पृष्ठम्:भरतकोशः-१.pdf/२७२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तन्तीपु स्वरस्थापनम् तृतीयसोपानजातौ षट्छ्रतीरिषभस्तथा । साधारणञ्च गान्धार इति हो कीर्तितावुभौ ॥ गान्धारोऽन्तरसंज्ञस्तु तुर्य सोपानमास्थितः । सोपाने पञ्चमे जातः शुद्धमध्यम इष्यते || षष्ठसोपानजनितः प्रतिमध्यमनामकः । सोपानात्सप्तमाजातः स्वरः पञ्चमनामभाक् || श्रुतेराधारषड्जस्य पञ्चमसहकार्ययम् । सोपानादष्टमाज्जातः शुद्धो वैवत उच्यते ॥ सोपाने नवमे जात चतुश्रुतिकधैवतः । शुद्धो निषाद इति च द्वौ रूरौ समुदीरितौ । सोपानाद्दशमाजातौ निषाद: कैशिकस्तथा । धैवतः षट्च्छ्रुतिश्चेति द्वौ रूरौ परिकीर्तितौ ।। ● एकादशेति सोपाने काकलिस्वरसंभवः । सोपाने द्वादशे चैव षड्जरवर उदाहृतः सग्रहचूडामणिः A सुषुम्ननाडिसदृशे वीणादण्डे फणायिते । तन्त्रीसतक मेतासां मध्ये त्रिकमधोगतम् || चतुष्कमूर्ध्व भागस्थ तासां संज्ञां विवृण्महे | आरभ्य पित्तलां तन्त्री मन्द्रमध्यमतारगाः || अनुमन्द्रो विशेषः स्वान्नादकालविभेदने । मन्द्रस्तु मन्दरं ब्रूते मध्यमो मध्यमस्वरः ॥ तारस्तूचस्वरं यादनुमन्द्रोऽतिमन्दरम् । अधोगते त्रिकं तालं ज्ञानार्थमुपयुज्यते । चतुर्विंशतिसंख्यास्तु सार्थस्तत्र स्वरान्तरे | एतेष्वष्टाष्टभेदेन लिस्थायिध्वनिभेदतः || तत्र तन्त्री चतुष्केऽपि स्थानं षण्णवतिः स्फुटम् । द्वात्रिंशस्थानमधिकं लीनं तत्रैव सारिषु || षड्जो ऋषभगान्धारमध्यपञ्चमधैवताः । निषादश्चेत्यमी सप्त वीणालयगता स्वराः || तन्त्रीनादस्तु षड्जः स्यात्स्थानेषु ऋषमादिगा : | ऋषभस्त्रिविधः प्रोक्तो द्विचतुष्षट्च्छ्रतिक्रमात् ॥ गान्धारोऽपि त्रिधा शुद्धान्तरसाधारणक्रमात् । चतुश्रुत्यृषभे शुद्धः षट्च्छुतावन्तरस्थितः ॥ साधारणाख्यगान्धारः पृथगात्मतया स्थितः । पृथगेव द्विधा शुद्धमध्यमप्रतिमध्यमौ ॥ पञ्चमोऽथ त्रिधा चैव द्विचतुष्ष छतिक्रमात् । निषादस्त्रिविधः शुद्धकैदयकाकल्यभेदतः ।। २४० चतुश्रुतौ धैवते तु निषादश्शुद्ध इष्यते । धैवते कैश्यनिषादोऽन्यः पृथस्थितः ॥ तारषड्जस्वरश्चेति द्वादशामी विभेदतः । एते स्वराः क्रमेणैव द्वादशाधोमुखार्थिता || सप्तस्वराणां भेदेन वीणायां षोडशस्वराः । प्रक्रमद्वयभेदेन द्वात्रिंशद्भेद उच्यते || तन्त्री चतुष्केऽपि षड्जपञ्चमावष्टभेदिनौ । मध्यमष्षोडशविधः चतुर्विंशतिभेदिनः ॥ निषादर्षभगान्धारधैवता इति वैणिकैः । अष्टाविंशोत्तरशतमाहत्य भवति । तत्राप्रसिद्धस्थानानि कतिचिवर्जितानि च ॥ तन्वी – ध्रुवावृत्तम् ( सप्ताक्षरम् ) तृतीय पश्चमं चैव गुरुर्यन्त्र तु नैधनम् । सदा तुष्णिकृते पादे तन्वी सा नामतो यथा ॥ पिथ कामुओ विय। प्रियकामुक इव । -श्रुतिः ऋषभस्य द्वितीय श्रुतिः | मण्डलीमते तारर्षभस्यैव । . नागच्छति प्रियतमे प्रहरार्धमात्र- मुद्देगिनं विविधचेष्टितमङ्गनायाः । सख्याः पुरःश्वसनरोदनमात्मभाग्य- तपनम् ---अङ्गविकारः परितपनमित्यप्युच्यते । राहुलकादिभिर्लक्षितानि मौग्ध्यपरि तपनादीनि शृङ्गारचेष्टारूपाणि अभिनवगुप्तेन न स्वीकृत भवन्ति । प्रियजने कापि गते प्रहारार्धमपि वागच्छति स्वयमेव परिकल्पितदौर्भाग्यन्वरगृहीतक्षणरुदितश्वसितरवप्नद्वारावेक्षण- शिरोव्यधादिविषयं तपनम् । निन्दादिकं कविवरास्तपनं वदन्ति ।। ततम्-दर्शनम् निपतद्भूपुटं शुष्यत्प्रभं तप्तमुदाहृतम् । तमः तमः – संगीतशृङ्गाराङ्गम् निशागमान्धकारस्तमः । परमेश्वरः भरतः सागरः पद्मश्रीः शारदातनयः भोज: