पृष्ठम्:भरतकोशः-१.pdf/१९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गजलीलः एतद्भवेदेकताल्यां ताले निरसारुफेऽथवा | नैव तालस्य नियमो भवेदुपशमे पुनः । निरन्तराणि वाद्यन्ते खण्डानि गजरस्य तु || उदाहरणं रत्नाकरे द्रष्टव्यम् । गजलील: ---देशीताल: गजलीले विरामान्तं लचतुष्टयमीरितम् । यव प्राच्यं पङ्क्तियुग्मं पश्चिमं च परस्परम् | चतुष्कवृत्या संप्राप्य मध्यकोणे विनिष्पतेत् । स बन्धो गजलीलाख्यः कथितो वेमभूभुजा || गजलीलम् – वाद्यम् बहुधा मूछेना हस्ताः स्फुरिताः कर्तरी ततः । खसितो यत्र तत्प्राहुर्गजलील कलाविदः || --- वीणावादनप्राणः कर्तर्या श्वसितेनापि मूर्छितः स्फुरितैः करैः । विरच्यते तु यद्वाद्यं गजलीलं तदीरितम् || भूरिभिर्मूर्च्छना युक्तं कर्तरी स्फुरिताकुलम् । स्वसितश्चैव तद्वाद्यं गजलीलमुदाहृतम् ॥ गजलीला— गतिः गतिर्मन्दविलासेन मत्तक्कुञ्चरवद्भवेत् । नटस्य नटतस्तैव गजलीला तदा मता ॥ पाइयोस्तु पताकाभ्यां कराभ्यां विजयं ततः । समपादाहतिर्मन्दं गजलीलेति विश्रुता । प्रबन्धः गजलीलाख्यतालेन गजलीला निगद्यते । छन्दोहीनेतरलक्ष्म हुयलीलागतं मतम् || गजवक्तः --देशीताल: गजवक्तस्तु चत्वारो लघवो निर्ध्वनिः स्मृतः । वेमः वेमः शाद: पार्श्वदेवः कुम्भः देवेन्द्रः नाट्यदर्पणे श्रीकण्ठः लक्ष्मणः गजवर्धनं– मेलरागः ( धीरशङ्करामरण मेलजन्य: ) (आ) सगमधनिस. (अव) सधपम गरिस. गजविलसितम्- पोडशाक्षरवृतम् ऋषभगजविलसितमेवेदम् । गजसारि:-- ( धेनुकामेलजन्य: ) ( आ ) सरिगमपनि धस. (अव) सपम गरिस. गजासुर:- देशीताल: एकद्वित्रिचतुः पञ्चषड्द्रुतान्तर्लघुर्यदि। भवेद्वजासुरो नाम तालोऽयं परिभाषितः । 0 1 0 0 1 0 0 0 1 0 0 0 0 1 0 0 0 0 0 0 0 0 0 लक्ष्मणः गजेन्द्रगति :---.देशीताल: लचतुष्कं विरामान्तं गजेन्द्रो गजगामिनि । गणनायक:-- देशीताल: नगी दौलो बिन्दुयुग्मं तश्च गणनायके । १९ मात्रा: गण्डः–देशीताल: लौ लगौ गण्डताले । ७ मात्राः गण्ड: अन्यदन्यच्च वदतोर्द्वयोर्वाक्यसमागमे । जायतेऽनिष्टमिष्टं वा स गण्ड इति कीर्तितः ॥ सोमराजः ? ताळप्रस्तारः तालप्रस्तारः


.वीथ्यङ्गम्

ननु च बहुवक्ष्यमाणस्याशुभार्थी बहुवचनाक्षेपकृतं गण्ड- मित्यनेनोच्यते । तब पताकास्थानकस्यापि आगामिक्स्तु सूच नात्मकत्वात्ततोऽस्य को भेदः । उच्यते - पताकास्थानकेन धर्मादेर्नाटकशरीरभूतस्य साध्यस्य वस्तुनः साधनभूतानां उप- क्षेपः क्रियते । अत एव तद्विघ्नभूतानामिति विशेषः । अत एव गण्ड इव गण्डः । यथा हि गण्डः प्रथममुद्भिद्यमानः पको गण्डो ज्ञेयः । तदिह बहुवचनसंबन्धानां अन्ते यत्पदं चा- संबन्धं संबन्धमिवाभाति । तद्गण्डं नाम वीभ्यां स्यात् । मोजः