पृष्ठम्:भरतकोशः-१.pdf/२६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झङ्कारवाणी मारवाणी-मेल: (नटभैरवी मेलजन्य: ) (आ) सगरि ग म पनि स. (अव) सनि ध प स रिस. -देशीताल: लपाभ्यां झकृतिः प्रोक्ता | 15 झंझातालः एतौ पुनश्चेदधिकैर्भवेतां पुरोदितान्निन्नतलस्तदासौ । झं झेति पाटाक्षर संयुक्तत्त्वात् झं झादितालमै गदितौ पुराणैः || एतौ कांस्यतालौ । झणालता–मेलरागः ( धीरशङ्कराभरणमेलजन्य: ) ( आ सरिगमपधस. (अव) सनिधप गरिस. झडर्पणी–पाटवाद्यम् आदौ मध्येऽवसाने वा प्रयुज्यन्ते विचक्षणैः । यह सर्वाणि वाद्यानि तामाख्यन्ति झडर्पणीम् ।। झम्पः -- देशीतालः व्य घुम्पे।। ...ध्रुवालङ्कारः झम्पातालेन संयुक्तो झंपालङ्कार उच्यते । तल स्यान्नाट्यपायामादौ तावदमुद्रुतः il एकाक्षरमितः पश्चाद्रुतो व्यक्षरसम्मितः । ततस्सप्ताक्षरीकालसम्मतो लघुशेखरः ।। वाग्गेयकारझम्पायां विरामान्तद्रुतो मतः । व्यक्षरस्सपरं सप्ताक्षरोच्चारणसम्मितः || लघुशेखरनामैको झपातालावुभाविमौ । दशलध्वक्षरोच्चार सम्मिताविति निर्णयः || अनयोरुभयोर्नाटयझम्पा प्रामाणिकी स्मृता । सरुग सरि सरि गमा, रिंगमरिगरिंगमपा ।। झम्पा- ध्रुवताल: झम्पा तालो द्विधा नाट्यवीणयोः परिदृश्यते । तत्र स्यान्नाटथझंपायामादौ तावदनुद्रुतः ।। कुम्भः मा वेमः मदनः वेट मखी २३२ Į एकाक्षरमितः पश्चात् द्रुतो व्यक्षरसंमितः ततः सप्ताक्षरीकालसम्मितो लघुशेखरः || बाग्गेयकारझंपायां विरामान्तद्रुतो मतः । त्र्यक्षरः सपरं सप्ताक्षरोच्चारणसम्मितः || लघुशेखरनामैको झंपातालावुभाविमौ । दशलघ्वक्षरोच्चारसम्मिताविति निर्णयः || झम्पातालः– देशीताल: झम्पाताले लघुस्त्वेकः सविरामदूतद्वयम् ॥ झलवराली–मेलकर्ता रागः सरि ग००० मपध०० निस. झल्लिका– वीणावादने दोषः कर्णाम्फोटकरं वाद्ये झल्लिकेति निगद्यते । झालकेसरी-मेलरागः ( शुभपन्तुवरालीमेलजन्यः ) (आ) सरिम प ध नि स. ( अब ) सघपमरिस. झालमञ्जरी --मेलरागः ( खरहरप्रियामेलजन्य ) (आ) सरिगप ध नि स. ( अब ) सनिपधपस रिस रिस. झोम्पट:-बालङ्कारः झोम्पटाख्येन तालेन निबद्धो झोम्पटः स्मृतः । तत्र झोम्पटताले द्विद्वयक्षरों द्वौ तौ ततः ॥ लघुरेकः परिज्ञेयः चतुरक्षरसंम्मितः । आहत्याष्टाक्षरमितो झोम्पट: स्याद्दिमातृकः ॥ सरि. राम, पधनिस. सनिघप, मगरिस. -प्रबन्ध: अन्येऽपि भेदा विद्यन्ते झोम्पटस्य पुनस्खयः गद्यतः पद्यतश्चैव गद्यपद्यमयस्तथा ॥ झोम्पटं पद्यजं चैव गद्यपद्यमयं तथा । लघुशेखरताले स्युरन्येऽल्पगमकादयः || प्रतिमद्वे तृतीये च मदुनिस्सारुके तथा । चण्डनिस्सारुके चाथ पाटभेदतृतीयके || झोफ्टः श्री सूधाकलश: मज मञ मझ वेङ्कटमखी