पृष्ठम्:भरतकोशः-१.pdf/२६७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डमामा डमामा- अवनद्धवाद्यम् तम्बकी ति नामान्तरम् । डभरी– देशीचारी जानुपर्यन्तमेकस्य पादमन्यन्तु कुश्चितम् । उत्क्षिप्यान्तर्बहिरिवष्टं भ्रमणं डमरी भवेत् ॥ जानुदघ्नं यमुत्क्षिप्य कुञ्चितं चरणं द्रुतम् । यदान्तर्बहिरावृत्या भ्रामयेडुमरी तदा ॥ कुम्भोपि डमरीत्येव वक्ति डमरुकम् वितस्तिमात्रः कर्तव्यः सोऽष्टाङ्गुलमुखद्वयः । त्रिवलीवर्त्मना कक्षमध्ये डमरुको भवेत् । मुखयोश्चर्मणा नद्धो मण्डलीद्वयमण्डितः । बद्धरणगढ मध्ये चैव निपीडितः || अष्टाङ्गुलायतावन्यौ कार्यों बदनगोळके। मध्ये विधार्य हस्ताभ्यां वाद्यों डवडवा रैः || करौ डमरुकाकारौ मस्तकावर्धरेचितौ । पादौ समानसंयुक्तौ वलिता यत्र चेत्कटी । एतड्डमरुकं नाम प्रोक्तं हरिमहीभुजा | डमरुकुट्टिता-~-~-मुडुपचारी पादश्चेत्कुट्टितः पूर्व लुठितोऽङ्गुलिष्ठष्ठतः । पश्चान्निकुट्टितः स्थाने तद् डमरुकुट्टिता || डमरुद्ध यकुट्टिता – मुडुपचारी पादयुग्मकता सैव डमरुकुट्टिता। सेति डमरुकुट्टिता डमसः -- अवनद्धम् सुपकं च घनं लक्ष्ण मल्पवक्तं मनोहरम् । चर्मणानद्रवदनं पाणिभ्यां वादयेद्दढम् ॥ वितस्तिद्वयदैर्ध्यः स्याद्वादशाङ्गुलवकः । षडिशति परीणाहो बल्लीवलयवेष्टितः ॥ कवलानद्धवदनः सप्तरन्ध्रनियन्शितः । सूत्ररज्वा दृढं बद्धो दक्षिणे कुडुपाहतः ।। ज्यायनः सोमेश्वरः हरिपाल: अशोकः अशोकः २३५ 1 वामे वामकराधातः स्कन्धस्थानमः । डकारबहुलो वाद्यो उमसः परिकीर्तितः || डाल:--स्थलस्थध्वाडनृत्तम् चतुस्तालान्तरी पाढ़ौ पताको प्रस्तुतौ यहि ! पार्श्वयोरुतिं कृत्वा भ्रमयन्मस्तकोपरि || पार्श्वान्तरे दक्षिणेन पदा भूतलमाश्रयेत् । यदा तदा डाल इति प्रथितः पूर्वसूरिभिः ।। --देशीलास्याङ्गम् किचञ्चलत्करन्यस्ताफलमनोहरम् । नर्तने निभृतं गावचलनं डाल उच्यते ॥ अनिरौद्ररसोपेतः बीभत्सादिनिरन्तरः । सप्रवेशकविष्कम्भश्चतुरङ्को डिमः स्मृतः ॥ इदं त्रिपुरदाहाख्ये लक्षणं ब्रह्मणोदितम् । उदाहरणमेतस्थ वृत्रोद्धरणमुच्यते । तारकोद्धरणं तद्वत्तव तत्र विलोक्यताम् || डिसः सोमेश्वरः शृङ्गारहास्यवयं शेपैस्सर्वे रसैस्समायुक्तः । प्रख्यातवस्तुविषयः प्रख्यातोदात्तनायकश्चैव ।। रौद्रभयानकवीभत्सवीरकरुणाद्भुतोपेतः । मायेन्द्रजालबहुलो बहुपुस्तोत्थानसंयुक्तः ॥ निर्धातोल्कापातै रुपरागैश्चन्द्रसूर्ययोर्युक्तः । युद्धनियुद्धनिबद्धः संफेटकृतथ्य कर्तव्यः || सात्वत्यारभटीभ्यां वृत्तिभ्यामन्वितो डिमः कार्यः । षोडशनायकबहुल: तद्ज्ञैर्नानाश्रयविशेषः ।। रौद्रो रसोऽङ्गीकर्तव्यम्वत्वारोऽङ्कारसविस्तराः । दीर्घवृत्तिविचित्रार्थो निर्विमर्शो डिमो भवेत् ।। डिम:- रूपकम् षोडशनायकयुतः यथा - नरोद्धरणम् विख्यातवस्तु- विषयः, यथा - वृत्रोद्धरणम् । दीतरसकाव्ययोनिः प्रख्यात नायक: मायाकुहकसम्पूर्ण इन्द्रजालसमाकुलः, पिशाच- सुरासुरयक्षरक्षोनागसङ्कलः उल्कापातावकीर्ण: कैशिकी- वृत्तिहीनः, चतुरङ, मुखप्रतिमुखगर्भनिर्वहणाख्यचतुरस- न्धिकः | वेदः वेमः सागर नन्दी भोज: शारदातनयः सर्वेश्वरः