पृष्ठम्:भरतकोशः-१.pdf/२६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झोप्पटः एतेषु झोम्पटा गेया यत्प्रोक्ता लघुशेखरे । कुडुक्काख्येन तालेन झोम्पटो गीयते तदा ।। पदैरपि विना कार्या तथा भोगस्य कल्पना एवमष्टादश प्रोक्ता झोम्पटा गीतवेदिभिः । सारङ्गप्रमुखास्संज्ञा विनियोगप्रभेदतः ।। अन्यमतेन विभागः । नान्दिसंज्ञश्च राम माधव: पुरुषोत्तमः । नारायणष्षण्मुखश्च रोहिणेयरसुधाकरः ॥ साक्षेपश्चाथ रेवन्तो वासवः कुसुमाकरः । बलभद्रो भृगुः कृष्णो कैरातेयस्तथापरः ॥ विदूषको नारदश्व रुद्रः कमलसंभवः । दामोदरी रूपकश्च कान्तयोगेश्वरा इति । तारजोऽतारजश्चेति झोम्पटे जातियुग्मकम् । तारो ध्वनिस्समुद्दिष्टो गायकै स्थानकाख्यया ॥ तेन तारेण संयुक्तो झोम्पदस्तारजस्मृतः । तारजस्य परिज्ञेयं तत्र मेचतुष्टयम । तच्च दुष्करमेवोक्तं गीत विद्याविशारदैः । अतारजस्य गीतज्ञैः भेदतियमीरितम् ।। दुष्करं सुकरं चेति भिद्यते तदपि द्विधा । प्रतापतिलकस्तन्त्र प्रथमः परिकीर्तितः ।। अन्यः प्रतापसङ्गस्स्यात्प्रतापोऽचलपूर्वकः । प्रतापवर्धनश्चान्यत् चतस्रस्तारजे भिदा ॥ जगदेक: गणैकवृद्धथागणावसानः प्रयोगवान् प्रासविभूषितच | सताल मेदावहुधाप्रयुक्तो रसानुविद्धरित्वह झोम्पटस्यात् || तस्य भेदाः । प्राय गिकः, क्रमः, कमविलासः विचित्र, वि- चित्रलीला इति पञ्चमेदाः । वारद्वितयमुद्राहः प्रथमं परिर्गीयते । सकृद् द्वितीय उद्ग्राहो गीयते च ततो ध्रुवः ॥ ध्रुयो वारद्वयं गेयः पञ्चादाभोग इष्यते । पुनर्गेयो ध्रुवः प्राज्ञैः गीतलक्षणवेदिभिः ।। मट्टकङ्कालतालाभ्यां प्रतितालेन वर्जितः । अन्यस्तालः प्रयोक्तव्यो डोम्बटेर्लक्षणं त्विदम् ॥ गारुडाख्येत तालेन द्वितीयेन तथैव च । प्रतिभट्टाभिधानेन तृतीयेन तथैव च || अन्यो निस्सारु नयादेकतालिकया तथा । षडमी झोम्पटास्सिंद्वारसाम्प्रतं तालसंज्ञया || नान्यः सोमेश्वरः २३३ भाग एकोऽथ गातव्यो यचैव ध्वनिकुनी उद्ग्राहस्थात्पदैरन्यैझम्पटो गमकस्थितिः । प्रसवृद्धियुतो गेयो झोम्पटो प्रभवेदिति ॥ -ध्रुवताल: तत्र झोम्पटताले द्विद्र्यक्षमै हौ द्रुतौ ततः । लघुरेकः परिज्ञेयः चतुरक्षरसम्मितः । आहयाष्टाक्षरमितो झोम्पट: स्वाद्विमानकः || टककाशक:--रागः ट धैवतीमध्यमोद्भूतष्टककै.शिकसंज्ञकः । धैवतांशप्रहन्यासः काकल्यन्तरभूषितः ॥ दैत्यावसाने शृङ्गारवीभत्सरससंश्रये । स्वल्पसप्तमगान्धारो ग्रहांशार्पितधैवतः || अपन्यासो निगौ चैव विस्फुरद्वषभस्वरः । उत्तरायतमूर्छायां ताने सति सुवर्णके || मीन के तुमहाकालदेवताभ्यामधिष्ठितः । चैवतीमध्यमाजात्योजयते टक्कैशिकः || 'धैवतांशस्तदन्तश्च स्वल्पद्विश्रुतिकरस्वरः । मध्यमाधैवती जात्योर्जायते टक्कैशिकः ।। षड्जग्रामेण संबद्धो लक्ष्यते टक्कै शिकः । षड्जमध्यमपूर्वाभ्यां ग्रामाभ्यामेव जायते ॥ चतुःश्रुतिस्वरयुतो धैवतो ग्रहणेऽशके। न्यासे निषाद्गान्धारौ काकल्यन्तरसंयुतौ । संपूर्णो लक्षितं चैव टक्ककै शिकलक्षणम् || तक्करागः नड्जग्रामसमुद्भूतष्टकरागो निरूप्यते । षड्जो महेंऽशे न्यासे च निषादः पञ्चमो मतः ।। अल्पौ निषादगान्धारौ काकल्यन्तर संयुतौ । संपूर्णश्च भवेदेतत् टकरागस्य लक्षणम् ॥ -भाषारागः न्यासांशग्रहषड्जको, ..षाड्जिसंभवः । स्वरूपस्वीकृत धै वर्ष भरवस्संवादिमध्यध्वनिः || टकराग: हरिपाल: वेङ्कटमखी मोक्षदेवः नाभ्यः कश्यपः हार: