पृष्ठम्:भरतकोशः-१.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गानमूर्तिः १७१ भवति । कूटतानलक्षणभन्यत्रोक्तम् । एवं स्थायिस्वराद्वहूनां तानानां तननं विस्तारणं वर्तनीत्युक्तम् । भाषायां मकरिणीत्यु- च्यते । अन्त्ये कस्मिंश्चिन्नियतस्वरे न्यासः ( रागस्थ वर्जनम् ) क्रियते सः न्यास इत्युक्तं भरतेन । भाषायां तु मुक्तायीति । चतुदण्डीग्रन्थगानसरणौ अयमालीप इत्युच्यते । स्थायिस्वर- भेदेन बहूनां तानानां सञ्चारण ठायमित्युच्यते । अयं पूर्वः क्रमः | अनन्तरं गीतिर्वा गीतं वा गीयते । ततः परं प्रबन्धो गीयते । तस्मिंस्तु प्रबन्धावयवानां त्रीणि चत्वारि पञ्च षड़ा अङ्गा- नि विस्तार्यन्ते । प्रबन्धसमातौ आभोग इत्यङ्गे कविनाम प्रभो- नाम चोक्ता प्रशस्यते । एवमालापठायगीतप्रबन्धानां चतुर्णामङ्गा- नां समवायेन गानक्रमः कर्णाटकसङ्गीते सम्प्रदायत्वेनाङ्गीकृतः । अग्रे रघुनाथेन दत्ते रागाणां लक्षणे एकस्य लक्षण, चनुर्दण्डील- क्ष्यप्रन्थाद्भैरवरागस्य लक्षण, तुलजभूपेन निरुक्तं श्रीरागलक्षणं चोदाहरणदिशा प्रदर्शयाम: । अवशिष्टं तत्तद्ग्रन्थेषु द्रष्टव्यम् । गानमूर्तिः–- मेळकर्ता रागः सरि ग००म०पध०० निस. गानललिता-मेलरागः ( गानमूर्तिमेलजन्यः ) (आ) सगमप धनि ( अव ) सनि ध प म गरि-स. गानाङ्गी–मेलरागः (नटभैरवीमेलजन्यः) ( आ ) सरि मग म प ध नि स. ( अब ) सकनिधमपस गरिस. गान्धर्वम् गान्धर्व तत्र विज्ञेयं स्वरतालपदात्मकम् । पुरा प्रणष्टां देवेभ्यो वाच गोरूपधारिणीम् । अधारयदिति प्रोक्तं गान्धर्वमिह सूरिभिः ॥ पदस्थ: स्वर सङ्घातस्तालेन सुमितस्तथा । प्रयुक्तश्वावधानेन गान्धर्वमभिधीयते ॥ अवधानमिति । सम्यक् बुद्धयादियोजनम् । यत्तु तन्त्रीगतं प्रोक्तं नानातोद्यसमाश्रयम् । गान्धर्वमिति तद्ज्ञेयं रूतलपदात्मकम् ॥ अत्यर्थमिष्ट देवानां तेषां प्रीतिकरं पुनः । गन्धर्वाणां च वै यस्मात्तस्याद्गान्धर्वमुच्यते । मअ मझ कुम्भः दत्तिलः अस्य योनिर्भवेदानं वीणा वंशस्तथैव च ॥ गानमिति | केवलं खण्ड्यं गानम् । भरतमते ध्रुवमानमेव | गान्धर्व तल विज्ञेयं स्वरतालपदात्मकम् । पुरः प्रणष्टान्देवेभ्यो वाच गोरूपधारिणीम् । अधारयदिति प्रॊक्तं गान्धर्व पूर्वसूरिभिः ॥ अत्यर्थमिष्टं देवानामत एव प्रकीर्तितम् । वंशवीणाशरीरेभ्यः प्रभवस्तस्य सम्मतः ॥


करणम्

यत्रेकपाश्र्व स्थानं स्थापताकाख्यौ करौ तदा । उत्प्लुत्योरप्लुत्य पादाभ्यामङ्गुलीष्टष्टदर्शनम् । उपरि भ्रमित हस्तौ क्रमाद्दान्धर्वमीरितम् ॥ गान्धर्वः---गायकः गान्धर्वो मार्गदेशीवित् स्वरादेर्मार्गकोबिदः । गान्धवी पद्गतस्तु - गान्धर्ववेदसंग्रहः– गान्धर्वशास्त्रसङ्क्षेपः दत्तिलकृतः । अत्र पञ्चाशदुत्तरशतद्ववशलोकाः वर्तन्ते । अब भरतो गुरव इत्युक्तः । विशाखिलकोहलनारदाः स्मृताः गान्धर्वस्य वैविध्यम् गान्धर्व त्रिविधं विद्यात्स्वरतालपदात्मकम् । स्वराध श्रुतयो प्रामौ मूर्च्छनास्तानसंयुताः ॥ शुष्क साधारण वर्णा अलङ्कारारसधातवः । आवापस्त्वथ निष्कामो विशेषश्च प्रवेशनम् । शम्या तालः परीवर्तः सन्निपातस्सवस्तुकः मात्रा विदार्थङ्गुळयो गीतिः प्रकरणं यतिः • गीतयोऽवयवा सागः पातभागारसपाणयः । इत्येकविंशको ज्ञेयो विधिस्तालगतो बुधैः ॥ व्यञ्जनानि स्वरा वर्णाः सन्धयोऽथ विभक्तयः । नामाख्यातोपसर्गाश्च निपातास्तद्धिताः कृतः ॥ वृत्तानि जातयश्चैव भवेत्पद्गतो विधिः । गान्धर्वसङ्ग्रहो ह्येष विस्तरं च निबोधत ॥ हरिपाल: भरतः गान्धवी- वीणा गन्धर्ववीणेति नामान्तरम् । नकुलादीनां लक्षणे द्रष्टव्यम् ।