पृष्ठम्:भरतकोशः-१.pdf/२५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातिः अस्मिन् विषये जैनमतचूडामणिमततालकलाविलासादिम- तानाम सामञ्जस्यै अच्युतरायानुक्तं खण्डितं च यद्यपेक्षा तत्र पश्यन्तु विपश्चितः । ग्रन्थकत अनुगतबुद्धेः कारणं धर्मो जातिः। अयं मनुष्यः मनुष्येष्वयं विप्रः । तथैवार्य तालः चतुरश्र इत्यादिबुद्धिः । चतुरश्रस्तथा व्यश्र इति ताये द्विधा मतः । चचत्पुटचाचपुट इति नाम तयोः कमात् || युग्मस्य ये त्रयो भेदाः षड्युम्मस्य प्रकीर्तिताः । तेषामन्योन्यसंसर्गात्सङ्कीर्णा बहवो मताः || २२७ । अयं भावः - युग्मस्य चचत्पुट चाचपुटयो: लयो भेदाः, एक- कल., द्विकल, चतुष्कल इति । चञ्चत्पुटचतुष्कलस्य षोडश गुरब: । द्विगुणवर्धमाने चतुष्कले द्वात्रिंशत् | तस्य द्विगुणि तस्य पुनश्चतुष्षष्टिः पुनर्द्विगुणित चतुष्कलोऽष्टाविंशत्युत्तरशतगुरु- को भवति । अयं द्विगुणक्रमः । तथैव लघुश्चेदष्ट लघव: एक- कलः । अष्टौ गुरवो द्विकलः । षोडशगुरवश्चतुष्कलः इति लयो भेदाः । आहत्य नव भेदाः । तथैव चाचपुटोऽपि नवभेदः स्यात् । तयोरन्योन्य संबन्धात् बहवः सङ्कीर्णा जायन्ते । सङ्कीर्ण- जातेः पञ्च सप्त नव दौकादश द्वादश वा कलाः । यथा - चतुरश्रत्र्यश्रयोरर्धमिश्रणात् पञ्चगुरुः सङ्कीर्णः प्रभवति । चतुरश्रव्यश्रचतुरश्रार्थमिश्रणात् नवगुरु: सङ्कीर्ण: | सप्तकन सह त्र्यश्रमिश्रणाद् दशगुरुस्स: । एवमन्यत्र | ि चतुर्दशपञ्चदश षोडशसप्तदशगुरुका इति चतुर्था सङ्कीर्णताल माहुः । षपितापुत्रकादितालानां समुद्भूतं सङ्कीर्णत्वं न नाट्ये प्रयोज्यमिति केचिदाहुः । तन्मते सङ्कीर्णजातिगन्धर्व एव प्रयुक्ता | ननु चतुरश्रव्यश्रखण्डकर्णमिश्रा इति जातयः पच वर्तन्ते । न, मिश्रस्तु न जाति: । तालजातिश्चतुर्धा स्यान्मिस्तु न पृथग्भवेत् । इति शार्ङ्गदेवः । तत्र ते पञ्चाशन्यायेन चतुरस्य संग्रहे | ज्यश्रोऽपि संगृहीतस्स्यात्ततोऽपि सम उच्यते । तदेतन्मत- मध्यसत् । मिश्रादिशब्द सामर्थ्यान्मिश्रः सङ्कीर्णखण्डयोः । अन्तर्भावे तयोस्तस्मात्पृथक्त्वं नोपपद्यते || चूडामणिकारस्तु - चतुरश्रादिशब्दानां योगरूढया प्रवर्तनात् । चतुरश्रादिजातीनां न परस्परसङ्करः ।। इति । जातिभ्रष्टाचं ये तालाः मालातालाः प्रकीर्तिताः । अव्यक्तसंहिताः पञ्चजातयः पूर्वचोदिताः । एकादशादिभेदेन मालातालाः प्रकीर्तिताः || अयं भावः - अव्यक्तसंहिता इति । पूर्वोक्तनियमेन विना एकैकेनानुद्रतेन सहवर्तते चेन्मालाजाति: । अच्युतरायः जातिः इदानीं सर्वपूर्वोक्तवाद्यवस्तु प्रजीवनात् । जायमाना जातीरष्टादश ब्रमस्सलक्षणाः । यदा ह्यष्टादशविधाः प्रोक्ता गीतिषु जातयः | वाद्येष्वपि च विज्ञेयाः तथाष्टादश जातयः || रसभावप्रकृत्यादिविशेषप्रतिपत्तयः । जायन्ते जातिभिव्यंक्ताः ताः प्राइ भरतो यथा ॥ नान्यः तब कैयं जातिर्नाम | उच्यते - स्वरा एव विशिष्टाः सन्निवेश- भाजो रक्तिमदृष्टाभ्युदयं च जनयन्तो जातिरित्युक्ताः कोऽसौ सन्निवेश इति चेजातिलक्षणेन दशकेन भवति सन्निवेशः । अभिनवगुप्त: श्रुतिमहत्वरादिसमूहाजायन्ते जातयः । अतो जातय इत्यु च्यन्ते । यस्माजायते रसप्रतीतिरारभ्यत इति जातयः । अथवा सकलस्य रागादे: जन्महेतुत्वाजातय इति । यद्वा जातय इव जातयः । यथा नराणां ब्राह्मणत्वादयो जातयः । शुद्धाश्च विकृताश्चैवमत्रापि जातिलक्षणम् । जातिर्द्विधा शुद्धा विकृता च शुद्धा सप्तविधा । विकृता एकादशविधा | - जातिः षाड्जयार्षभी च गान्धारी मध्यमा पवमी तथा । धैवती च निषादी च सप्त शुद्धाः प्रकीर्तिताः । मतङ:


गीताङ्गम्

अष्टादशविधा जातिः । ग्रहांशादिज्ञानं कुर्वन्स्येतास्तु जातयः । नान्यः विकृतास्तु - षड्जकैशिकी, आन्ध्री, गान्धारपञ्चमी. कैशिकी, षड्जो- दीच्यवती, नन्दयन्ती, कार्मारवी गान्धारोदीच्यवा, मध्य- मोदीच्यचा, रक्तगान्धारी, पड्जमध्या इत्येकादशविधा। पुष्करवाद्ये यतिलयपाणिप्रभृतिसंयुक्तं बादनं तस्यां जात्या- मष्टादशभेदाः सन्ति । भरतग्रन्थे पाठभेदन त्रीणि प्रत्येकं मतानि दृश्यन्ते । तेषां नामनिर्वचने च भिद्येते | कृष्णदासः