पृष्ठम्:भरतकोशः-१.pdf/२०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गायक भेदः गायकभेदः एकञ्चेदायकः स स्याद् द्वौ चेद्यमलको स्मृतौ मिलित्वा बहुभिर्यस्तु गीतं गायति गायकः ।। स वृन्दगायकस्तेषां पूर्व: पूर्वी भवेद्वरः । शिक्षको भावकश्चैव रजको रसिकस्तथा । अपरः कुठिकाराख्यः पञ्चमो गदितो बुधैः ।। गायत्रीवृत्तानि वृत्तानि च चतुष्षष्टि गायत्र्यां कीर्तितानि तु गायनप्रियः–मेलकर्ता रागः सरि०० म०पधनि०० स. गायि (य?) गोवालः– देशीताल: रगणो द्वावर्धमात्रौ गायिगोवाटनामनि । S1500 गारुगिः– देशीताल: विरामान्तं द्रुतानां च चतुष्कं गारुगौ स्मृतम् । ...… गारुडम्---देशीस्थानम् आकुचितो वामपादः पुरस्ताद्विनिवेशितः । पश्चाद्दक्षिणपादस्तु विन्यस्तो भुवि जानुना। यत्र तद्गारुडं स्थानं वदन्ति स्थानवेदिनः || गारुडहस्तः अर्धचन्द्रोत्थानितयोर्यदङ्गुष्ठे निकुञ्चिते । अन्योन्यमेलनाद्धस्तो गारुडः परिकीर्तितः । गरुडोऽस्याधिदेवस्तु गृध्रे च गरुडे तथा । गिरा --ध्रुवावृत्तम् त्रिलघुराजितो यदि च पञ्चमः । भवति पादतः प्रकथिता गिरा !! यथा- सुणिअ कुंजरो - श्रुत्वा कुञ्जरः - सोमेश्वरः भरतः मझ सुधा वेमः गोरीमतम् १७५ मध्यंमोत्तमपात्राणां गिरा वीरे रसे भवेत् । टक्केन चतुरश्रः स्यात्पादाक्षरविनिर्मितः ॥ । गीतम् स्वराणां च पदानां च तालानां च समन्वयः | गीतमित्युच्यते . गीतनृत्तानुगम् | वाद्यशव्दं पश्यत । गीतगुणाः इच्छन्ति सममाचार्या व्यक्तं वाञ्छन्ति पण्डिताः । काङ्क्षन्ति मधुरं कान्ताः विकृष्ठमितरे जनाः ।। शूराम्सोत्साहमिच्छन्ति करुणं विरहातुराः । विटास्तु परिहासाढ्यं योगिनोऽध्यात्मसङ्गतम् ॥ सोत्सवा मङ्गलं गीतं स्तोत्रं भक्तिसमन्विताः । वादिनो विषमप्राय प्रौढक्रमसमन्वितम् || गीतपात्रानुगं वाद्ये तद्भवेद्गीतनृत्तगम् । गीतपर्यायाः गीतं गानं च गीतिश्च गेयं गान्धर्वमित्यपि । गीतवाद्यता सोमेश्वरः इत्युक्तम् | काल: प. १२४५ गीतवाद्यता – देशीलास्याङ्गम् नृत्येदनुगुणं यक्ष नर्तकी गीतवाद्ययोः । अक्षराणां लयस्यापि समता गीतवाद्यता ॥ सोमेश्वरः सोमेश्वरः जगनाथमध्: गीतप्रकाशः एवन्नामानः ग्रन्थाः त्रयो वर्तन्ते । एको विप्रदासकृतः । अन्यः केनचिदोहृदेशीयेन कृतः । तृतीयः कृष्णदासेनौदूदे- शीयेन रचितः । अन्त्यः परिच्छेदात्मकः । प्रवादिगीतविषये बहून् पक्षान्निरूप्य स्वपक्षं सिद्धान्तयति। गीतलक्षणे समीची- नोऽयं ग्रन्थः । स्वनिबद्धोदाहरणानि गीतकानां वर्तन्ते । काळ: गीतरत्नावलिः ज्यायसेनापतिना कृता । तेनैवोक्तं नृत्तरत्नावलौ पचमाध्यायान्ते । 'एतासामपि विज्ञेयः प्रस्तार: कूटतानवत् । स चास्माभिः स्फुटंगीतरत्नावल्यां अपश्चितः ' अशोकः