१४७७ सु. भा-अथवा यथा धनुषि धनुर्यन्त्रे सर्वे नाडिकादि यथोक्तं तथैव कपालकेऽपि शेयम् । अथान्यैर्यतः कर्तुरियन्त्रं स्थूलं कृतं ततस्तस्मादहं सूक्ष्मं वदामीति ॥४३॥ वि. भा-–अथवा धनुर्यन्ते सर्वे नाडिकादियथोक्त कपालके यन्त्रेऽपि तथैव ज्ञेयम् । यतोऽन्यैराचार्यः कर्तरि यन्त्र' स्थूलं कृतं तस्मात्कारणादहं सूक्ष्मं बदामीति ॥४३॥ अब विशेष कहते हैं । हि. भा–अथवा धनुर्यंन्त्र में सब नाडिकादि वातें जैसी कही गयी है वैसी ही कपालयन्त्र में समझनी चाहिये । कभों कि अन्य आचार्य लोगों ने कर्तरी यन्त्र को स्थूलरूप से वर्णन किया है इस कारण से मैं सूक्ष्म कहता हूं इति ।।४३।। इदानीं कर्तरी यन्त्रमाह । द्विस्थितफलकद्वियुतिस्तले तदग्रस्थसूत्रयोर्मध्ये कीलस्तच्छायाग्रात् कर्तर्यो नाडिकाः स्थूलाः ॥४४॥ सु. भा.-अर्धवृत्तानुकारं फलकद्वयं कार्यम् । एकमधोऽधुनाडीव लयानुकारमन्यदधोऽर्धयाम्योत्तरवृत्तानुकारम् । ततस्तले यथादिस्थितयोर्दूयोः फलकयोर्युतिः कार्या यथक नाडोमण्डलधरातलेऽन्यत् स्वयाम्योत्तरमण्डलधरातले स्यात् । तदग्रस्थे ये पूर्वापरदक्षिणोत्तरानुकारे सूत्रे तयोर्मध्येऽर्थावृत्तयोः केन्द्र कीलः स्थाप्यो यथाऽयं कीलो ध्रुवयष्टिरेव भवेत्। एवमिदं कर्तरीयन्त्रं भवेत्। अस्यां कर्तर्या तच्छायाग्रात् कीलच्छायाग्रात् स्थूला नाडिका इष्टघटघो भवन्ति । इदमेव भास्करेण ‘भूस्थं ध्रुवयष्टिस्थं चक्रम्'-इत्यादिना नाडीवलयाख्यं यन्त्रमुदितं। भास्करविधिना यदि रविक्रान्तिरेकस्मिन् दिने स्थिरा तदैवोन्नत घटिका वास्तवा गोल युत्तया भवन्ति परन्तु रवेः क्रान्तेः प्रतिक्षणं चलत्वान्ना- डिकाः स्थूला भवन्तीत्याचार्योक्तं गोलयुक्तियुतं बुद्धिमद्भिश्चिन्त्यम् । अनेन यन्त्रेण नतकालज्ञानं सूक्ष्मं भवतीति सिद्धान्तविदां स्फुटम् ॥४४॥ वि. भाभाः -अर्धवृत्तानुकारं फलकद्वयं कार्यम् । एकमघोऽधैनाडीवृत्ताकारमन्य दधोऽर्ध याम्योत्तरवृत्तानुकारस् । ततस्तत्तले यथादिक् स्थितयोर्दूयोः फलकयोर्युतिः कार्या यथैकं नाडीवृत्तधरातलेऽन्यत् स्वयाम्योत्तरवृत्तधरातले स्यात् । तदग्रस्थे ये पूर्वापर दक्षिणोत्तरानुकारे सूत्रे तयोर्मध्येऽर्थावृत्तयोः केन्द्र कोलः स्थाप्यो यथाऽयं कीलो ध्रुवयष्टिरेव भवेत् । एवमिदं कर्तरीयन्त्रं भवेत् अस्यां कर्त कीलच्छाया pव स्थूला इष्ट नाड़िका भवंति । सिदान्तशेखरे
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/३८८
एतत् पृष्ठम् अपरिष्कृतम् अस्ति