पृष्ठम्:ब्राह्मस्फुटसिद्धान्त भाग १.pdf/३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २० )
=
चेति सप्तानां ग्रहाणाम् = २१, चन्द्रादीनां विमण्डलानि = ६ सर्वेपां योगश्चल-
वृत्तान्येक पञ्चाशत् सन्तीति, सिद्धान्त शेखरेऽप्येवमेवास्ति यथा -
मन्दोच्चनीचवलयानि भवन्ति सप्त शैघ्यारिंग पञ्च च तथा प्रतिमण्डलानि ।
हक्षेप दृष्टयपमजानि च खेचराणामक विनैव खलु पट् च विमण्डलानि ||
पञ्चाशदेक्सहितानि च मण्डलानि पूर्वापरं वलयमुत्तरदक्षिणं न
क्ष्माजं तथा विषयदुवलयाभिधाने पञ्च स्थिरारिग कथितान्युडु खेचरागाम् ||
इति यन्त्राध्याये--
सप्तदश कालयन्त्राण्यतो धनुस्तुर्यगोलकं चक्रम् |
यष्टि: शकुर्घटिका कपालकं कर्तरी पोटम् ॥
सलिलं भ्रमोऽवलम्बः कर्णश्छाया दिनार्धक्षः ।
नतकालज्ञानार्थं तेषां संसाधनान्यष्टी ||
इत्यने धनुर्यन्त्रम् | तुरीयम् | चक्रयन्त्रम् | यष्टिः, शकु:, घटीयत्वम् ।
कपालयन्त्रम् । कतरीयन्त्रम् | पीठसंज्ञं यन्त्रम् | सलिलं (जलम् ), भ्रम: (शाखा:),
अवलम्बसूत्रम्, छायाकर्णः, शङ कुच्छाया, दिनार्धमानम्, सूर्य: अक्षः (फ्नांशा: )
नतकालज्ञानार्थं सप्तदश काल यन्त्रारिण सन्ति, तेषां यन्त्रण मध्ये सलिलादीन्यष्टौ
यन्त्र रचना मूलकानि सन्ति, सिद्धान्तशेखरे 'गोलश्चक्र कार्मु काकत री च कालज्ञाने
यन्त्रमन्यत् कपालम् | पीठं शङ्कुः स्याद् घटी यष्टिसंज्ञं गन्त्री मन्त्राण्यत्र दिक्
सम्मितानी' स्युक्त्य १ गोलयन्त्रम्, २ चक्रयन्त्रम्, ३ धनुर्यन्त्रम् | ४ कतरी नामक
यन्त्रम् | ५ कपाल यन्त्रम् | ६ पीठ ( फलक ) यन्त्रम्, ७ शङ कुनामकयन्त्रम् |
८ घटीनामक यन्त्रम्, ९ यष्टि यन्त्रम् | १० गन्त्री ( शकट) यन्त्रम् । इति दश-
मितानि यन्त्राणि श्रीपत्युक्तानि सन्तीति । शिष्यधीवृद्धिद तन्त्र द्वादश यन्त्रा
पयुक्तानि यथा-
गोलो भगणश्चक धनुर्घटी शङ कुशकटकर्त्तर्य: ।
पीठकपालशलाका द्वादश यन्त्रारिष सह यष्टया ||
कर्णच्छाया धुदलं रविरक्षों लम्बको भ्रमः सलिलम् ।
स्युर्यन्त्र साधनानि प्रज्ञा च समुद्यमाश्चैवम् ||
• भास्कराचार्येण सिद्धान्त शिरोमणौ दशैव यन्त्राण्युक्तानि | यथा--
गोलो नाडीवलयं यष्टि: शङ्कृघंटी चक्रम् ।
चापं तुर्यं फलकं धीरेकं पारमार्थिकं यन्त्रम् ॥ इति ।