पृष्ठम्:भरतकोशः-१.pdf/२१९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गौडी गौडी – रागः - निषादबहुला गौडी सहिता सप्तभिस्वरैः । षड्जांशकग्रहन्यासा तारमन्द्रा च कथ्यते || सप्तस्वरा च गौडी निषादबललक्षिता सदा भवति । न्यासांशग्रहषड्जा तारा मन्द्रा च जायते सा तु ।। ग्रहांशन्यास षड्जा स्याडी मालवकैशिकात् । वीरशृङ्गारयोर्गेया सकम्पान्दोलितस्वरा ॥ --उपाङ्गरागः चैत्रतर्षभनिर्मुक्ता ग्रहांशन्यासषड्जका । हिन्दोलणासन्तोपाङ्गतां गता || गौडी समन्द्रा विज्ञेया प्रियसङ्गमभाषिणी । केचित्पञ्चममेतस्याः स्वरं स्वगमकं विदुः ॥ -- (द्वितीय: ) उपाङ्गराग: सांशन्यासमहा मन्द्रतारषड्जा निभूयसी । उपाङ्गं गीयते गौडी रसे वीरे तथा शुचौ । रागजा वर्णयन्त्यस्या जनीमलवकैशिकात् ।। -रागः गौडीहिन्दोलभाषा स्यात् निषादेन गरीयसी । न्यासांशग्रहषड्जा च षाडवा ऋषभोज्झिता। तारमन्द्रा रसे वोरे गायकैः परिंगीयते ॥ केरलभाषाव्याख्यायां गौडीस्थाने डोलीति फठितम् । षड्जशग्रहणन्यासा निषादबहुला बुधैः । गीयते तारमन्द्रा च गौडी रिषभवर्जिता || M — भाषाङ्गरागः या मतङ्गेन गदिता गौडी मालवकैशिके । तामिहाचष्ट भाषाङ्गं राजा रागरहस्य वित् । कश्चिदाचष्ट तामेवोपाङ्गमङ्ग मुपेयुषी त्रिषड्जां मन्द्रतारस्थषड्जां सप्तमभूयसीम् ॥ हिन्दोलरागाश्रयणाद्वसन्तोपाङ्गतां गताम् । केचिद्रमक संयुक्त पञ्चमा खामिहाभ्यधुः ॥ नान्यः कश्यपः नारायणः भट्टमाधवः मट्टयाधवः जगदेक: सोमराजः । रसे वीरे शुचौ काले प्रियसम्भाषणे तथा । शृङ्गारेऽस्या अपि प्राह विनियोग नराधिपः || भाषानिरूपणे चास्या आलापोऽपि प्रदर्शितः । पीतवस्त्रा स गौराझी गजेन्द्रचरवाहा || -रागः गौडोऽयं टक्करागस्य निन्यासांशमहान्वितः । विहीनः पञ्चमेनैव रसे वीरे नियुज्यते || गाडाराग ध्यानम् शुचिहरिचन्द नपरुहसहितं मान्मयें पुरस्कृत्य गौरतनुर्बहुविधिना गौडी परिपूजयत्येषा | मधूकवनवासिनी शुक्रसमूहमालापिनीं जपारुणसभांबरां युवतिपूजिताङ्घ्रियाम् । शार्ङ्गदेवादयः केचित्कांश्चिदेषु स्वबुद्धितः । षड्जग्रहांशकानूचुर्न तथा लक्ष्यवर्त्मनि ॥ गौण्डकृति. संगीतसरणिः मरालपतिवाहनां विधुसुधाप्रभाङी मुद्रा भजामि मधुपातिकां मनसि मे सदा गौडिकाम् || रागसागर. गौण्ड:- मेलरागः तीव्रगान्धारसंयुक्तारोहणे वर्जितो गनी | षड्जोद्ग्रहेण सम्पन्नो गौण्ड आम्रेडितस्वरैः ।। सदा गेयः । कुम्भः रसालनव्याकरकर्णपूरा कादम्बिनी श्यामलमजुदेहा। पीयूषनिष्यन्दिमृदुत्वनाढवा गोडी नियुक्ताधिककौतुकेन || श्रीकण्ठः हम्मीरः - गौण्डकृति :- क्रियाङ्गरागः ( वीणायां वादनक्रमः ) मध्यमं स्थायिनं कृत्वाधस्तात्तुर्य खरं व्रजेत् । तस्मात्स्वरां स्त्रीनारुह्य तृतीयं च पुनः स्पृशेत् || आचतुर्थस्वरं चाथ समेत्य ह्यवरोहतः । तस्मात्तृतीयमारोहकमात्प्राप्य प्रकम्पयेत् || अहोबिल: