यन्त्राध्यायः १४४३ सु. भा.-पूर्वमग्रा यष्टयग्नयोरन्तरं मित्वा यद्गृहीतं तस्य दलं कार्यम् । तेनान्तरदलेन त्रिज्याऽऽहता यष्टेः स्वाहोरात्रार्धेन यष्टिव्यासार्धभवद्युज्यया भाजिता फलचापांशा द्विगुणाः षभिर्भाजिता वा घटिकाः स्युरिति । अन्तरं घटथ शपूर्णज्याऽतस्तदर्धे तदर्धज्या युज्याच्यासाठं ततोऽनुपातेन त्रिज्यावृत्ते परिणता कृता तस्याश्चापं द्विगुणमंशात्मकं तत् षभिवभज्य घटिकाः कृता इति स्फुटम् ॥ २२ ॥ वि. भा.-पूर्वमग्राग्रयष्ट्योरन्तरं मित्वा यद् गृहीतं तस्याधं कार्यम् । त्रिज्या तेनान्तरार्धेन गुणिता यष्टेः स्वाहोरात्रार्जुन ( यष्टिव्यासावुत्पन्नयुज्यया ) भक्ता फलचापांशा द्विगुणाः षडभिर्भक्ता वा घटिकाः स्युरिति । अत्रोपपत्तिः । अन्तरं घटय शपूर्णज्या, एतस्या अघं घटय शाखूज्या द्युज्याव्यासाउँ, ततोऽनुपातेन ‘युज्याव्यासवें यदीयं घटय शाखूज्या लभ्यते तदा त्रिज्याव्यासार्थं किं समागच्छति त्रिज्यव्यासाध घटय शार्धज्या तत्स्वरूपम् = ज्या ३ घटच श. त्रि . अस्याश्चापं द्विगुणमंशात्मकं तत् षभिर्भक्त तदा घटिकाः स्युरिति । “भ्यस्येदग्रां प्राक् प्रतीच्यग्रतोऽत्र याम्योदक्स्था मध्यदेशान्नतज्या । साध्यः शङकुस्तन्मितिभ्यां भ्रमस्तु देयस्तस्मिन् स्वोदयात् स्वाग्नकाग्नात् । । विरचित समयांशस्तन्मितंशङ्कुमस्मि तदुदरगतभागं स्थापयेदग्रकाग्रात् । तदवधि विगतास्ते कालभागा भवेयुदिनगतघटिकाः स्युः कालभागारसाप्ताः ।।' श्रीपतिनैवं कथ्यते । अस्यार्थः-अत्रास्मिन् पूर्वलिखितवृत्ते प्राक् प्रतीच्य ग्रतः (पूर्वापरबिन्दुभ्यां) अग्नां न्यस्येत् । मध्यदेशात् (वृत्तकेन्द्रबिन्दोः) याम्योदक् स्था (दक्षिणदिक्स्था, उत्तर दिक्स्था वा) नतज्या देया । तन्भितिभ्यां (अग्रान्तज्ययोर्मानाभ्यां) शङ्कुः साध्यः । तस्मिन् वृत्ते भ्रमः-अहोरात्रवृत्तं विरचितसमयांशः (विरचिताश्चिन्हिताः ) षष्टिघटीभिरहोरात्रवृत्तं समयांशा यस्मिन् चिन्हितं (अक्कित) भवति, अत्राहोरात्रवृत्तमंशात्मकमर्थात् षष्ट्यधिकशतत्रय भागात्मकं । तच्च स्वोदयात् (स्वोदयबिन्दो;) स्वाग्रका (अग्राग्रबिन्दोः) कार्यम् दातव्यः । अस्मिन् षष्ट्यधिकशतत्रयभागाङ्कितेऽहोरात्रवृत्ते तन्मितंशङ्कु (अग्नानत
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३५४
एतत् पृष्ठम् अपरिष्कृतम् अस्ति