पृष्ठम्:भरतकोशः-१.pdf/२००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गण्ड: १६६ - यथा राघवाभ्युदये - किन्ते स्यादिति चिन्तया इति रामे- णोक्ते सीता विरहस्तवेत्याह। रामस्तु शान्तमित्याह । सागर: अन्यामिप्रायेणाकस्माप्रत्युक्तं प्रतिवचन तयाऽनुच्चारितमपि प्रतिवचनरूपतया प्रक्रान्तेन यत्संबन्ध वचनं तत् दृष्टार्थगर्भत्वाद् दुष्टशोणितगर्भगण्ड इव गण्डः । यथा - बालिकावञ्चितके कः कैंसमास्कन्दति इति कंसेनोक्ते नेपथ्ये योऽन्यतः । प्रसूतो अन्येन च वर्धितो मधुप्रभवः । कृष्णस्य परपुष्टो मारयति न कोऽपि धारयति । इति रङ्गमध्यप्रविष्टपालपठितेन वचसा अनिष्टार्थसूचकं संयुज्यमानं गण्डः । रामचन्द्रः । संरंभसंभ्रमयुत विषादयुक्तं तथापवादकृतम् । बहुवचनाक्षेपकृतं गण्ड प्रवदन्ति तत्त्वज्ञाः || भरतः संरभणाकृतिविशेषेण यः संभ्रम आवेग: तद्युक्तं यद्विरुद्ध- बस्तु यदनेन कृतं पूर्वोक्तवस्त्वपवदनमेव तद्वचनं दृष्टार्थगर्भ- त्वागण्ड इव गण्डः। ईषदसमाप्तं वचनं बहुवचनं तत्कृतेनाक्षे- पेण कृतं स्वयं प्रतिवचनतां पूर्ववचनस्य गतमित्यर्थः । तथा च कोहल:- वचसां संबद्धानामन्ते यस्स्यात्पदे त्वसंबन्ध: । संवद्ध- मित्राभाति हि तद्दण्डो नाम वीथ्यङ्गम् । अनेनेषद्समाप्तिरेव दर्शिता । यथा - वेण्यां दुर्योधनेन भानुमती प्रति करभोरुम- मोधयुग्ममित्युक्ते, कञ्चुकी भननीनेत्याह । तन्नोरुयुग्ममिति पूर्वविश्रान्तमपि भग्नमित्यत्रसंबन्धयोग्यं जातम् । अभिनवः उक्तमन्यार्थमन्येन वचोऽन्यार्थ प्रकल्पयेत् । अन्यधेति हि गण्डोऽयं बहुधा परिकीर्तितः ।। बथा - जातोन्यन्त्र च योऽन्यत वर्धितो मधुसंभवः । परपुष्टरसकृष्णो यं मारयत्यनिवारितः । इत्युस्कण्डितया प्रोक्तं के सेनागतमन्यथा || द्वथर्थगण्डशब्दोऽप्यत्र द्रष्टव्यः । गण्डभेरुण्ड:- देशीताल: ण्डभेरुण्डतालोयं गजाभ्यामुपरिस्थलः । 51511 कपित्थहस्तयोर्मेलात्स्वस्तिकेनैव संभवेत् । गण्डभेरुण्डनामार्थ नारसिंहोऽधिदेवता । गण्डभेरुण्डसंज्ञाके विनियोगस्तु तत्र च || सागर: लक्ष्मण: गौरीमतम् । गणेशः वकल्पद्रुमकारः गण्डसूचि-करणम् पादसूचीकरः क्षेत्रे वक्षस्थः खटकामुखः । कपोलान्ते करोऽन्यः स्यादपातपञ्चितः || यत्र पाश्र्व नतं तज्ञैर्गण्डसूचि तदिष्यते । विनियोगोऽस्य मन्तव्यः कर्णगण्डस्य मण्डने || सूचीपाद परे प्राहुः कपोळप्रान्तगामिनम् | नृत्तहस्तोदितं सूची मुखमन्ये प्रचक्षते ॥ तमसंयुतहस्तोक्तं अपरे त्वनुमन्यते । त्रिपताकामिधं हस्त भट्टतण्डुरभाषत ।। गतागतम् -- स्थानकम् गन्तु चरणमुत्क्षिप्य मध्ये गीतादिहेतुना । हस्ताद्यभिनये यस्मिन् नर्तकी प्रवितन्वती ॥ गतिस्थिति निरुद्धाय तिष्ठेत स्यागतागतम् । संभ्रमप्रभृतावस्य विनियोगः प्रकीर्तितः ॥ तत्रैकं पादमुद्धृत्य गतिके गमनोन्मुखे । दास्ते स्थानकं तत्तु गतागतमुदाहृतम् ॥ न ययौ च न तस्थौ चेत्यादि वागर्थदर्शने | संभ्रमादौ च तस्यास्य प्रयोगः परिकीर्तितः ॥ गतिचरः– देशीताल: ताले गतिचरे प्रोक्तौ खण्डमिश्रौ लघु क्रमात् । S||SI| गतिमण्डलः --- अङ्गहारः गतिस्थम् – देशीलास्याङ्गम् मार्गदेशीगतं यद्वा समग्र लक्षणान्वितम् । वाद्यतालयुतं नृत्तं गतिस्थं प्रणिगद्यते ॥ गदा – देशीताल: गौलतब्ध गदामिधे । गदा ईss ज्यायनः मण्डलस्वस्तिकनिवेशोन्मत्तोद्धद्वितमत्तल्ल्याक्षिप्तोरोमण्डलकटि- छिन्त्रानामष्टानां करणानां क्रमात्प्रयोग गतिमण्डलाङ्गहार: ज्यायनः लक्ष्मण: शार्ङ्गः ज्यायन: मदन: