१६४४ ब्राह्मस्फुटसिद्धान्तः इत्यस्मिन्नपमण्डलेक भ्रमति। यतोकंगतिरेवापमडलं। के तत्रापमण्डले भ्रमतीति तदर्थमार्यार्थमाह पातश्चन्द्रादीनां भ्रमति भाऽयं रोश्च भूछाया धासo-न केवलमिहापमण्डलेऽक भ्रमति । यावत्पाताश्चन्द्रादीनां संबंधिनो भ्रमन्ति भाध चक्रध । रवेश्च भूछाया तत्र व भ्रमन्तीति वासना पूर्वमेव प्रद- शिता । इदानीं विमण्डलानां विन्यासप्रदर्शनायाह पातादपमण्डलवद्विमण्डलानि स्वविक्षपैः ।५३। सौम्यं विमण्डलाधं प्रथमं याम्यं द्वितीयमेतेषु । वासo-पातात्पातभोगवधेऽपमण्डलवदपमण्डलसंस्थाने च विमण्डलानि बध्नीयादिति अर्थः । अयं विशेषः स्वविक्षोपैर्यथापठितस्वविक्षपैस्तयोरपमण्डल विमण्डलयोरंतरं भवति । मध्ये याम्योत्तरयोरपमण्डलयोस्तथ। बध्नीयादित्यर्थः । तत्र चापमण्डले सौम्यं प्रथमं यथा विमण्डलाधं भवति द्वितीयमर्थं च यथा दक्षिणे भवति तथा बध्नीयादित्यर्थः एतच्च पूर्वमेवास्माभिः प्रदशतमेतेष्वित्युत्तरायणञ्च सम्बध्यते । एतेषु विमण्डेषु तदर्ध द्वितीयमार्यार्धमाह चन्द्रकुजजीवमन्दाः भ्रम ति बुधशुक्रौ च भ्रमतः ॥५४॥ वास०–किं तु तौ शीघ्रणायमर्थः। कुजगुरुशशिचन्द्राः स्वे स्वे विमंडले मंदस्फुटगत्या भ्रमंति । बुधशुक्रौ तु पुवमंडले शीघ्रगत्या भ्रमत इत्यर्थः । एतदुक्तं भवति । शीघ्रनीचोच्चवृत्तमध्यं स्वे विमंडले भ्रमति । कुजगुरुसौराणां तद्वशाच्च तत्परिधिस्थितो ग्रहोपि तावत्येबांतरेऽपमंडलाद्विप्रकृष्टो भवति । तेन मंदस्फुटाग्रहाद्विक्षेपादानयनं समागमाध्याये वक्ष्यति । बुधशीघयोस्तु न केवलं शीघ्रनीचोच्चवृत्तमध्यवशेन विप्रकृष्टो यावत्स्वशीषयोश्च प्रतिमंडलवशेन च यतोतः स्वशीघ्राद्विक्षोपानयनं तयोर्वक्ष्यति अने-“लब्धिः-“दि कारणं शक्यते वक्तु' परिध्यादिष्विति । इदानीं दृङ मंडल प्रतिपादनायाह इमंडलाषं मूध्दं यत्तत्परिधिस्थिरां ग्रहं द्रष्टा । पश्यति यतः क्षितिस्थस्तद्भमति ततो प्रहाभिमुखम् ॥५५॥ वास०-दृष्टिमंडलं दृङ,मंडलं यष्टि क्षिप्त्वा ग्रहो दृश्यते । तदृङमंडलं . तस्यार्धमूर्वं तस्य दृङ्मंडस्य यदवं क्षितिजादुपरिस्थित”–‘परिघिस्थितपश्यति द्रष्टा- ग्रहं । यतस्तावद्भ्रमति ग्रहाभिमुखम् । तत् दृङ्मंडलस्यार्धमुपरित-ग्रहाभिमुखमत एव भ्रमति न त्यजतीत्यर्थः। खगोलवृत्तानां प्रमाणेन अन्यद्वृत्तं निर्मायत ग्रहं ' o
पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः (भागः ४).djvu/५५५
एतत् पृष्ठम् अपरिष्कृतम् अस्ति