पृष्ठम्:भरतकोशः-१.pdf/२४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकुण्डली नव गीतानि यत्नाभिः नवतालैर नुक्रमात् । कथ्यते स भवेत्पूर्व सूडादि सध्यमं विदुः ॥ एतेषु सप्तगीतेषु झम्पां च त्रिपुटामृते । पराणि पचगीतानि सूडादिरधमः स्मृता || मट्ठादीनां च गीतानां यथावन्नृत्तमाचरेत् । उद्ब्राह्ध्रुवकाभोगाः प्रत्येकं च मुहुर्मुहुः ॥ ध्रुवे कलासः कर्तव्यो वैचित्रींनृत्तमुच्यते । मण्डलस्थानके स्थित्वा विलासरसमन्थरम् || सहस्तदृष्टिविक्षेपचातुर्य नृत्तमाचरेत् । एकं समं निधायाधि निकुञ्योत्सारणात्परम् || असलीलमावर्त्य नर्तकी नर्तयेन्मुहुः । क्रियाभिराजवैस्तत्तद्वाणीभिचालकैरपि ।। ध्रुवाटैर्वर्तनाभिश्च ततस्तरहरैरपि । सविलासमनायास सरसं भावपोषकम् || अन्यूनाधिकयोगेन प्रत्येकं नृत्तमानयेत् । गेयमप्यक्षरं ताल सन्धाय च पुनः पुनः ॥ मध्ये मध्येsपि गेयस्य शीघ्रगुम्भनमाचरेत् । पावे पादमणि हस्ते चालकं मुहुराश्रयेत् || वर्तनां वर्तयेत्पाणौ पादं तरहरं तथा । चरणौ नर्तयेत्पादमणि हस्तस्तु वर्तनाम् || चालकं पाणिना कुर्यात्पदा तरहरं ततः । वाक्यानि गीतखण्डं च शब्दखण्डमनन्तरम् || स्वरमर्थ स्वरस्यापि कणरे (१) नर्तनं ततः । लयचालकपादं च सन्धायालक्ष्यसन्धिकम् || अस्माक्रमतो यहा नृत्येत्प्रगल्भतः । ततः षण्मार्गभेदेन व्यात्वा मालां प्रणर्तयेत् ॥ पाद चित्रतरेणापि मुर्ख चित्रतमेन च । अतिचित्रतमेनापि हस्तं युगपदाचरेत् ।। आनुकूल्येन बहुशः कालक्षेपणहेतवे । स्वयंवरादियुक्तासु नाटकीयकथासु यत् || कन्दुकाकुबेराक्षिमणिसम्पुटका अपि । अभिनेतव्यतां यातेष्वेषु गीतेषु तां नयेत् ॥ स्थित्या भ्रमर्या गया च नयेत्कन्दुकनर्तनम् । मठ्ठे पञ्चसु भेदेषु विलम्बो मध्यमो लयः ॥ २१२ । } चित्रकुण्डली नागबन्धासने स्थित्वा नर्तक्या वाभिमुख्यतः । विलम्बितेनाडुतालनाम्ना गीतेन संयुते || गृह्णीयाच कुबेराक्षौ तौ विक्षिप्य सविभ्रमम् । मृगशीर्षण सारीस्तु कर्तरीमुखपाणिना || उत्क्षिप्य देहावर्तेन स्थापयेतां परस्परम् | नर्तयेतां कुबेराक्षि पूर्वोक्त र्नवर्गातकैः ॥ त्रिपुटागीतमाश्रित्य गत्या स्थित्या सहोन्मुखम् । किञ्चिञ्चञ्चलनेत्राभ्यां युक्ता संपुटकां नयेत् ।। कथासु नाटकीयासु प्रसक्तेष्वायुधादिषु । आनुकूल्यात्प्रयोगाणां नवर्गीतैश्च नर्तयेत् ।। अड्डतालकतालाभ्यां गीतैरन्यैश्च वा पुनः । पादपाटादिभिर्भेदै: पेरणीनृत्तमाचरेत् || नृत्तेद्वसन्तगीतेन वसन्तनटनोत्सुकम् । इक्षुचापः पुष्पशर काम श्यामलविग्रहः || वामपार्थोपगतया रत्या पर्यङ्किका तले । वैष्णवस्थानके स्थित्वा सम्यगाविर्भवेत्ततः ॥ वसन्तरागप्रभवः अङ्गमावर्त्य तेनकैः । समुद्यत्तकलीदाललालको मलनिर्भरः ॥ अवरुह्य कलासेन सद्यः पर्यङ्किकातलात् । उद्भावोद्धारशब्देन नृत्येतामाभिमुख्यतः ॥ पञ्चभिरतूर्ण पुष्पैः कन्दुकदण्डकैः । अङ्गैर्मनोहरं नृत्तलीलाभावरसान्वितम् || समाचरेतां पात्रे तु स्थित्वा द्वे द्वे समे परे । करो निधाय कर्पूर चूर्ण पन्नगशीर्षके ॥ व्यावृत्यादाय चिक्षिष्य शिखरेण कलासयेत् । पताकया शृङ्गपुष्पे निवेश्य दक्षवामयोः || णेनार्धचन्द्रेण समालम्ब्य स्रुगञ्चलम् । वामः करो विधातव्यो लताख्यो माल्यनर्तने ॥ पुष्पकन्दुकमादाय दक्षिणे पद्मकोशके बामो मृगशिरः कार्यः पुष्पकन्दुकनर्तने ॥ अङ्गुष्ठसदृशस्थौल्यं विंशयङ्गुलमात्रकम् । सरलं ग्रन्थिरहितं वर्णपश्र्वभूषितम् ॥ हेमपट्टनिबद्धामं हेमं दण्डद्वयं परम् । द्वाभ्यां करसरोजाभ्यां दधानासावधानतः || प्रारभ्य पात्रयुगलात्पात्रे द्वे द्वे विवर्धयेत् । भवेयुरष्टयुग्मानि यावद्यद्वा यथारुचि ॥