पृष्ठम्:भरतकोशः-१.pdf/२१२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुण्डकृति: गुण्डकृतिः— क्रियाङ्गरागः देशी हिन्दोलरागोत्था मतारा मयभूयसी । षड्जन्यासांशसंपन्ना समन्द्रा रिधत्रर्जिता गेया गुण्डकृतिस्तज्जै रसे शृङ्गार संज्ञके ।। गुण्ड/क्रया-रागः गौण्डकी संज्ञितो रागो देशी हिन्दोलसंभवः । धैवतर्षभसंत्यक्तः षड्जन्यासांशसंयुतः ॥ गान्धारतारशेषस्तु क्रमादान्दोलितस्वरैः । षड्जमन्द्रसमायुक्त एवं गौण्डकृतिर्भवेत् ॥ षड्जांशा रिषभान्ता च धैवतेन च वर्जिता । प्रकम्तिा निजस्थाने नाम्ना गुण्डकतिर्मता ॥ न्यासांशकग्रहणषड्जघरा पमन्द्रा मध्याख्यपञ्चमरवप्रचुरा मता सा | त्यक्ता च धैवतरवेण हि गीतविद्भिः षड्जांशकग्रन्या सर्षभधैवववर्जिता । सपोत्कटा मतारा पमन्द्रा गौण्डकृतिर्मता । सङ्कीर्तिता जगति गौण्डकृतिर्मनोज्ञा ॥ देशी हिन्दोलरागाझं षड्जांशन्याससंयुता । रिसंव्यक्ता गतारा च शेषैरान्दोलिता खरैः । समन्द्रा हास्यशृङ्गारे गेया गुण्डकृतिर्भवेत् ॥ गेया गुण्डकृतिर्देशीहिन्दोलाई रिधोज्झिता । घड्जांशग्रहणन्यासा गतारा मन्द्रपञ्चमा । आन्दोलिता स्वैरैश्शेषैरेषा : ॥ --मेलरागः (मायामालवगौलमेलजन्य:) (आ) सरि गरिमं पनि धनिस.. (अव) सनिधपं मग रिगस. भट्टमाधवः | सोमेश्वरः नान्यः जगदेक: सोमराजः १७८ मज गुण्डक्रियारागध्यानम् श्री चन्दनोद्यानविलासभासुरां पीताम्बरालङ्कृतसन्नितम्बिनीम् । गुण्डकियां तां मनसा स्मरामि वीणावालाञ्चितामगां गुण्डक्री - रागः गुण्डकी रिघहीना स्यात् सत्रया च क्रियाङ्गका | -रागः ( वंशे वादनक्रमः ) तारस्थं स्थायिनं नीत्वा षर्ट्ज तस्माद्वितीयकम् । तृतीयं च वरं प्राप्य प्रहार्थ द्रुतमुचरेत् ॥ महात्पूर्व स्वरं पृष्ठा ग्रहन्यासं विधाय च । ईषद्विरम्य तत्पूर्व स्वरं पृष्टा तृतीयकम् ॥ लघू कुर्यात्ततः पूर्वी स्पृष्टा पश्चात् महात्परौ । स्वरौ प्रापय्य लघुतां द्वितीयं प्रोच्य च द्रुतम् ॥ स्थायिन्यासाद् गुण्डकृते: स्वस्थानं प्रथमं भवेत् । द्वितीयोऽस्त्रामपि स्थायिस्रो वंशेषु लक्ष्यते ॥ रागसागरः गुम्मकाम्भोजीरागध्यानम् अस्य कूर्मकाम्भोजीति नामान्तरं दृश्यते । मद वेमः गुम्मकाम्भोजी-मेलरागः ( मायामालवगौलमेलजन्यः ) (आ) सरिग पधस. . (अव) सनि ध प म गरिस. मज कूर्मासनां मन्मथवृक्षमूलनिवासिनी हंसमुखाग्रहस्ताम् । काषायचेलां स्फटिकाक्षमालां श्रीकूर्मकाम्भोजिमहंभजामि । रागसागरः गुरुः 'छन्दशास्त्रे लध्वोरुञ्चारणकालो गुरुः । तालशास्त्रे तु चञ्चत्पुट- चाचपुटाद्येककले एकैकपादो गुरुः । तस्यैककलयथाक्षरमिति नामान्तरमन्वर्थोऽस्ति || - देशीताल: सदद्वयं गुरोर्द्वन्द्वं गुरुताले गुरोर्मतम् oosoos श्रीकण्ठः