पृष्ठम्:भरतकोशः-१.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

खण्डनम् खण्डनम् किनर्या वामहस्तव्यापारः । तत्र द्रष्टव्यम् । खण्डपाट:--वाधप्रबन्धः खण्डपाटो भवेद्वाद्ये कृतैः पॉँटैस्तु खण्डशः । पाटस्य खण्डनाद्वाद्ये खण्डपाटोऽभिधीयते । खण्डमुकुलहस्तः पूर्वोक्तमुकुले हस्ते तर्जनी संप्रसारिता नाम्नाय खण्डमुकुलो मूषिकार्थे तु पुतिः ॥ खण्डयतिः–– बाद्यप्रबन्धः कृत्वा खण्डं पाठबद्धं यतिवद्वादनं भवेत् । एवभावृत्तिकरणादाहुः खण्डयतिं बुधाः ।। खण्डपाटै: प्रकर्तव्यो यतिभिश्चात्र खण्डकैः । एवं निरन्तर वाद्य तल्खण्डयति कथ्यते ॥ पाटबन्धं यदा खण्डं यतियुक्तं पुनः पुनः । वाद्यते यत्र वाद्यज्ञैः सा खण्डयतिरुच्यते ॥ खण्डव :---.देशीताल: खण्डवर्णे लुतौ गश्च द्रुतो गश्च गुरुलेगौ । 's ssoss 1s खण्डसूचितम्–देशीस्थानम् एकोङ्मिः कुञ्चितस्सम्यगन्यस्तिर्यक् प्रसारितः । चरणो यन्त्र कथित स्थानकं खण्डसूचितम् || खण्डसची अमरी–तिरिपतृ ताङ्गम् खण्डसूच्यां तिर्यगूर्ध्वं पताकः प्रसृतो यदा । वामो दक्षिणहस्तस्तु पार्श्वदेशे प्रसारितः ॥ तावेव शिखरौ स्वान्ते कृत्वा वामपदं ततः । दक्षिणे जानुमूलान्तः दक्षिणावर्ततो भ्रमिः । त्रिवारं च भवेदन्ते खण्डसूची भ्रमिर्भवेत् || 13 वेमः शा शा सोमेश्वरः नन्दी वेमः । खण्डहुल:- वाद्यप्रबन्धः श्रोतोगताख्यया यत्या खण्डहुलोऽभिधीयते । खण्डिका ---भक्ताल: लघुद्वयं दचतुष्कं विरामः पुनस्तथैव । 11000d 110ood खण्डिका त्वथ गान्धारमहांशन्याससंयुता । समस्करा तारहीना सन्त्यकर्षभपञ्चमा । षड्जमन्द्रा तथा चेयं रागज्ञैरभिधीयते ॥ खण्डिता–नायिका व्यासङ्गादुचिते यस्या वासके नागतः प्रियः । तद्नागमदुःखार्ता खण्डिता सा प्रकीर्तिता || व्यासङ्गादिति । अन्यनारीविषयादित्यर्थः । वाद्यप्रबन्धः यद्वाद्य वाद्यते यत्र यत्या स्रोतोवहारख्यया । स खण्डहुल्लकः प्रोक्तो वाद्यलक्षणपण्डितैः ॥ खनटनतिः- मेलारगः (नटभैरवीमेलजन्यः ) (आ) सरिगम घम प ध निस. (अव) सनिधप गरिस. खमेदनृत्तम् – देशीनृतम् चतुरकराकारी चतुर च पलवौ । करवर्तनिकापादनं च शिरो दृशः || कुतकालश्च तिरिपः करमोक्षो यथोचितम् ! सम्प्रदायातततधा झम्पातालेन नर्तनम् । करोति हि स्वभेदाख्यं कथितं पूर्वसूरिभिः || खम्भारी – रागः षड्जांशाधैवतन्यासा पश्र्चमेन च दुर्बला । चैवतर्षभकम्पाढया खम्भारी नामतो हि सा ॥ खम्भारी शार: नान्यः हरि भरतः बेमः सोमेश्वरः