पृष्ठम्:भरतकोशः-१.pdf/२२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाणिरिति हस्तषातरसमतालः । गीतनृत्तवाद्यैः आदिमध्याव सानेषु न्यूनाधिक्यवर्जित योज्यते चेद् प्रत्ययार्थे समग्रहः । कर्मसाधनार्थे नृत्तगीतवाद्यान्येव तालेन सह वर्तन्त इति । आदौ पाणिरतीतः स्याद्गीतादौ च प्रवर्तते । अतीत इत्यतिक्रान्तः । तालानन्तरं गीतादयो यत्र योज्यन्ते स तालोऽतीतग्रह: अनागतः प्राक्प्रवृत्तौ ग्रहस्सोपरिपाणिकः । उपरिपाणिक इति प्रथमं नृत्तगीतादि ततः पाणिस्तालः । गीतादे: प्रयोगप्रवर्तनमध्ये तालस्य संयोजनम् | कर्मसाधनपक्षे नृत्ताधारंभे तालस्याभावात् नृत्तादिरनागतग्रहः । सीतार्णवे विषमग्रहमन्यमुक्ता ग्रहस्य पञ्च भेदा उक्ताः । विषeve: कविततः किजिनागतः । एतन्मे अर्धभागायार्ध- प्रसवायेति न्यायमनुवर्तते । भट्टलोल्लाङ्कुप्रभृतयो विषमग्रह चतुर्थभेदमाहुः । यथा - आद्यन्तयोरनियमो विषमश्च प्रकीर्तितः । मात्राधिक्यं च तस्यैव केचित्कापि प्रचक्षते ॥ केचित्पीति रङ्गराजो भरतव्याख्याने । लोइटस्तु --~-- गीतस्याद्यन्तयोस्ताले न्यूनोऽन्यूनो भवेद्द्वयम् । समादिरधिकोऽन्त्यश्चान्त्ये न्यूनसमाधिकः || अधिकादिन्यूँनमिति न्यूनादिश्वरमाधिकः । इत्यादिवहुभेदातु कथिता विषमग्रहे । लया: कमात्समादौ स्युर्मव्यद्रुतविलम्बिताः ॥ अयं भावः यथा वार्तिकमार्गे मध्यो लयः । एकस्वाः कलायाः चतस्रः क्रियाः । चतुष्क्रियापर्यन्तं प्रवृतः कलाकाको गीतकालश्र्व समान एव । गीतकालस्तालकालमनु- सत्यैव प्रवर्तते । चित्रमार्गे द्रुतलय: चित्रमार्गकलाकालस्या- पत्वात्ताल: पश्चाद्वर्तते । तस्मात्तालो गीता धनुसरणार्थ द्रुतो भवति । एवं चित्रे इतलयेऽतीतग्रहः स्यात् । दक्षिणेतु विल- म्बित: | अमेका कला । तालो गीतकालमतिक्रम्य वर्तते । गीतस्य पश्चाद्भावेन तालस्य विलम्बत्वाद्विलम्बितः । सच्युतः MADE गौतमुद्ग्राहाते येन स स्वरो ग्रह उच्यते कुम्भः १८८ येनादौ गीयते गीत स्वरेण स भवेद् ग्रहः --रागे उपयुज्यमानः ग्रहस्तु स्वर इत्युक्तो यो गीतादौ समर्पितः । जात्यादिप्रयोगो गृह्यते येनासौ स ग्रहः । गृह्यते प्रयोगश्चानेनेति ग्रहः तत्र ग्रहस्तु गीतादिस्वरः । आदिवर: प्रथमालापस्वरः । भरतस्तु - यत्प्रवृत्तो भवेद्यः सोऽशो ग्रहविकल्पकः । --जातिलक्षणम् अंशवग्रहः । किन्तु न त्रिषष्टिमेदभिन्नः | अष्टादशजातिषु अंशास्त्रिषष्टिरित्युच्यते । ननु ग्रहांशयोः को मेदः । उच्यते । अंशो वाद्येव । ग्रहस्तु बाद्यादिभेदमिन्नः । यद्वा ग्रहो ह्यप्रधान- भूतः । अंशो रागजनकत्वाद्रयापकत्वाच प्रधान एव । अपि च संवाद्यनुवादिविधिना च ग्रहांझयोर्भेदः । ग्रहसमहू ग्रहणम् – दन्तः • तृणादेर्धारणाहन्तैर्ग्रहण परिकीर्तितम् । लेहनं जियालेह तल्लल्याभिनये मतम् इत्याह ग्रहणस्थाने भरतो मुनिसत्तमः || तृणादेर्धारण दन्तैरङ्गल्यादे.. ग्रहसमम्—वीणावंशावनद्धानामेककाणम ततावन द्रवंशानामेक श्रुतिः कृतो यदा । ग्रहो गानेन संहितस्तत्तु ग्रहसमं भवेत् || कृष्णदासः समग्रहादिना हस्तव्यापारस्योपयोगतः । स्वरहेण वाद्यस्य साम्य ग्रहसमं भवेत् || सतङ्गः कासु च जातिषु नन्दयन्त्यादिषु ग्रहांशयोर्विवादित्वेन ग्रहत्या- प्रधानत्वं संभवति । नान्यः मतवमतम् अशोकः कुम्भः भवतः