पृष्ठम्:भरतकोशः-१.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रमताडितम् क्रमताडितम् – पादमणिः यस्मिन्नङ्गुलिपृष्ठेन तिष्ठन्तौ चरणौ कमात् । तलाभ्यां भुवि कुते सशब्दं ताडनं मुहुः । यत्र तन्तृत्ततत्त्वज्ञैः कथ्यते क्रमताडितम् ॥ क्रमपाद निकुट्टिता- मुडुपचारी एवं व्यमिता सैव क्रमादनिकुहिता सेति पादस्थितिनिकुट्टिता || क्रमरेचितः-वर्णालङ्कारः आदावन्ते मुर्छनाया: स्वरश्चाद्यो द्वितीयकः । सध्ये यदि भवेदेका कलेयं प्रथमा मता ॥ यदि मध्यप्रथमयोः तत्तृतीयचतुर्थको । सा द्वितीयकला यत्र पञ्चमायास्त्रयः स्वराः || मध्ये स्थितः प्रथमयोः चिरयोः सा कलान्तिमा | इत्थं कलात्रयोपेतं क्रमरेचितमूचिरे ॥ सा रिसा सं गमसं पधनिसं इति षड्जाख्यं स्थायिनं कृत्वा एकद्वित्रिक्रमेण तान् । स्वरानुचारयेत्तत्र त्यक्त्वा मध्योदितस्वरान् । त्रिरावृत्तिकरत्वेन स भवेत्क्रम रेचितः || क्रमसंहतिः– देशीताल: नजौ सद्वितयं यश्च प्लुतश्च क्रमसंहृतौ । २३ मात्रा: । क्रान्तम्-करणम् कृत्वा चारीमपक्रान्तां पात्यमानं निश्चितम् । पृष्ठतः स्थापयित्वानि पुरतस्तं प्रसारयेत् ॥ व्यावर्तितेन निष्क्रान्तमाक्षिप्तपरिवर्तितम् । करं वक्षसि तहिकं विद्ध्यात्खटकामुखम् । यद्रङ्गान्तरमध्येवं तदा कान्तमुदीरितम् || उद्धवस्य परिक्रमे विनियोगः । -मण्डलम् कुरुते दक्षिण सूचीमपक्रान्तां तुìवामतः । ततः पादौ सव्यवामी पार्वत्रान्तमतः परम् ।। अशोकः पण्डितमण्डली जगद्वर: तालप्रस्तार: ज्यायनः

मण्डल भ्रमण कृत्वा वामः पादस्तु सूचिकाम् । दक्षिणाधिरपक्रान्तां चारों तु कुरुते यदि । तन्मण्डलं बुधैः क्रान्तं स्त्रगती परिकीर्तितम् ।। क्रिया- तालप्राणः क्रिया मार्गदेशी भेदेन द्विधा मार्गक्रिया निःशब्दा सशदेति द्विधा मिद्यते । निःशब्दाsपि आवानिष्कामविप्रवेशक- भेचतुर्धोका | सशब्दातु ध्रुवशम्यासालसन्निपात भेदैः चतुर्मा । मिश्रा मार्गदेशीक्रिया देवा तत्राद्यस्य क्रिया द्विधा । निशब्दाशब्दयुक्ता च निश्शन्दा तु कलोच्यते स्यादावापोऽथ निष्कामो विक्षेपोऽथ प्रवेशक: निश्शब्दोऽत्र चतुर्धोक्त: सशब्दापि चतुर्विधा । ध्रुवशम्या तथा तालः सन्निपात इतीरितः ।। अत्र कलासंज्ञा पाक्षिकी । सर्वपातानुगामित्वात्तत्र स्यात्प्रथमं ध्रुवः । शम्या दक्षिणहस्तस्य प्रयोगस्तदनन्तरम् ॥ तदनन्तरतस्तालः पातो वामकरोद्भवः । तथोभयकोत्पाद्यः सन्निपातस्ततो भवेत् || उत्तानस्य करस्य स्यादावापोङ्गुलिकुचनात् । निष्कामोऽधस्तलस्य स्याङ्गुलीनां प्रसारणात् || विक्षेपः पार्वतः क्षेपात्पाणेरुत्तानितस्य तु । प्रसारिताङ्गुलीकस्य निर्दिष्टः पृथिवीभुजा ॥ पाणेरधस्तलस्य स्यात्प्रवेशोऽङ्गुलिफुचनात् । तयोरेकतरस्यात्र छोटिकाशब्दपूर्वकम् || पाणे संपातनादुक्तो ध्रुवो विश्लेषवर्जितः । गातुः पापस्य शमनाच्छम्या दक्षिणपाणिना || वामपाणितलाघावादुक्का प्रत्यर्थिघातिना । प्रतिष्ठार्थतया धातोरदृष्टस्थापकत्वतः ॥ तद्विपर्ययतस्तालस्तालविकीर्तिनोदितः । सन्निपातो मिथस्सम्यक्पाणियनिपातनात् || मिना । दक्षिणतलाघातः तालः । तद्विपययेति । शम्यायाव्यत्यस्त इत्यर्थः । बामपाणिना छोटिकेति देशभाषासु छिटिकेत्युक्तम् । अच्युतरायः