पृष्ठम्:भरतकोशः-१.pdf/२०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गद्यम् गद्यम्... प्रबन्धः सद्गद्य यदपद्य स्यात्सुशिष्टपदयन्धनम् । षोढा निरूप्यते तच्च वृत्तगन्ध्यथ चूर्णकम् ॥ तथैवोत्कलिकाखण्ड ललितं चित्रमित्यपि । पद्यगन्धानुसारंस्थाद्यद्गद्ये वृत्तगन्धि तत् || पदैर्व्यस्तैस्समत्तैश्च यद्वन्धश्चूर्णकं हि तत् । शब्दाडम्बरयुक्तं च तत्स्यादुत्कलिकाभिधम् | यदा भिमसंयुक्तं तद्द्यं चण्डमुच्यते । यत्पञ्चषैः पर्दैर्बद्धं समस्तैर्ललितं हि तत् || चिवादिबहुभङ्गीभिः गद्ये चित्रं निगद्यते । एतेषां गानसमये भवेत्तालो यथोचितः । द्रष्टव्या गानवैचित्री स्वराणामपि नैपुणी । आभोगसमये गातुर्नाम नेतुश्च गीयते ॥ इदं गद्यमधिकृत्य विशेषांशाः जगदेकमल्लरघुनाथभूपवेङ्कट- मखिप्रभृतिभिर्विस्तरेणोक्ताः । ते तत्रैव द्रष्टव्याः । गनाम्बरी – मेलराग: ( धीरशङ्कराभरणमेलजन्य: ) (आ) सरिगम प ध नि स (अव) सनि ध प म मरिस. गन्धतरङ्गिणी--मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) सगरि ग म प ध नि स. (अव) सधनिपम रिंस . गन्धमादनः–देशीताल: प्लुतौ सौ दलगपा: ताले स्युर्गन्धमादने । - मेलरागः ( गमनश्रममेलजन्यः ) ( आ ) सरिमपधस. (अव) सनिधपमधम गरिस. गन्धर्वः -~-~-मेलरागः ( रघुप्रियामेलजन्यः ) (आ) पधनिसरि गरिसनिपप. ( अब ) म पधनिसनिपंप. गन्धर्वः– देशीताल: गन्धवो मरभासुरः ।

SSSSISSI मझ मझ } तालप्रस्तारः मझ भज १६७ लक्ष्मणः । ] गन्धर्वशीला---स्त्री. क्रीडापराचारुनेत्रा नखदन्तैस्तुपुष्पितः । स्वकी च स्थिरभापी च मन्दापया रतिप्रिया || नृत्ते गीते च नाटये च रता दृष्टा सृजावती । गन्धर्षशीला विज्ञेया सिग्धत्वकेशलोचना || गन्धर्वानुमतः---तानः गान्धारग्रामे नारदीयतानः | पनि लरिग. गन्धर्वामोदः— रागः गान्धारन्यासो मध्यापन्यासः षड्जकन्यासः | धैवतनिषादरहितः करणे वैवस्वताधिपतिः ।। आलापमूछेना युक्तः तुम्बुरुप्रियतानवान् । गन्धर्वामोदनो नाम रागः प्रोक्तो मनीषिभिः ॥ गान्धारांशष्षड्जन्यासत्यक्तनैषादधैवतः । मध्यापन्याससंयुक्तो गन्धर्षामोदनस्मृतः || गन्धविशेष :--मेलराग : ( खरहरप्रियामेलजन्य: ) (आ) सरिग म प ध नि स. · (अव) सधपगरिस. गमक: श्रोतुश्चित्तस्य सुखदो गमकः स्वरकम्पनम् । गमकः स्थायवर्णाद्याः नानालङ्कृयलंकृताः ॥ गमनक्रिया–मेलरागः ( गमनश्रममेलजन्यः ) (आ) सरिगम पनि स ( अब ) सनिपमगस. गमन निर्मला गमनतरङ्गिणी ---मेलराग : ( नटभैरवीमेलजन्य: ) (आ) सरिम गरि म नि ध निषध निस. ( अब ) सनिधप गरिस. गमननिर्मला–मेलरागः (गमनश्रममेलजन्य ) ( आ. ) सरि ग म प ध नि स. (अव) सनिपम रिस. भरतः नान्यः नान्यः मझ कुम्भः मज मध