पृष्ठम्:भरतकोशः-१.pdf/२८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुम्वुरुः तुम्बा हिर्गते दण्डे तारमभ्याख्यतन्त्रिके । बद्धव्ये सुदृढीकृत्य यथा न चलतस्तु ते ॥ ऊर्ध्वतुम्बादधोऽन्या तु बद्धव्या मन्द्रतन्त्रिका | ककुभे कलिका देया यथानुरणनं भवेत् । एषा च तुम्बरी प्रोक्ता सर्वगीतानुवादिनी || नारायणः इयं तुम्बरी दक्षिणदेशप्रसिद्धात् तम्बुरेति वाद्यविशेषाद्भि- न्नैव । तम्बुरावाद्यं केवलं चतुस्तन्त्रीयुतं श्रुतिवाद्यमेव । एक-- मेव तुम्बं बृहन्मानम् । कलिका जीवाइशङ्कब: ( चत्वारः) वीणायामिवाल ज्ञेयाः । तम्बुरायाः श्रुतिमात्रप्रयोजनत्वा- त्सारीस्थापनं तत्व नास्ति । नाटकोयलक्षणकर्ता । कोऽयं कदा वासीदिति न ज्ञायते । नारदमहर्षेः समानस्कन्धः समानकालीनश्च स्यात् | तुम्बुरुना टकादेकस्मिन्सङ्गीतसारे सङ्गीतदामोद चोका उदाहृताः । -घनवाद्यम अधोमुखं ताम्रमयं विदध्यात्कुम्भं सुशोभं समलङ्कृतं च । सुवर्णलिप्तं च ततोऽङ्गुलीषु निक्षिप्य मुद्रात्रितयं प्रदिष्टम् । कृतान्तरालं पुनराभिरन्न कुर्याद्रुधस्तुम्बुरुवादनं च ।। तुम्बुरुप्रियः- रागः गान्धारांशो मध्यन्यासो निधनध सप्तमध्वनिकः ' धैवतषड्जापेतो रागस्यान्तुम्बुरुप्रियः ॥ गान्धारांशो निषादान्सो मध्यमन्याससंयुतः षड्जधैवत निर्मुक्तो विज्ञेयस्तुम्बुरुप्रियः ॥ तुरगलीलः— नृत्तबन्धः. यत्र पङ्क्तिद्वयं कृत्वा पृथगष्टभिरष्टभिः । मिथञ्चतुष्ककोणेषु चालयेद्यदि नर्तकः । अयं तुरगलीलाख्यो बन्धो ललितबन्धुरः || तुरङ्गलीलः– देशीताल: हयलीलं पश्यत । तुरङ्गलीलताले स्याहतद्वन्द्व लघुस्ततः । ००। तुरङ्गिणी - गति: उत्क्षिप्य दक्षिण पादमुलाय च मुहुर्मुहुः । नान्यः नन्दी २५३ । बामेन शिखरं धृत्वा दक्षिणेन पताकिकाम् | तुरविणीगतिः प्रोक्ता नृत्यशास्त्रविशारदः || तुरङ्गी–गतिः अश्रमं च गतिश्शीघ्रं वचोव्यक्तिचमत्कृता । तुरङ्गाणां गतिस्तैषा चमत्कारमनोरमा | तुरतुरी सुविाद्यम् तुण्डकिनीत्यपि दृश्यते । तुरुष्कगौडः ---उपाङ्गरागः मन्द्रो गतो गभूयिष्टो ग्रहांशन्याससप्तमः तुरुष्कगौडः कथितः पञ्च मर्प भवर्जितः । अयमान्दोलितः षड्जे केदारो गौड उच्यते ॥ -प्रथमरागः निमहांशो रिपत्यतो गबहुर्मन्द्रताडितः । तुरुष्कगौडी वीरे स्यात् मालवीयस्तो जनैः ततस्तुरुष्कगौडस्स्यात्पश्चमर्पभवर्जितः । निषादांझध गान्धार बहुलो मन्द्रताडितः ।। परिहीनो निषादांशो गान्धारबहुलस्तथा । मन्द्रेण ताडितः प्रोक्तस्तुरुष्को गौड उच्यते ॥ गान्धारबहुलो मन्द्रताडितो रिपवर्जितः । निषादांशमहन्यास: तौरुष्को गौड उच्यते ॥ तुरुष्कतोडी–प्रथमरागः मध्यांशा स्वल्पगान्धारा तोडी तौरुष्कतोडिका । निषादर्षभबाहुल्या खरैरसन्ताडिता मता ॥ -~उपाझरागः ताडिता रूल्पगान्धारा निषादर्षभशालिनी । तोड्येव कथ्यते तद्ज्ञैरिह तौरुषकतोडिका || पक्षमभूयसीति रघुनाथः । - रागः तुरुष्कतोडिका चोपा सत्रया गविवर्जिता । उपेत्युपरागः । तुरुष्कतोड़ी नाट्यदर्पण देवेन्द्रः भट्टमाधवः मोक्षदेवः हरिः जगदेव: भट्टसाधवः