पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १७ )
-
मस्ति, अत्र विषयाश्चाप्यधिका: सन्ति, भास्करोक्तमप्यनेकवर्णसमीकरणवीजं
विषयाविक्येन सहितं विद्यते । किन्तु सिद्धान्तशेखरेऽतीव स्वल्पं तद्विद्यते | भावित -
बीजं ब्रह्मगुप्तोक्ताच्छ्रीपयुक्त स्वल्प भास्करोक्त चाधिकं विद्यते, सर्वत्रैव भास्क-
रोक्ती वैशद्यं वर्त्तते । एतत्परं वर्गप्रकृतिरस्ति, कनिष्ठे ज्येष्ठक्षेपारण योगभावना-
इन्तरभावना च ब्रह्मगुप्तोक्तादेवाऽऽदाय श्रीपतिना भास्करेण च विलिखिता,
परं श्रीपतिना भावनास्वरूपं न प्रतिपादितम् । वर्गात्मकप्रकृतौ कनिष्ठज्येष्डयो-
राजयनं ब्रह्मगुप्तोक्तमेव बीजगणिते भास्करेण लिखितम् । परं श्रीपतिना तत्स-
म्वन् किमपि न लिखितम् । शङ्कुच्छायादिज्ञानाध्यायो ब्रह्मगुप्तस्यापूर्वं वस्तु
वर्त्तते सिद्धान्तशेखरे भास्करीय ग्रन्थे चैतदध्यायोक्ता विषया नः सन्ति, वस्तुतो
दर्शनीयोऽयमध्याय: । छन्दश्चित्युत्तराध्यायस्त्वेतादृशोऽस्ति यत्रस्थश्लोकोपप-
तीनां का कथा तद्वयाख्याऽप्यतिकठिना तेनैव हेतुनाऽद्यावधि तद्वघास्योपपत्तिश्च
कैरपि न लिखिता । गोलाध्याये-भूगोलसंस्थानं- देवासुरसंस्थानं-चक्रभ्रमण -
व्यवस्थादेवादीनां रविभ्रमणस्थितिः, देवदैत्यानां राशिसंस्थानं देवादोनां रवि-
दर्शनकालः, भूगोले लङ्कावन्तीसंस्थानमित्यादयो विषयाः सन्ति -
भूपरिधितुर्यभागे लङ्काभूमस्तकात् क्षितितलाच्च ।
लङ्कोत्तरतोऽवन्ती भूपरिधे: पञ्चदशभागे ॥
इत्यनेन लङ्कोत्तरतो भूपरिधिपञ्चदशभागेऽवन्ती वर्त्तत इत्याचार्येरेंग
कथ्यते, प्राचार्यानुयायी भास्कराचार्य: सिद्धान्तशिरोमरोगलाध्याये 'निरक्षदेशात्
क्षितिषोडशांशे भवेदवन्ती' इति कथितवान्, चतुर्वेदाचार्यसम्मतः पाठश्च 'पञ्च
दशभागे, अयमेव, अत्राध्याये- प्राचार्योक्ता बहवो विषया: सूर्यसिद्धान्तीयभूगोला-
ध्याये तथैव सन्ति मध्ये मध्ये उभयत्र ( आचार्योक्ताध्याये-सूर्यसिद्धान्तीय-
भूगोलाध्याये) विषयान्तराण्यपि सन्ति, सिद्धान्तशेखरस्य गोलाध्याये श्रीपति
नाsपि कियन्तो विषया आचार्योक्तसदृशा एवं कथिताः । यन्मूले तद्व्यासो
मण्डललिप्ता कृतेर्दशहृतायाः' इत्यनेन परिधितो व्यासानयनं सूर्यसिद्धान्तोक्त
'ततो दशगुणात्पदं परिधिरित्यादेविलोमेन परिधितो व्यासानयनवदस्ति,
श्रीपतिनापि 'काल: स्यात्परिधेर्वर्गाद्दिग्भक्ताच्च पदं विहे ति प्रकारानुकूलैव त्रिज्या-
तिथियुगाग्नि ३४१५ मितास्तीति स्वीकृता भास्कराचार्येण 'व्यासे भनन्दाग्नि-
ह्ते विभक्ते खवागसूर्यैः परिधिः सुसूक्ष्मः' इत्यनेन व्यासात्परिध्यानयनं कथ्यते ।
एतद्विलोमेन परिधितो व्यासानयनं भवेत् । परं केषामपि व्यासात्परिध्यानयतं
परिधितो व्यासानयनं वा न समीचीनं तयोः (परिधव्यासयोः) सम्बन्धस्या-
स्थिरत्वादिति ।
ज्याप्रकरणे- आचार्येरग यथा चापाव राज्याद्यानयतं कृतं तथैव सिद्धान्त-
शेखरे श्रीपतिना सिद्धान्तशिरोमणेर्गोलाध्याये भास्करेण च कृतमिति तदुग्रन्था