पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३३२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः १४२१

शक्यो भवति ततो गोलस्य स्पष्टार्थे संक्षिप्तं यन्त्राध्यायमहं वक्ष्य इत्याचार्योक्तिः॥ ४॥

वि. भा“यतो यन्त्रैविना ज्यौतिषिको गोलस्य परिच्छेदः (यथार्थरूपेण विचारः) कत्तुमसमर्था भवति, तस्माद्ध तोर्गालस्य स्पष्टार्थे संक्षिप्तं यन्त्राध्यायमहं वक्ष्ये ॥ सिद्धान्तशेखरे “शक्यः परिच्छेदविधिविधातु ऍन्त्रंविना नो समयस्य तनूः । तेषां स्वयंवाहक पूर्वकाणामतः प्रवक्ष्ये खलु लक्षणानि ।।” श्रीपतिनैवं यन्त्राध्यायारम्भप्रयोजनं कथ्यते । सिद्धान्त शिरोमणेगलाध्याये भास्कराचार्योऽपि श्रीपत्युक्तसदृशमेव कथयति-

"दिनगतकालावयवा ज्ञातुमशक्या यतो विना यन्त्रैः ।
वक्ष्ये यन्त्राणि ततः स्फुटानि संक्षेपतः कतिचित् ।”
सर्वस्मिन् ज्यौतिषसिद्धान्तग्रन्थे यन्त्राध्यायो भवत्येवेति ॥ ४ ॥

अंब यन्त्राध्याय प्रारम्भ करने के कारण कहते हैं ।

हि- भा–यन्त्रों के बिना ज्यौतिषिक लोग गोल का विचार अच्छी तरह करने में असमर्थ होते हैं । इसलिए गोल की स्पष्टता के लिए संक्षेरूप से यन्त्राध्याय को मैं कहता हूँ। सिद्धान्त शेखर में "शक्यः परिच्छेदविधिवधातु यन्त्रैर्विना नो समयस्य तञ्चैः ' इत्यादि विज्ञानभाष्य में लिखित श्लोकोक्त अनुसार यन्त्राध्याय आरम्भ करने के कारण कहते हैं । सिद्धान्त शिरोमणि के गोलाध्याय में भास्कराचार्य भी श्रपयुक्त के सदृश ही कहते हैं । ‘दिनगत कालावयवा ज्ञातुमशक्या यतो विना यन्त्रैः’ इत्यादि । सब ज्यौतिष सिद्धान्त ग्रन्थों में यन्त्राध्याय होता ही है। इति ॥ ४ ।।

इदानीं तन्त्राणि यन्त्रोपकरणानि चाह ।

सप्तदश कालयन्त्राण्यतो धनुस्तुएँगोलकं चक्रम् ।
यष्टिः शङकुर्घटिका कपालकं कर्तरी पीठम् ॥५॥
सलिलं भ्रमोऽवलम्बः कर्णश्छाया दिनार्धमर्कोऽक्षः ।
नतकालज्ञानार्थं तेषाँ संसाधानान्यष्टौ ।।६॥

सु. भा–यतो धनुर्न्त्रम् । तुयेंगोलं तुरीयम् । चक्रयन्त्रम् । यष्टिः। शङ्कुः घटिका घटीयन्त्रम् । कपालियन्त्रम्। कर्तरी। पीठसंशं यन्त्रम् । सलिलं जलम् । भ्रमः शाणः । अवलम्बोऽवलम्बसूत्रम् । कर्णश्छायाकर्णः । छाया शङ्कुच्छाया। दिनाउँ दिनर्धमानम् । अर्कः सूर्यः। अक्षः पलांशाः । अतो नतकालज्ञानार्थं सप्त- दश कालयन्त्राणि सन्ति । तेषां यन्त्राणां मध्ये सलिलादीन्यष्टौ यन्त्रसंसाधनानि यन्त्ररचनामूलभूतानि सन्ति ।५-६।