पृष्ठम्:भरतकोशः-१.pdf/२८४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीर्णमञ्जरी निर्मित विन्दुना वर्ज्यमिति तादिप्रहोत्तमम् ॥ तालावृत्तानुगम्भीरै: तिवटं परिकीर्तितम् । यथा - थे थे तिथा तिथि तेते ततिगदा। तीर्णमञ्जरी --मेलरागः (मेचकल्याणीमेलजन्यः ) ( आ ) सरिगमनिस. (अव) स ध नि ध प म रिमगरिस. तीववर्धिनी --मेलरागः (नटभैरवीमेलजन्य: ) (आ) स ग प ध नि ध स. (अव) सनिधम गरिस. तीव्रवाहिनी–मेलरागः ( षडूविधमार्गिणीमेलजन्य ) (आ) सरिगमपध पनि स (अव) सनिपधप म गरिस. तीव्रा श्रुतिः षड्जे प्रथमा श्रुतिः । तुच्छिका र रागः धैबतग्रहणन्यासा गहीना रिपभूयसी। रिषभं मध्यमं यावत् तारमन्द्रा च तुच्छिका || न्यासांराग्रहधैवतगान्धारापेत परिखप्राया ' रिषभस्वरमध्यावधिकतारमन्द्रा च तुच्छिका भवति || नान्यः तुडुका - वाद्यप्रबन्धः यत्पृथप्रचितः पाटैर्बन्ध वर्णसरेण वा । अभ्यस्तद्रुतमानेन खण्डं सा तुड्डुका मता प्रायशो नर्तने दीप्ते नृत्तज्ञैस्सा प्रयुज्यते ॥ यदेकदेशतो वाद्यमुद्राहाभोगयोध्रुवे । हस्तलाघवयोगेन तुड्डुका नाम सा स्मृता ॥ २५२ मझ मतमः । यथाभिहितविशेषमस्यापि मिन्नपञ्चम्या इवालापर्क रूपकं वेदितव्यम् । उद्ग्राहृध्रुवकाभोगाः पुनरुग्राह उच्यते । तुडुक इति वाद्येषु कथित्तस्सोमभूभुजा ॥ मझ वेमः सोमराजः सोमेश्वरः | शुद्धकूटादिभिर्बद्धः खण्डो वर्णसरेण वा । अभ्यस्तस्स्याद्रुते माने तुड्डुकादीप्तनर्तने ।। दुताद्रुततरं मानमल लक्ष्येषु दृश्यते । उग्राहध्रुवकाभोगे यन्लान्यतमत्खण्डकम् ॥ वादनीय परे प्राहुरन्ये तु तुडको जगुः । उद्राधबकाभोगोग्राहाणां वादनं क्रमात् ।। तुण्डकः— वाद्यप्रबन्धः वाद्यैकदेशं वर्गान्तमयं वाद्यादिमध्ययोः । बादलघुहस्तत्वाद्यं तमाख्याति तुण्डकम् || वाद्यस्य चादौ मध्ये च वर्गान्तो यत्र वाद्यते । वाद्यैकदेशो वाद्यज्ञैः लाघवात्करयोर्द्वयोः । तुण्डकाख्यः प्रबन्धोऽसौ पण्डितैः परिगीयते ॥ तुण्डिकिनी-सुषिरवाद्यम् तुम्बिकिनी, तित्तिरि: - इत्यपि दृश्यते । सैव हस्तद्वयायामा प्रोक्ता तुम्बिकिनी जनैः । तुत्तुं तुरीतिवर्णाढथा तित्तिरीति स्मृता बुधैः । तुण्डिकिन्योयुगं वायमिति वाद्यविदो विदुः ।। सैव काहलेव । तुम्बकिता- फूत्कारदोष: तुम्बकी योऽनुरणनप्रायः प्रायेण दृश्यते । तुम्बरी ----वीणाभेदः अष्टमुष्टिमितो दण्डस्तुम्बुर्याः खादिरो मतः । तस्यैकाङ्गुलकं रन्ध्रे वेष्टनं चतुरङ्गुलम् ।। साधं चोभयतो देयं रौप्यसंवरकद्वयम् । सार्धाङ्गुलोञ्चककुभं सारदारूद्भवं न्यसेत् ॥ तस्मात् षडङ्गुलादेकं तुम्बकं तत्र विन्यसेत् । घडूविंशत्यङ्गुलात्तस्मात्तुम्बमन्यं विनिक्षिपेत् ।। नात्युन्नतं नातिहत्वमेव तुम्बयुग विह मन्द्रतन्त्रीस्तु छागाद्यान्त्रसमुद्भवा ॥ अन्यद् द्वे पट्टसूत्रेण निर्मिते तु मनोहरे । एका तन्त्रीलये तत्व बद्धव्या ककुभे ततः ॥ तुम्बरी शाई: शार्ङ्गः वेमः कुम्भः