम आचार्योक्तानु- रूप एव, एवमेव गलबन्धविधिलँल्लोक्तशिष्यधीवृद्धिदतन्त्रे, भास्करसिद्धान्त शिरोमणौ चास्ति, भास्करेण “सुसरलवंशशलाकाबलयैः श्लक्ष्णैः सचक्रभा गा के:। रचयेद् गोलं गोले शिल्पे चानल्पनैपुणो गणकः ।' इति श्रीपत्युक्तिरेव विशदीकृतेत्यवगम्यत इति ।।४९।। अब गोलबन्धाधिकार प्रारम्भ किया जाता है । उस में पहले पूर्वापरवृत्त, याम्योत्तरवृत्त और क्षितिजवृत्त को कहते हैं । । हि. भा. –प्रथम सममण्डल संज्ञक पूर्वापर वृत्त बनाकर द्वितीय याम्योत्तर वृत .को बनाकर इन दोनों (पूर्वापर वृत्त र याम्योत्तर धृत्त) के चारों तरफ अर्धभाग में लम्बाकार सटा हुआ तृतीय क्षितुिजवृत्त बनाना चाहिये उन वृत्तों के गर्भय केन्द्र में उस भूगोल के ऊपर स्थित द्रष्टा (दर्शक ) के भूगोल की कल्पना करनी चाहिये । सिद्धान्तशेखर में ‘श्रीपण्यदि ससार दारुघटितैः' इत्यादि विज्ञान भाष्य में लिखित दलक से श्रीपति श्राचार्योक्तं धुत्त रचनानुरूप ही वृत्त रचना क्रम को कहा है । इसी तरह गोलबन्ध विधि लल्लोक्त शिष्यवृद्धिदतन्त्र में और भास्कर सिद्धान्तशिरोमणि में भी है । भास्कराचार्य ‘सुसरलवंशशलाकावलयैः’ इत्यादि से श्रीपत्युक्ति ही को विशवरूप में कहा है इति ।। ४६॥