पृष्ठम्:भरतकोशः-१.pdf/१९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्रोधः १५७ योसौ पुरुषार्थसिद्धिहेतुः क्रोधः स्थायीभावः सोऽयं न सन्ध्य- न्तरं भवति । यथा - श्री विशाखदेवकृते अभिसारिकावश्चि- के संभावितपुत्रवधायै पद्मावत्यै ऋो वत्सराजीऽभ्यधात् । प्रदुष्टोत्रग्राहां सरितमवगाढः क्षमवशा- दुपालीन शाखां फलकुसुमलोभाद्विषतरोः । फणालीरत्नार्थी च्युतपरिचयां क्रौर्यनिरतां विषज्वालागर्भा चिरमुरगकन्यामनुसृतः ॥ क्रोधः- स्थायिभावः आधर्षणाक्रुष्ठकलविवादप्रतिकूलादयोऽस्य विभावाः | चि- कृष्ट नासापुढोद्वृत्तनयनसन्दष्टोष्ठपुढगण विस्कुरणादयो ऽनुभावाः। रिपुजी गुरुजश्चैव प्रणयिप्रभवस्तथा । भृत्यजः कृतकश्चेति क्रोधः पञ्चविधः स्मृतः ॥ श्रृकुटीकुटिलोत्कटमुखसन्दष्टोष्ठः स्पृशन् करेण करम् । क्षुद्रः स्वभुजप्रेक्षी शत्रौ नियंत्रणं रुष्येत् || किश्चिदवाङ्मुखदृष्टिः साश्र: स्वेदापमार्जनपर अव्यक्तोल्बणचेष्ठो गुरौ विनययन्त्रितो रुपयेत् || अल्पतरप्रविचारो विकिरन्नश्रूण्यपाङ्गविक्षेपैः । सकुटीस्फुरितोष्टः प्रणयोपरतां प्रियां रुपयेत् || अथ परिजने तु रोषस्तंर्जननिर्भर्त्सनाक्षिविस्तारैः । विप्रेक्षणैश्च विविधैरभिनेयः क्रूरता कारणमवेक्षमाणः प्रायेणायासलिङ्गसंयुक्तः । वीररसान्तरचारी कार्यः कृतको भवति कोपः ॥ क्रोधा-श्रुतिः गान्धारस्य द्वितीया श्रुतिः । मध्यमः क्रौच पर्यायशब्दै रुच्यते । क्रौञ्चपद:-

पचन्धः

पढ़: स्वरैः स्वरन्यासः प्रतितालेन गीयते । बुधैः क्रौञ्चपद: क्रौख पदाख्यच्छन्दसाकृतिः ॥ भोजः क्रौञ्चपदी – पञ्चविंशत्यक्षरवृत्तम् भमस भन न न न गाः भरतः श्रीकण्ठः भरतः क्रौचा वावृत्तम् पत्वादौ यत् तु दीर्घ नवममपि च गुरुसमयकृतं । दीर्घ चान्त्य अष्टममन्तं लघुविरचितमिह चरणविधौ || वृत्ते ज्ञेयं जगतिरपीय बहुविविधनिचयचितविहिते क्रौञ्च नाम्ना छन्दसि चौक्ता द्विजगणमुनिगण परिपठिता || पासादाण कारयमाणो सितपद निवसणमिव विपुलम् | ( प्रासादानां क्रियमाणं सितनिवसनमित्र विपुलम् | क्लान्तम् – देशीस्थानम् चिबुकं कर्कटे हस्ते न्यस्तमंसस्थितं शिरः । शून्यो यन्त्रेन्द्रियग्रामः स्फुरद्वाप्ये विलोकने || तत्कान्तं स्थानमाख्यातमेतत्तु विनियुज्यते । निगृहीते निर्जिते च चिन्तायां ध्यानशोकयोः || -- स्थानकम् यत्रेन्द्रियाणि सर्वाणि गुप्तशोककृतं स्मृतम् । रणरङ्गपराभूते शोकव्याकुलितादिषु । कान्तमित्यभिधा यस्य कथयन्त्यपरे पुनः || काडशृङ्खला – देशीनृत्तम् रामबाणार्जुनशरौ हारबन्धश्च चक्रकः । मूरूगण्डः सर्वगण्डः षड्धा ते तालधारिणाम् || विदिताश्चतुरस्त्वन्ये नागवृक्षकबन्धको । गोमूत्रिका च पाताळसूचीति गदिता बुधैः । एतेषां लक्षणान्येवमूहनीयानि पण्डितः । दशस्वे ते वाद्य षट्कलक्षणं लक्ष्यतेऽचुना || क्षणम् – हस्तः पाणिद्रन्द्रं समाश्लिष्य ऋजुपाश्र्वद्वयेऽपि च । यत्तु प्रहर्तुमुद्योगः तत्क्षणं परिकीर्तितम् ।। क्षमा--लक्षणम् दुर्जनोदाहृतै रूक्षैः सतां मध्येऽमिताडितः । अक्रोधः ऋवेधजननः वाक्यैर्यः सा क्षमा भवेत् || ज्यायनः मरतपाठान्तरम् सिद्धान्बहून्प्रधानार्थान् त्यक्त्वा यस प्रयुज्यते। वेदः उमा भरतः दुर्जनोक्तैर्वचनैः क्रोधजननैः सभायां ताडितोऽपि यः पुरुषः कोधहीनः स एवं क्षमावान् | तद्वर्णनोचितः कविव्यापारः क्षमेत्यर्थः । अनेन च यथोचित्यमिन्नवृत्तिसञ्चयः सर्वो विभावा- दूधुचितो निर्वर्त्यमानः काव्यलक्षणत्वेन सूचितः ।