पृष्ठम्:भरतकोशः-१.pdf/२८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुरुकतोडी रागध्यानम् तोड्येव ताडिता गाल्पतौरुषकी रिनिभूयसी | मध्यमांशा च पूर्णा च निषादर्षभभूयसी । ताडिता स्वल्पगान्धारा तुरुष्की तोडिका स्मृता || कथ्यते च तुरुषकाद्या तोडी मध्यांशसंयुता । म्वरैरसप्तभिरापूर्णा निषादर्षभभूयसी । गान्धारे स्वरूपतां प्राप्ता भवेदियमितीरिता || मध्यमांशा च संपूर्णा निषादरिषभोत्कटा । गान्धारदुर्बला तोडी तुरुष्की ताडिता भवेत् ॥ तुरुष्कतोडीरागध्यानम् आयतनील निचोला करमालाजण्यमान पतिनामा बिरहातुरोच्यगौरी तुरुष्कतोडी महावेणी ॥ तुलाहस्तः कलशाभिधहस्तौ तु स्पृष्टाङ्गुष्ठौ परस्परम् । तुलाराशौ चन्द्रसूर्यसङ्गमे युज्यते क्रमात् || तुल्यतर्कः-लक्षणम् रूपकैरुपमाभिर्वा तुल्यार्थाभिः प्रयोजितः । अप्रत्यक्षार्थ संस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥ २५४ यथा - नवार्कभेत्यादि वीणावासवदत्ते राजवचनम् । तुन्यहस्तः अधोमुखपताकाख्यौ कृत्याङ्गुष्ठे तु मेलयेत् । तुल्यहस्तस्स भवति परब्रह्माधिदेवता || समूहे परिपूर्णाब्धा निधिष्वपि समे तथा । विनियोगस्समाख्यातः गम्भीरे वेदिकावले || जगदेक: तुलजामहाराजः अयं तञ्जापुराधिपः । काल: १७२९- १७३५. सङ्गीतसारो- द्वारकर्ता । अनेन चतुर्दण्डिप्रकाशिका, विट्टलीय, स्वरमेढकला- निधि, मतानि सम्यक् परिशीलितानि | रागाणां मेलकर्तृविषय विचारयामास हरिः । सोमेश्वरः सोमनाथः ज्ञारः भरतः गौरीमंतम् तुल्लम् – देशीनृत्तम् ( उडुपाङ्गम् ) हृदये शिखरद्वन्द्वंकुचिते स्थानके ततः । चतुरश्रे स्थान के च पर्यायेण पताककौ || प्रसारच ततः श्रयेत् । पुरोऽधस्ताद्वामकरः स भवेदलपद्मकः । प्रसारितो दक्षिणस्तु कुर्यादूर्ध्वमधोमुखम् । शिखरं तु ततः स्थानं चतुर समाश्रयेत् || पर्यायेण पताकस्य प्रसार: पूर्ववद्भवेत् । कृत्वा तु स्वस्तिकं स्थानं स्वस्तिकावल || पुरस्तात्तु ततस्तिर्यक् कुञ्चिता चारिका भवेत् । सहैव दण्डपक्षेण हस्तकेन सुशोभना || चतुवरं च तौ हस्तौ चतुवरं च चारिका । परिवर्तनतः कुर्यात्प्रत्यालीढं ततः श्रयेत् ।। तब बामो लताहस्तो दक्षिणः पार्श्वगोवंगः । पताकः कुचितां तिर्यक् चारी वामे द्वयं चरेत् ॥ तत्रोर्ध्वगः पताकतु शनैर्हृदयमानयेत् । तखालीढं स्थानकं च पताको वाम ऊर्ध्वगः || दक्षिणं तु लताहस्तं पुनः कुञ्चितमाचरेत् । हृदये शिखरद्वन्द्व विधायैवं ततः पुनः ।। अङ्गान्तरे विपर्यासात्सर्वं पूर्ववदाचरेत् । ततस्तिर्यक्कुचिता च चारी पर्यायतो भवेत् ॥ हृदये चालपद्मस्य द्वयेन परिवर्तनैः । सहैव कुचितां चारी पुरतः पृष्ठतस्तथा ॥ पश्चात्सरलतवारी स्वीकुर्यादपकुञ्चिताम् । पादयोः स्वस्तिकं कृत्वा ललितौ नृत्तहस्तकौ || पुरोर्ध्वं च विधायादौ भ्रमरीं चारिकां चरेत् । अध: पार्श्वद्वये चैव कर्तव्याचलपद्मकौं || हृदये शिखरद्वन्द्वं मण्डले स्थानके पुनः । पताकं दक्षिणे पाइवें संप्रसार्य च गारुडम् || कृत्वा तु कुञ्चितस्थाने सदैव परिवर्तनः । गृह्णीयात्कुञ्चितां चारीमेवमङ्गान्तरेण च । सहैवोद्भुतकं कुर्यात्पुरतः स्वस्तिकं भवेत् ।। अलपद्माख्यकरयोश्चतुरश्च भवेत्तदा । पाइर्वयोः संप्रसार: स्यात्करयोस्तु पताकयोः ॥ वामपादे दक्षपदं संस्थाप्य भ्रमरीं चरेत् । पुरो दक्षपदं स्थाप्य सह तेनालपद्मकम् ||