पृष्ठम्:भरतकोशः-१.pdf/२४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिलकुण्डली स्थित्वा स्थित्वा चतुर्दिक्षु विवर्तसमये कमात् । नागबन्धं च तिलकं वैष्णवं वरदाभयम् || चतुरश्रं च ललितं रेचितं चाधेरेचितम् । ऊर्ध्वमण्डलसंज्ञं च स्वस्तिकं करिहस्तकम् || पताकस्वस्तिकं बल्लीं दण्डपक्ष हस्तौ प्रयोगवशगौ विवृत्याथ करौ पुनः || उत्तारितावृत्तलस्थावाविद्धावपविद्धकौ । कृत्वा कटकवामस्थदक्षिणेन करेण च ॥ अवलम्नविवृत्या च परिवाहितकर्मणा । शिरसा नतमात्रेण व्यावृत्य च मुहुर्मुहुः || बहिरन्तरतथाङ्गान्तरेण पश्चात्करौ पुनः । संयोज्याभ्यन्तरं बाह्य भ्रान्त्वा मण्डलकर्मसु || मध्यावर्त चम्पकस्रग्दामावर्तमिवाचरेत् । यत्र तं नवणि प्राहुराचार्याः कोहलादयः ॥ कृत्वा पुरः पार्श्वतोऽन्तर्बहिर्मंकरवर्तनाम् । गत्या स्थित्या परावृत्योद्धुत्यादि भ्रमरैस्सह ॥ पद्मवर्तनिकां कुर्यात् यथारूचिरता ततः । अन्याभिर्वर्तनामिस्तु वर्तनारूपकं भवेत् ॥ मणिबन्धावधिभ्राम्यत्पद्मकोशप्रकाशितैः । बाणासुरकरस्तोमै निर्गतैरिव चालकैः ॥ विशिष्टवर्तितश्च नवरत्नमुखान्तिमैः । उत्प्लत्याङ्क्रिमणीवृत्या स्थित्वा गत्यानुगुण्यतः || उत्तानेन परावृत्ता तथा तरहरेण च । वृश्चिके नाथोमुखेन त्रिविक्रमविधौ तथा ।। खण्डसूचिकनाम्ना च मण्डलेन यथारुचि । यत्करोति तदादिष्ट तज्जैइचालकरूपकम् || इति नवरूपकनृत्तानि । प्रत्येकं नवरूपाणां कलासावसरेष्वपि । कृत्वा भ्रमरिकां पञ्चात्तत्तद्रूपैः कलासयेत् ॥ संहते चरणं चैव तत्क्षणे । वक्षस्थ कटकं कृत्वा भ्रमन्ती हंसपक्षको || लठन्त्यन्तर्बहिर्जङ्घावपुषा सरलीकृता । अपराङ्गपरावृत्या पार्श्वतो मुखकर्मणा । पुरः पराङ्मुखत्वेन ह्यसानेन च वक्षसा कुर्यात्पर्यायतः पादलुठनं गतिभिः क्रमात् || २११ कृत्वा कृत्वा खण्डसूचिस्थानकं च मुहुर्मुहुः । मध्ये मध्ये चमः भ्रमरीभिशारुचि ।। स्थानके नृत्तहस्तैश्च कुर्यादन्वर्थरूपकम् | देशान्तरेषु बहुधा रूपकाणि भवन्त्यपि || मुग्धप्रबोधाय मयाद्यतावत्परिकीर्तितम् । रूपकानन्तरं कुर्यात्सकलातोग्रवादनम् || नवान्त्यबद्धं नवभिस्तार्यल प्रणयेते । तमेव शब्दचूडादिं कथयन्ति मनीषिणः ॥ आदौ ध्रुवस्ततो मठथः प्रतिमण्ठं च रूपकम् । झंपा च त्रिपुटाप्यतालो रस्यैकतालिका || इति ताला नव प्रोक्तास्तेषां लक्षणमुच्यते । विराम लघुना रम्या होकताले द्रुतं स्मृतम् || ततो बाद्यप्रबन्धानां लक्षणं कथ्यतेऽधुना । प्रत्येकं तच्चतुर्भागमुग्राहः प्रथमं स्मृतम् ॥ मेलापको द्वितीयः स्यात्तृतीयो ध्रुव इत्यपि । चतुर्थभागश्चाभोगोध्रुवोगान्तरे पुनः ॥ अवखण्डोऽन्तरः प्रोक्तः तेषां देश्यभिधान्यथा | उद्ग्राहभागो लहरी मेलाप: पद्मीरितम् || ध्रत्रभागोऽन्तरः ख्यातः सोऽन्तरः स्यादवान्तरः । आभोगभागो मुक्तायी इति देशान्तरेरित || स्कन्थावजेन ह्यद्राहो मेलापो मईलेन च भुजस्कन्धावजेनाथ भुजेन च विमिश्रितः || अन्तरः करटीशङ्ककाहलम्ब निसंयुतः । आभोगो मद्दलोपेतो नृत्तमेषामथोच्यते || उग्राहश्च द्विवारं स्यान्मेलापस्त्वेकवारकम् । ध्रुवभागे समाख्यातं द्विवारं नर्तनक्रमम् || अन्तरे नर्तयेदर्ध एकाशेषाधक परा। आभोगस्त्वेकवारं स्यादन्त्ये शब्दस्तथापरे | नर्तने शब्दसूडादौ गीतसूडादिरुच्यते । पूर्वोत नवच संयुतः ॥ चित्रकुण्डली गीतं सूडादिमाचख्युस्तमेव भरतादयः । नामभिनेवतालानां गीतानि कथितानि च ॥ तत्तिधा गीतसुड़ादिरुत्तमो मध्यमोऽधमः | गीतान्यप्युत्तमादीनां नव सप्तकपञ्चभिः ।।