पृष्ठम्:भरतकोशः-१.pdf/२०४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गातृगुणा: गावगुणा: शारीरं च ध्वनिर्मेधा प्रौढिर्गमककौशलम् । तालज्ञता निर्भयता गातुः सप्त महागुणाः || गाववर्णः–वर्णालङ्कारः गात्रवर्णे स्वराणां स्यात् विचतुः कीर्तनं क्रमात् । भेदद्वयमिदं केचिन्नैष्कर्ष्य जगदुर्बुधाः || अलपट्टवहस्तोऽन्तर्गात्रं व्यावर्तितो यदि । पराङमुखोप विद्वत्स्यात्तदोक्ता गात्रवर्तना || भेदद्वयमिमि स्वराणां त्रिः चतुरभ्यासः । नैष्कर्ष्यमिति निष्कर्षा- लङ्कारभावः । गालवर्तना - मालावृत्तम् गायः - र, स, ग, ग. गाथा गाथायां तु कलाः प्रोक्ता नियताश्चतुरक्षरैः । संख्या कला मात्रा चाष्टाविंशसभ्यधिकं शतम् || मात्रावृत्तैस्तथा स्तोभाक्षरैस्तासां तु पूरणम् । अत्रैककानि वर्णाश्चाsलङ्कारा गीतयस्तथा ॥ सामाङ्गान्यप्यनेकानि कर्तव्यानि विचक्षणैः । भवेद्विषधसज्ञानां गीताङ्गानामिहाल्पतः ।। सोमेश्वरः --प्रबन्धः अथो गाथापुराणादिकाव्यसंबन्धिनी कथा | सा च पञ्चपदी वापि षट्पदी त्रिपदी भवेत् || आर्या पदन्त्रिमाला स्याद्भाषा प्राकृतसंज्ञिता। तालो रागा यः कश्चित् गाथेति परिकीर्तिता || अत्र विवधैककशब्दौ विदारीशेषवाचकौ । सामाङ्गानीति । प्रस्तारादयः सप्त आदौ द्वादश मात्रारस्युर्दशाष्टौ च ततः परम् । ततश्च द्वे दशार्यायाः तुर्ये पञ्चदशाधिकः ।। आर्या लक्षणसंयुक्ता गाथा प्राकृतभाषया । सीयते पूर्ववद्म्या छन्दोलक्षणवेदभिः ॥ अशोकः १७० हरिपाल: सोमेश्वरः गानक्रम: गाथ: -- प्राकृतगाथा अष्टमषोडशौ गौ चतुर्दशो लः षष्ठो जो वा नलौ वा शिक्षा- इचतुर्मात्रिका | त्रिंशदक्षरमारभ्य पञ्चपञ्चाशत्पर्यन्ता । गानक्रमः नारदमतङ्गादीनां काले यः क्रमोडवलम्बित: स ग्रन्थेषु न | वर्णितस्थात् केवळमाळापकरणरूपकशब्दैः खराणां सन्निवेशो- अस्ति। कुड्डुमियामले शिलालिखिते शुद्धरागाणां सप्तानामप्याला- पस्थाय्यारोहणावरोहणापन्यासन्यासक्रमाणां सरिगाद्यक्षरैः स्वर्- ऋमो लिखितः, नास्मिन् गीतं वा प्रबन्धो वाङ्गत्वेन दृश्यते । आधुनिकैस्तु कश्चिद्रागक्रमोऽनुस्तृतः । सोऽधुनातनैः केनचिद्भेदे- नावलम्ब्यते । स क्रमस्तु कर्णाटक्रम इत्युच्यते । भारतोत्तरदेशे यथेष्ठ गीयन्ते रागाः । यवनानां मतस्यापि साङ्क भारतीय- गानक्रमे सङ्क्रान्तमिति कैश्चिदूह्यते । औत्तरीयगानस्य वीज भूतं प्रतिरागस्य देवताध्यानम् । तस्माद्रसश्च भावश्च प्रायः । वर्ज्यस्वरविषयः, आलापक्रमः, रागस्य वृद्धिकरणे मूर्च्छनातानानां नियमच गायकस्येच्छामात्रमिति लक्षणग्रन्थैरनुमीयते कर्णाट कक्रमस्त्वधो लिख्यते--- गानक्रम एवालापक्रम इति वेङ्कटमस्याह । आधुनिकैर्गानस्य प्रारम्भ एव रागस्वरूप वेद- यितुं यः स्वरक्रम आलम्बितस्स आलाप इत्युच्यते । गानाङ्गानि - (१) आक्षिप्तिका । आयित्तमिति देशभाषासूच्यते । रागैः प्रथममाक्षिप्यते साऽऽक्षिप्तिका । पीतत्वेन यथाक्षिप्त स्वनिर्वाहाय भोजनम् । रागेणापि तथाक्षिप्तेत्यादावाक्षितिका मता ॥ (२) द्वितीयाङ्गम् - रागवर्धनी तत् भाषायां इत्युच्यते । करणमिति प्राचीनग्रन्थेषूक्तम् । प्रबन्धावयवेषु य उग्राहस्थान भजते स एव रागवर्धनीशब्देन उच्येतेति स्यात् । एडुपुः, ग्रहः, उद्ग्राहः, एते पर्यायवाचका इति भाति । राग- वर्धन्यनन्तरं विदारी भवति । विदारी विश्रमस्थानम् । विराम इति यावत् । भरतेन अपन्यास इत्युक्तम् । रागवर्धनी विदारी च द्वे अङ्गे यथेष्टं द्विस्त्रिश्चतुः पञ्चकृत्वो वा अभ्यस्येते । यथा - द्वितीया रागवर्धनी विदारी च । तृतीया रागवर्धनी विदारी चा विदारी मुक्तायीति भाषयोच्यते । ततः स्थायीत्यई सङ्ग- ·च्छेते । स्थायिशब्दः स्वरतानानां प्रथमाक्षरवाचकः । कस्माधि- स्वरात्कस्यचित्वरस्यावधिमारुह्य पुनः कस्यचित्स्वरपर्यन्तमव रोहणमेकं तानं भवति । ततः तदधस्तनस्वरात्पूर्वस्व राधस्तन- स्वरपर्यन्तं कस्मिंशिचत्रे अध: क्रमेण न्यस्यते चेदवरोहण