पृष्ठम्:भरतकोशः-१.pdf/२२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यत्र स्वराणां संवादो मूर्छादेव आश्रयः । स ग्राम उच्यते तद्ज्ञैः स च त्रेधा विभज्यते || षड्जसध्यमगान्धारैः प्रधानैर्व्यपदेशनात् । प्रधानं षड्ज आद्यत्वात् संवाद्याधिक्यतस्तथा । मध्यमस्याविनाशित्वादमात्याधिक्यतोऽप्यसौ । षड्जमध्यमवंश्यत्वाद्वान्धारोऽपि प्रधानता || व्यवस्थित श्रुतियुता यत्र संवादिनः स्वराः । मूछेनाद्याश्रयो नाम स ग्राम इति संज्ञितः ।! पण्डितमण्डली षड्जमध्यमगान्धारास्त्रयो प्रामाः प्रकीर्तिताः । भूलोकाज्जायते षड्जो भुवर्लोकाञ्च मध्यमः । स्वर्गान्नान्यत्र गान्धारी नारदस्य मतं यथा ॥ नारदः समूहवाचिनौ ग्रामौ स्वरश्रुत्यादिसंयुतौ । यथा कुटुम्बिनः सर्वे एकीभूत्वा वसन्ति हि || सर्वलोकेषु स ग्रामो यत्र नित्यं व्यवस्थितः । षड्जमध्यमसंज्ञौ तु हौ ग्रामौ विश्रुतौ किल । गान्धारं नारदो व्रते स तु मर्यैर्न गीयते ॥ ग्रामप्रयोजनं च यथा - स्वर श्रुतिमूनातानजातिरागाणां व्यवस्थापनत्वं नाम प्रयो- जनम् । ननु कथं षड्जमध्यमस्वराभ्यां ग्रामव्यपदेशः । उच्यते- असाधारणत्वेन ताभ्यां ग्रामव्यपदेशः । असाधारणत्वं च देवकुलसमुत्पन्नत्वेन । ननु कथं द्वावेव ग्रामौ | उच्यते- इह हि द्विश्वरप्रयोगमूलप्रयोगवशात् द्वौ ग्रामावुपन्यस्तौ । जातिभिः श्रुतिभिञ्चैव स्वरा प्रामत्वमागताः । अथ स्वरसमूहात्मप्रामलक्षणमुच्यते । • ग्रामवग्राम इत्येवमुपचारो विवक्षितः ॥ • केवलस्वरवृन्दस्य ग्रामत्वे कथिते सति । गामानयेत्यादिवाक्येष्वतिव्याप्तिर्भवेदतः ॥ मूनाशुद्धकूटाख्यतानाद्याश्रय इसपि । देयं खरसमूहस्य विशेषणमिति स्थितिः ।। - मतङ्गः एतेषां श्रुत्युत्कर्षात् प्राधान्यपुरुषवत् । त्रयम्यैव स्वरगणितस्य उर्मुनयो ग्रामत्वसंज्ञां वदन्ति । द्वौ ग्रामौ भरतेनोको ग्रामौ गान्धारपूर्वकः । अतितारातिमन्द्रत्वात्वर्यान्नोपदर्शितः ।। अभिनवगुप्तः ♡ षड्जप्रामः पञ्चमे स्वचतुर्थ श्रुतिसंस्थिते । खोपान्त्यश्रुति संस्थेऽस्मिन्मध्यसमा इष्यते || रिमयोः श्रुतिमेकैकां गान्धारश्चेत्समाश्रितः । पः श्रुतिं धो निषादस्तु व श्रुतिं स श्रुतिः ॥ गान्धारग्राममाचष्टे तदा तं नारदो मुनिः ! अस्माभिर्मध्यमग्रामोऽप्यसरप्राय इतीयते ।। तथा हि मध्यमग्रामे त्रिश्रुतिः पञ्चमः खलु । वरालीमध्यमो जातः स पुनर्लक्ष्यमार्गतः || मध्यमादिप्रभृतिषु मध्यमग्रामजन्मलु | रागेषु दृश्यते नैव वरालीमध्यमस्ततः । अयुक्तो मध्यमग्रामो लक्ष्यमार्गविरोधतः । वेइटमखी अस्य मतं हनुमन्मतमेव | स्वराणां भरतोक्तश्रुतिसंख्यायाः नियमो न भवतीति । तन्निमस्तु जाति श्यते । आ- ब्जनेयस्तु एकादिषट् पर्यन्त श्रुतित्वमेवाह | तस्य मते ग्रामवि भागो नास्ति यतः संवादित्वस्यैवानुपलंभात् । देशीवगेषु स्वराणां श्रुतिसंख्यानियमो नास्ति । बेङ्कटमखिनः वरालीमध्यम- सप्तम श्रुतित्वं विद्यते । तेनैव स्थलान्तरे गान्धारामस्य सत्येंदो- कप्रयुक्तत्वमुपपादितम् । वीणायां द्वादशस्वरस्थापनेन श्रुतीनां मेलनेन ग्रामविभागो न स्पष्टो भवति । एकतन्त्रीकिन्नर्यादिषु पूर्णत्वेन मत्तकोकिला खरमण्डलयोश्च श्रुतीनां वैशयं भवति ग्रामयोश्चेदं प्राचीनमतम् । षड्जयामे सरिगमपध निस्वराणां कमात् ४.३. २, ४, ४, ३, २ इति श्रुतिभागो भवति । अन सरिगलराणां खयाणां पधनिखराः संवादिनः । संवादित्वेनैव ग्रामत्वं सिध्यति । तथैव मध्यमग्रामे मपधनिसरिगाणां ४, ३, ४, २. ४. ३, २, इति श्रुतिसंख्या प्रयुज्यते । तब मपयो: सरिस्वरयोः संवादित्व- मस्ति । तम्मान्मध्यमस्वरेणारम्भात मध्यमग्रामः | 4 गान्धारग्रामे तु गमपधनिसरिस्वराः क्रमात् ४, ३, ४, ३, ४, ३, २ भवति । अल गान्धारनिषादावतितारस्वरत्वासं- वादिनावपि पडूजमध्यमौ संवादिनावपि अतिमन्द्रत्वात् गा- न्धारग्रामो भरतेन न गृहीतः - इति अधुनातनपरिष्कारः। यव सभ्यः स्वरप्रामं हेलगा गायति स्फुटम् । स ग्राम श्रुति विज्ञेयः तस्य मेदास्त्रयस्स्मृताः ||