पृष्ठम्:भरतकोशः-१.pdf/१८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कोणा कोणा-गतिः कोणात्कोणं गता परा | कोणाहतः --हस्तपाटः मुहुः कनिष्ठिकाङ्गुष्ठाङ्गुल्यौ संयोज्य चाङ्गुली । अपराश्चलयेद्यत्र स स्यात्कोणाहतो यथा ॥ खुं खुं धरि खुं खुं धरि करकट करकिट | अत्र चलयेदिति लीनां विवर्तनं सूचयति । कोण्डिनाचीताल:– चित्रताल: दौलोर्धेबिन्दू बिन्दुश्च लवलाश्चार्धविन्दुकौ । लोऽर्धबिन्दू दलौ दौलः कोण्डिनाचीति कथ्यते ॥ 00/00010100100101001 कोदुम्भकः–मात्रावृत्तम् भ, ( अथवा ) गग, रः, पञ्चमात्रिक एकः द्वौ सगणों, कोपः हन्म्येनं छेदयिष्यामीत्येवं बुद्धिप्रवर्तिनी । मानसो विक्रिया कोपो वाच्यावाच्याविलोचनी || नृत्तम् एकत्रिपश्वसताक्ष्या विषमा गीतयः किल । स्थानचार्यादिभेदेन कोपा इत्यवदन्नटाः || एकांघ्यादिप्रभेदेन समतापि परे जगुः । केचिदत्रैव बणैर्हि कोपत्वे च समादधुः ।। कोषुः—-अभिनयः रुपगतं नर्तन कोपुरुच्यते । काशशर आद्यैः ॥ कोमलम् दशनम् कोमलं तु यद्व्याजस्निग्धं मुग्धावलोकनम् । कोमलम् . यावती यस्य पुष्टिः स्यादुचितां वृद्धिमेयुषः । अव्याहता हि सततं तावती कोमलं मतम् ।। १५२ देवण: ताललक्षणे वेमः विरहाङ्कः भावविवेकः शारदातन्यः -भाव विवेकः कोमलता-फूत्कार गुण: सौर्य कोमलता, कोमलिका– देशीलास्याङ्गम् अङ्गानां यत्र तन्वङ्गवाः सौकुमार्यतरङ्गितैः । नर्तनावलनायैस्तु ललितैश्चेष्टितर्युता । नृत्तक्रिया नवीना तु तज्ञैः कोमलिका स्मृता । कोलाहलः–रागाझरागः शुकयाना रक्तवस्त्रा गौरवर्णेति कश्चन । टक्कारख्यप्रामरागस्थ गीतज्ञा अङ्गभूचिते। कोलाहलं स्वरे तारे संपूर्णे तु प्रकल्पितः । वर्षासु] टक्कवद्यः रौद्रे वीरेऽद्भुते स्मृतः ।। -मेलरागः ( धीरशङ्करामरणमेलजन्य:) (आ) सरि ग म पनि ध नि स. (अव) सनि प ध म गरिस. कोलाहलो नितारस्स्यात् मन्द्रमध्यमगर्जितः । षड्जांशष्टक्करागोऽस्य कारणं जगदुर्बुधाः ॥ अंशे न्यासे ग्रहे षड्जो रागात्कोलाइको मतः । --प्रथमरागः कोलाहलो मध्यममन्द्रही नस्सांशस्तदन्तम ऐष रम्यः | निषादतारोभवकारणं च रागोऽस्य टक्को मुनिमिः प्रदिष्टः ॥ भोक्षः रागात् - रागाङ्गः ॥ कोलाहला-- रागः कोलाहला पहीना स्यात्सधमन्द्रा मजायसी । विचित्रा सर्वगमकैः सरिगमधनिस्वरैः ॥ भाषारागः षड्जग्रहांशमन्यासा मध्यमस्वरभूयसी । षाडवेयं मतङ्गस्य मते पञ्चमलोपत्तः ।। कोलाहला औडुवा निपलोपेन याष्टिकस्य भते सतः । मन्द्रधैवतषड्जाख्या कलहे विनियुज्यते । कोलाहला टक्कभाषा षड्जप्रामसमाश्रया ॥ मट्टमाधवः मा इम्मीरः मद मोक्षः कुम्भः