पृष्ठम्:भरतकोशः-१.pdf/२२४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रामनिर्णयः नन्द्यावतऽथ जीमूतः सुभद्रस्तु तृतीयकः । तेषां तु लक्षणं स्पष्टं कथयिष्ये पृथक् पृथक् ॥ षड्जर्षभगान्धारास्त्रयाणां जन्महेतवः | नन्द्यावर्ती भवेत् षड्जाज्जीमूतवार्षभात्तथा ॥ गान्धाराश्च सुभद्राख्यो विज्ञातव्यास्त्रयः क्रमात् । षड्जसादौ समुच्चार्य ततो धैवतपञ्चमौ ॥ वृद्धयर्थं योजयेत्तत्र निषादेन शसं नयेत् । नन्द्यावर्तो भवेदेवं ग्रामो गीतविदां प्रियः || चतुस्वर समायोगादेकमात्रस्वरेण च । यत्रादावृषभस्थानं मध्यात्ताभ्यां विवर्द्धितम् || अशान्तिं पञ्चमेनापि जीमूतोऽयं प्रकीर्तितः । गान्धारमादितः कृत्वा वृद्धि नेयं ततः परम् || ऋषभेनाथ षड्जेन धैवतेन शमं नयेत् । सुभद्रोऽयं भवेद्रामो देवानामपि बहुभः || वादिमत्तगजाइशे नन्यावर्तस्तु जीमूतः सुभद्र इति च क्रमात् । नीन् प्रामान्केचन प्रोचुः लक्षयन्ति तु तद्यथा || स्वरं षड्जं समुच्चार्य गेयादैवतपश्चभौ । ताभ्यां षड्जे वर्जयित्वा निषादे विरतिं श्रयेत् ।। यदा तदा भवेद्रामो नन्द्यावर्ताभिधः किल । एकमात्रेण षड्जेन सहादावृषभः ॥ पोषो निषादमध्याभ्यां पञ्चमेन शमो भवेत् । यत्रासौ, कीर्तितस्तज्ज्ञैः प्रामो जीमूतसंज्ञकः || गान्धारेण ग्रहः पोषः षड्जर्षभकृतो भवेत् । न्यासश्च धैवतेनायं सुभद्रो ग्राम इष्यते ॥ क्रमेण सरिगास्त्वेषां त्रयाणां जन्मकारणम् । आमाणामीदृशं लक्ष्म प्रायो न बहुसम्मतम् । रागलक्ष्मण्यसंस्पर्शात् न चास्माकमिहादरः || पण्डितमण्डली ग्रामनिर्णयः त्रिषु ग्रामेषु गान्धारग्रामः स्वर्गे प्रकीर्तितः । महीतले तु द्वौ ग्रामौ स्यात् षड्जग्राम आदिमः ॥ द्वितीयों मध्यमग्रामो नत्वेतल्लक्ष्म लक्षितम् । लक्ष्ये तु दृश्यते कापीत्यस्यासत्प्रायता गता || अतोऽव मध्यमग्रामजन्यरागेषु पदमः । सोपान्य श्रुति संस्थरसन्नैष लक्ष्येषु दृश्यते ॥ & ततः स्युरखिला रागाः षड्जग्रामसमुद्भवाः । तदुक्तं वयकारेण स्वरमेलकलानिधौ । देशीरागाश्च सकला: षड्जग्रामसमुद्भवाः । ग्रहांशतारमन्द्रादिषाडवौडवपूर्णताः || देशीवात्सर्वरागेषु भवन्ति न भवन्ति च । प्रकाशयत्येवमेव चतुर्दण्डीप्रकाशिका || ग्रामेष्वेतेषु गान्धारप्रामो नास्ति महीतले । स्वर्गलोके परमिति सर्वेषामेव सम्मतम् || अस्माभिर्मध्यममामोऽप्यसत्प्राय इतीर्यंते । तथाहि मध्यमग्रामे त्रिश्रुतिः पञ्चमः खलु ॥ बरालीमध्यसो जातः स पुनर्लक्ष्यमार्गतः मध्यमादिप्रभृतिषु मध्यमग्रामजन्मसु || रागेषु दृश्यते नैव वरालीमध्यमस्ततः । अयुक्तो सध्यमप्रामो लक्ष्यमार्ग विरोधतः ।! एक एव ततः षड्जमाम इत्यवधार्यताम् । तदुक्त विठलीयेऽपि मामैकत्वसमर्थनम् || षड्जाम: पञ्चमे तु सप्तदश्यां श्रुतौ स्थिते । स्वरेऽस्मिन् पञ्चमे किन्तु षोडशीं श्रुतिमाश्रिते || तथैव मध्यमग्रामः सोऽत्र रागो न दृश्यते । षड्जमामाश्रितान् रागान् सर्वे गायन्ति गायकाः । तस्मान्मुख्यतमः षड्जग्राम एव न मध्यमः ॥ ग्रामरागः तत्र ग्रामसमुद्भूतः पश्चगीतिसमाश्रयात् । शुद्धादिभेदसंभिन्नो प्रामराग इतीरितः ।। ग्रीष्मावली ग्रीवा सुन्दरी च तिरवीना तथा च परिवर्तिनी । प्रकम्पिता तु भावग्रीवा ज्ञेया चतुर्विधा ।। ग्रीवा नवविधा तत्र समा व्यश्रा नतोन्नता । अतिकुचिता चैव निवृत्ता वलिता तथा । रेचिता चेति तासां तु क्रमाल्लक्षणमुच्यते ॥ यत्किञ्चिदस्ति तत्कर्म तदस्यामखिलं स्वयम् । ग्रीष्मावली--मेलरागः (चक्रवाकमेलजन्यः ) (आ) सरिगमपस. (अव) सनिधम गरि स.. तुलजः नन्दी बेमः ज्यायनः मज