पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १८ )
वलोकनात्स्फुटमस्ति । भास्करे 'अन्त्यज्योत्पत्त्या' बहवो विशेषाः प्रतिपादिताः
सन्ति ।
स्फुटगतिवासनायां - मन्दफलसाधनेऽपि करर्गानुपातेन यत्फलं तदेव सभी-
चीनमिति कर्णः कथं न कृत इत्यस्य कारणम् -
त्रिज्याभक्तः परिधिः कर्णगुणो बाहुकोटिगुणकारः ।
असकृन्मान्दे तत्फलमाद्यसमं नात्रकस्मात् ||
कथितम् । सिद्धान्तशेखरे
-
त्रिज्याहृतः श्रुतिगुणः परिधिर्यंतोदोः कोटयोगुणो मृदुफला नयनेसकृत्स्यात् ।
स्यान्मान्दमाद्यसममेव फलं ततश्च करणः कृतो न मृदुकर्मरिण
11
इति श्रीपयुक्तश्लोक आचार्यो ( ब्रह्मगुप्तो ) क्त श्लोकस्यानुवाद एवं
भास्कराचार्येरापि-
स्वल्पान्तरत्वान्मृदुकर्मणीह कर्णः कृतो नेति वदन्ति केचित् ।
त्रिज्योद्धृतः कर्णगुणः कृतेऽपि कर्णे स्फुटः स्यात्परिधियंतोय ॥
तेनाद्यतुल्यं फलमेति तस्मात करणः कृतो नेति च केचिनुः ।
नाशमनीयं न चले किमित्थं यतो विचित्रा फलवासनाऽत्र ||
इह कर्णेन यत्फलमानीयते तदेव समीचीनम् | यन्मन्दकर्मणि करण
कृतस्तत्स्वल्पान्तरादिति कथ्यते । मन्दकर्मरिण मन्दकतुल्येन व्यासार्धेन यद्वृत्तं
तत्कक्षावृत्तम् । तेन ग्रहो गच्छति । यो मन्दपरिधिः पाठपठितः स त्रिज्यापरिणतः ।
अतोऽसौ कर्णव्यासार्धे परिणाम्यते । यदि त्रिज्यावृत्तेऽयं परिविस्तदा कर्ण-
वृत्ते क इति स्फुटपरिधिः । ततः स्वेनाहते परिधिना भुजकोटिजीवें भांशैरित्यादिना
यत्फलमागच्छति तत्त्रिज्यया गुणितं करानभक्तं यल्लब्धं तत्पूर्वफलतुल्यमेव
फलमागच्छतीति ब्रह्मगुप्तमतम् । अथ यद्येवं परिधे: कर्णेन स्फुट क
शोघ्रकर्मरिण न कृतमित्याशङ्कय चतुर्वेदः कथयति- ब्रह्मगुप्तेनान्येषां प्रतारण-
परमिदमुक्तमिति । तदसत् । चले कर्मणीत्थं कि न कृतमिति नाशकुनीयम् ।
यतः फलवासना विचित्रास्तीति । अन्यत्सर्वं पूर्वकथितमेवेति ।
ग्रहणवासनायां-छादकनिर्णयं कृत्वा राहुकृतं ग्रहणं न भवतीति वराह-
मिहिरादीनां मतं प्रतिपाद्य संहितामतमंवलम्ब्य तन्निराकृतम् |
राहुकृतं ग्रहणद्वयमागोपालाङ्गनादि सिद्धमिदम् |
बहुफलमिदमपि सिद्ध जपहोमस्नानफलमंत्र ||