पृष्ठम्:भरतकोशः-१.pdf/२६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जातिप्रयोजनम् ज्जतप्रयोजनम् उक्ता: किलाष्टादशजातयस्ता ब्रह्मोदितैरेव पदैः प्रयुक्ताः । शशाङ्कमले: स्तवने पुनन्ति सद्योमहापातकनोऽपि मर्त्यान् ।। यथैव सामानि ऋवो यजूंषि नैवान्यथा कैश्चिदिह क्रियन्ते । सामगभूता अपि जातयोऽमू: इहान्यधाष्टादश नैव कार्याः । प्रयुज्यमानास्तु यथावदेत्ताः श्रेयांस भूयांसि विशन्ति सद्यः || रघुनाथ: जातिभाषा-पाठ्यभाषा द्विविधा जातिभाषा च प्रयोगे समुदाहृता । म्लेच्छदशब्दोपचारा च भारतं वर्षमाश्रिता ।। जातिभेदहेतुः आभ्योऽष्टादशजातिभ्यः सतस्वराख्यायोक्ता द्विधा उक्ता: शुद्धा विकृताश्चेति । तत्र शुद्धा: अन्यूनस्वरांशमहन्यासापन्या- साथ। एभ्यो लक्षणेभ्योऽन्यतमेन द्वाभ्यां बहुभिर्वा लक्षणैर्वि- कृतिमुपगता न्यासवर्ज विकृतसंज्ञा भवन्ति । तत्र न्यासविधौ सुद्धासु न्यासो नियमेन मन्द्रो भवति । विकृतासु च तारो वा सन्द्रो वा भवतीत्यनियमः | तन्त्र शुद्धानां जातीनां शुद्धत्वं विकृ सत्वं च रूपयमस्ति । एकादशसु विकृतासु च जातिषु विकृत- त्वमेव रूपं भवति । जातिलक्षणम् ग्रहांसो तारमन्द्रौ च न्यासापन्यास एव च । अस्पत्वं च बहुत्वं च षाडवौडुविते तथा । एवमेता बुधैर्ज्ञेया जातयो दशलक्षणाः ।। जातिवक्रम् वैशे फूत्काररन्ध्रम् | जाति विकृतत्वम् आर्षमीं धैवतां त्यक्ता पञ्चभ्य: कैशिकी भवेत् । निषादिका पञ्चमिका गान्धारी चाथ मध्यमा । चतस्रो रक्तगान्धार्या: कारणं जातयस्तु ताः । योगाद्धैवतिकाषाड्जयोर्जायते कैशिकी तथा । भरतः षाड्जीगान्धारिकायोगाज्जायते षड्जकैशिकी। षड्जकामध्यमाभ्यां तु जायते षड्जमध्यमा || गान्धारीपत्रमाभ्यां तु जाता गान्धारपञ्चमी । गान्धार्यामिकाभ्यां तु जातिरान्ध्री प्रजायते ॥ मतज्ञः २२८ हम्मीरः | नान्यः षाड्जी गान्धारिका तद्वत् धैबतीमिलितारित्वमा: । षड्जोदीच्यवर्ती जातिं कुर्युः कार्मारवीं पुनः ॥ उत्पादयन्ति नैषादी पञ्चम्यार्षसिका युत्ता | नन्दयन्ती तु गान्धारी पञ्चम्यार्षभिकान्त्रिता || गान्धारी धैवती षाड्जी मध्यमेति युतास्त्विमाः । गान्धारोदीच्यवां कुर्युर्मध्यमोदीच्यवां पुनः । एता एव विना षाड्ज्यो पञ्चम्या सह कुर्वते । कुर्युस्तारात गान्धारी नैषादी न च धैवतो ॥ जातीनां ग्रामविभाग: षड्जग्रामोद्भवात्सा तु षाड्जी चार्षभिका ततः । नैवादी धैवती षड्जोदीच्यवा षड्जकैशिकी ।। षड्जमध्येति विज्ञेया मध्यमग्रामजाः पुनः । एकादशापि वक्ष्यामो गान्धारी मध्यमा तथा ॥ गान्धारोद्वीच्यवा रक्तगान्धारी पञ्चमी परा। मध्यमोदीच्यवा नन्दयन्ती गान्धारपञ्चमी । कार्मारवी तथा चन्धी कैशिकी चेति ताः स्मृताः || जानु तोते सम्मतं च विवृतं कुचितं समम् । ततोऽर्धकुचितं चेति जानूक्तं सप्तधा बुधैः ।। जानुभ्रमरी जानुगतम्– देशीस्थानम् पूर्वाङ्गमीषदान जानुनी भूतलस्थिते । यस जानुगतं तत्तु देवताराधने भवेत् || होमे च दीनयानायां कुपितानां प्रसादने । क्षुद्रसत्वनासने च गूढं मृगचिलोकने ॥ वृषभासनतो भेदो ज्ञेयः सौष्ठववर्जनात् । जानुपृष्ठभ्रमरी–तिरिपनृत्ताङ्गम् चतुरश्रपताकौ तु प्रसृतौ पार्श्वयोस्ततः । दक्षिणश्चरणो वामजानुष्पृष्ठे स्थितो भवेत् ।। शिखरौ स्तनयोरूर्ध्वं दक्षिणावर्ततस्ततः । यथाशक्त्या विधातव्या जानुष्ठ मिर्भवेत् || जानुभ्रमरी-तिरिपनृताङ्गम् कृत्वा कांस्यमयं पात्र विस्तीर्ण सुदृढं पुनः । कण्ठद्वय समायुक्तं समभूमौ निधापयेत् ॥ अशोकः वेमः विप्रदासः