१६४० ब्राह्मस्फुटसिद्धान्तः वास०-इयमपि स्पष्टार्था । मण्डलप्राग्भागे यथा चन्द्रमा छाद्यमानो- दृश्यते । अर्कश्च मण्डलापरभागे छाद्यते तद्रहो रेकत्वात्किमेतत्। भूछायां तु पुनः चन्द्रः प्रागाछन्निव पूर्वभागेनैव प्रदेशं करोतीत्येतस्य प्राच्यां दिशि प्रग्रहण मुपपद्यते । रवेस्तु शीघ्रगश्चन्द्रः स च पूर्वाभिमुखो बिंबं पश्चाद्भागे गच्छन्नव प्रग्रहणमुपपादयति। अतो भान राहुकृतं ग्रहणमित्यर्थः । अन्यच्च स्थित्यर्ध मह द्यथा चन्द्रग्रहणं किं तथा नार्कग्रहणे ग्राहकसामान्यात् । भूछाया च महती ततः स्थित्यर्थार्धमहदुपपद्यते एव अतो न राहुकृतं ग्रहणमिति । राहुकृतग्रहणस्य झषणतरमाह कि प्रतिविषयं सूर्यो राहुश्चान्यो यतो रविग्रहणे । प्रासान्यगं न ततो राहुकृतं ग्रहणमर्केन्द्वोः ।३८। वासo--सुगमात्रैयमार्या–सूर्यस्तावदेक एव सर्वत्र राहुश्च तत्किमिति क्वापि खण्डग्रहणं—अन्यत्रग्रहणाभाव एव रविग्रहणे चन्द्रग्रहणे च सामान्यः सर्वत्र ग्रासः । तत्किमेतदेकत्वात्स्वर्भानोः चन्द्रस्तु यदा रवेः छादकः तदा तस्याल्पत्वादव नतिविक्षेपाक्षदेशांतरादिति ग्रासभेदः उपप्द्यते । एवं यथाम्बुदखंडछन्नोर्कः क्वापि न दृश्यते, अन्यत्र दृश्यते । अन्यत्राव छन्नो दृश्यते । एवमिहापि । चन्द्रस्य भूछा याछादिका सा चैकरूपया सर्वत्र धूमवर्तीकारी, तत्र प्रविशति चंद्रः सर्वतोऽपि छन्न एवेत्यतश्चंद्रग्रहणं सर्वसामान्यमेवोपपद्यते । तस्मादुपसंहरति, न ततो राहुकृतं ग्रहणमक्रुद्वोरिति । यथास्थिते गोलवासना प्रदश्य अनंतरोक्तार्याणां भूछाया वासना यत्रापि मण्डले रवेः स्थितः तत्समभूभागादुभयतो नवतितमे भूभागे सूत्रद्वयं बद्धा तदग्र एकत्र कृत्वा रविक्रान्तापमण्डलभागादधे चक्रांतरिते पमण्डल भाग एव बन्धीयात् । एवं स्थिते सूत्रांतरसंस्था भूछाया भवति ग्रहणा ध्याययोश्च प्रतिसूत्रप्रपंचेन वासनां प्रतिपादयिष्याम इति । अत्र चाचार्यवराह मिहिरः-सूर्यात्सप्तमराशौ यदि चोदग्दक्षिणाभिगतः चन्द्रःपूर्वाभिमुखछायामौर्वी तदा विंशतिः चन्द्रोऽघः स्थः, स्थगयति रविम बुदवत्समागतः पश्चात् प्रतिदेश मतदिचत्रं दृष्टवसाद्भास्करग्रहणम् । यदुक्त' भूछाया चन्द्र छादयति । रविमिदु- रिति वराहमिराचैः तेषां धर्मफलाशास्त्रायो ग्राह्यत्वप्रतिपादनायायद्वयमाह- एवं वराहमिहिरः श्रीषेणायंभविष्टचन्द्राद्याः। लोक विरुद्धमभिहितं वोवस्मृति संहिताबाह्यस् ॥३८॥ ग्रहणफलं गर्गाद्यः संहितासु यदभिहितम् । तदभावो होमजपस्नानादिफलस्य चाभवः ॥४०॥
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५१
एतत् पृष्ठम् अपरिष्कृतम् अस्ति