पृष्ठम्:भरतकोशः-१.pdf/२४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चत्रकुण्डली हंसस्यहंसपक्षौ च सन्दंशशिखरौ तदा । अलिकस्थले च नेत्रे च सूचिहस्तेन कर्तरीम् ॥ स्वस्तिकं कटकाव वैष्णवं च तथाक्रमम् । उचित क्षेत्र भेदेषु तत्तत्काले प्रयोजयेत् || कर्तरी स्वस्तिकं नागबन्धं तिलकमेव च । वरदाभयसंज्ञं च पताकस्वस्तिकं तथा ॥ अन्यदन्यत्करद्वन्द्वमसंयुतक नामकम् । तत्तत्याज्य ग्राह्यकरक्रियाभिस्तनुभिः स्फुटम् ॥ प्रायोगिकान् नृत्तहस्तान्क्रमशः क्रमशश्चरेत् | गत्या सर्वाङ्गोभिन्या स्थित्वा स्थित्वा मुहुर्मुहुः ॥ चतुर्दिक्षु तु विक्षेपविवृत्तसमये तदा । लीलाविलास शृङ्गाररसपूर्णविघूर्णनैः ॥ तत्तच्छास्त्रप्रकारेण पाणिं प्रकटयेत्परम् । लम्बमध्यद्रुतैर्मानैर्बलनैः कोमलैरपि ॥ एवं विधैर्गुम्भनस्तु नृत्यन्ती नर्तकी ततः । मौलिरेचितकं चाथ मणिबन्धगतागतम् || निर्वय सा ताललयैः सञ्चैश्चैव महाक्रमैः । पञ्चादाचार्यविधिवत्पञ्चषैरेव गुम्भलैः ॥ अवसाने समुत्प्लुत्य मुखचालं प्रकल्पयेत् । वैचित्र्यगुम्फनामेनामादि मध्यावसानगाम् || समारोहावरोहेषु रागालापेषु योज्य च । वंशगानं तथोपाङ्गगानं सा शृण्वती मुहुः ॥ समोन्नता नतैरङ्गैर्गायन्तीव समाश्रयेत् । मुग्धप्रबोधाय चैनामित्यूचुर्भरतादयः ॥ आर्जव करणं तालाने पश्चात्यायः । ध्रुवाटाख्यः पादमणिः करयोर्वर्तनास्ततः ॥ चालकाश्चेति नवधा रूपांस्तु परिनर्तयेत् | मुखचाल्यां स्थानकानि चारीश्च विविधान्करान् || अन्यदन्यत्समुद्धत्य समदृष्टिविलोकनैः । निचलचित्रमार्ग स्थित्वा स्थित्वा मुहुर्मुहुः || ताले नृत्तपरावृत्तिसदृशं परिवर्त्य च। विलम्बैरङ्गविक्षेपैः भावैराजवमाचरेत् ॥ अन्तराक्षिप्तकाक्षितगात्रावर्ताहिः करम् । पादचङ्क्रमणेनात्तचालकं चान्तिमे प्लुतम् ॥ रागालतिसमायुक्तं नर्तनं वर्धयेत्सुधीः । एकस्थितौ चतुर्भिर्वा पञ्चभिः परिवृत्तिभिः ॥ विभज्य भागद्वितयं प्रत्येक भ्रामयेत्करान् । आर्जवमोक्तनियमस्थानकेषु करेषु च ॥ २१० चित्रकुण्डली प्रयोगवशगैहस्तैः स्थानः स्थानैर्यथोचितम् । मध्ये मध्ये भ्रमर्यापि परावृत्तिप्रसारिभिः || तत्क्षणे तत्क्षणे चित्रमार्ग स्थित्वा मुहुर्मुहुः । पार्श्वावलोकनैर्नृत्येदादिमध्यावसानकम् || तूर्ण कूर्मवदङ्गानि संवा भ्रमेत् । पुरोगामुखपूर्वाङ्गप्रत्याञ्जलिकच्छकम् || पश्चात्प्रसारितं पाई तदा गात्रं विवर्त्य च । पात्प्रकृतिवक्षस्थहस्तमुत्तानपूर्वकम् ॥ पुरः प्रसारितपदं तदा परिवर्त्य च । कर्कट भ्रमणं कुर्यातकर्कटप्रसृतेन च ॥ कुचितोपदाङ्गेन नतोन्नतयुतेन च । अधस्तलत्वमुत्तानतलत्वं त्रिपताककम् || द्विः कुर्यादथ पार्श्वेऽन्ये विवृत्तोरुकटीतटम् । प्रसार्य पादं गृह्णीयादर्धरेचितकं करम् ॥ वैविक्रम रेचित स्यापार्श्वऽधो वदने सति । पादः स्वस्तिकमास्थाय मध्यस्व परिवर्तनात् ॥ कर्तरी स्वस्तिकं कुर्याद्भुते मूर्ध्नि प्रयोगतः । गारुडे मध्यवळनाद्वैष्णचे करमुन्नयेत् || दिशानया बहुविधाद्भिद्यात्करणरूपकम् । स्थित्वा स्थित्वा चित्रकरेऽप्यसकृद्गुम्भनानि च ॥ तदा तड़ा तालमाचलयसाम्यवशान्नयेत् । येन केनापि तालेन तालमान प्रकल्पयेत् || गत्वा शृङ्खलगत्यैव मण्डलस्थानमानतः । मुहुर्मुहुः स्फुरद्विद्यदल्लीमिव घनान्तरात् ॥ चामदक्षिणभागाभ्यां गुम्फनानि विभज्य च । तदा चिह्नतमे मार्गे भ्रमयेतत्क्रियादिकम् ।। विविधैर्भ्रमरीभेदैरश्चिताद्युत्प्लुतिक्रमैः । पुरुषस्थानकैः षड्भिरासनस्थानकैरपि । देशीस्थानैरपि मुहुः क्रमादक्रमतोऽपि वा। प्रणयं च कलासेषु परावृत्तिं प्रकल्पयेत् ॥ ध्रुवाटः स इति ख्यातः शास्त्रज्ञैः कोहलादिभिः । उकुत्य गत्या स्थित्या च भ्रमरीमिः पदे पदे । अङ्गुलीष्ठभागेन सविलास सविभ्रमम् । ऊरुतपूर्व च कुर्यात्पादमणिक्रमम् ॥ सूचीलये संहते सा दादुरे गारुडे तथा । नागबन्धस्वस्तिकयोरालीडे चोत्कटासने ||