पृष्ठम्:भरतकोशः-१.pdf/२८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेन्नकरणम् तेत्रकरणम्- गीयते तेन्नकरण स्वरैर्धात्वोसतेन्नकैः । स्वरासतेन्नका यह दृश्यन्ते धानुयुग्मके। तदुक्तं तेन्नकरणं चालुक्यपृथिवी भुजा ॥ तोटकम् – गर्भसध्यन्नम् संरभवचनं चैव तोटकम् । ससससाः. भरतः आवेगगर्भ यद्वचनं तत्तोटकम् । स चावेगो हर्षात्कोधादन्य- तोऽपि वा भिनत्ति यतो हृदयं ततस्तोटकम् । यथा- रत्नावल्यां अद्यापीत्यादिविदूषकवचनम् । अभिनवः दिव्यमानुषसंयुक्तो न यत्राङ्के विदूषकः । तीटकं नाम तद्ज्ञेयं गूढनायकलक्षणम् ।। पचाष्टनवसप्ताङ्कं दिव्यमानुषसंज्ञकम् । तोटकं नामतत्प्राहुर्भेदं नाटकवस्तुनः ॥ दिव्यया सह मानुषेण सङ्गम इति समासार्थः । यद्वा- हरिपाल: गर्मितं वचः जोधहर्षादि संभूतावेगगर्भित वचनं तोटयति हृदयम् । यथा - रामाभ्युदये चतुर्थेऽङ्के तातेत्यादि मेघनादवचनम् । रामचन्द्रः - द्वादशाक्षरवृत्तम् जगमल: यथा विक्रमोर्वशी । नवाई तोटकं दृष्ट मेनकानाहुषाह्वयम् | तोटकं मदलेखाख्यं यत्तस्तंभितलम्भकम् || क्रमादष्टासप्ताको दृश्येते ह्यविदूषकौ । यद्वक्रमोर्वशीयाख्य पञ्चाङ्क तोटकं स्मृतम् ॥ २५६ तोट: स्यादिह दिव्यमानुषमयः प्रत्युत्तमः कैशिक : | पञ्चाष्टाङ्क विनिर्मितः स्फुटकथ: ज्योऽवमर्शेन च । सर्वोऽङ्कः खलु विप्रलम्भगहनी नानाकलासुद्भवः । ख्यातः स्फायति नायकः सुललितः क्रीडाप्रमोदादिभिः ॥ शुभकरः | भरतः शारदातनयः प्रत्यङ्कं विदूषको वर्तत इत्यश्मकुट्टः । दिव्यमानुपसंयोगो यत्रा रविदूषकैः । तदेव तोटकं भेदो नाटकस्येति हर्षवाक् । तदुव्यापकमित्यन्ये नाद्रियन्ते विपश्चितः || विक्रमोर्वशीये विदूषको नास्ति । मेनकानाहुषतोटके प्रत्यक विदूषकः । तोडकम् – ध्रुवावृत्तम् यदि चान्त्यतृतीयकषष्ठगतैः नवमेन च भूषितमेवम् । गुरुमिस्सततं त्विह यद्घटितं तोटकमेव हि नर्कुटकम् || रमणी सहिदो रयणी विरमे। रमणी सहितो रजनी विरमे ।। भरतः वाडपुत्रागरागय्यानसू सतीकण्ठदेशस्थ व्यप्रकोष्ठ द्वितीये च हस्ते तदीयोरुयुग्मम् । सदा नागबन्धप्रशस्ताङ्कपीठं भजे सन्ततं तोडिपुन्नागरागम् ॥ तोडी–प्रथमरागः अंशावसाना महमध्यमा स्या- द्वान्धारमन्द्रा च समानशेषा | त्षाडव तारा हर्षप्रदा मुख्यरसे च तोडी ॥ तोडी -मेलकर्ता आधादिमोक्षहरिगान्धरशुद्धमध्य- विद्धवश्वकैशिकनिषाद्मिदं समानम् । रामसागरः मोक्षः गायन्ति नारदमुखा इह तोडिरागे का चित्कपञ्चमयुतोऽपि स षाडवाख्यः ॥ सरिमधा: शुद्धाः । गोऽन्तरः । कैशिकनिषादः । पो लुप्तः । -मेलरागः ( कर्णाटीगौडमेलजा ) परमेश्वरः तोडी मत्रयसंयुक्ता गातव्या दिवसोदये । मन्याहता पकम्पा च गायकवान्तरञ्जनी ॥ षड्जपूर्वा तु तोडी स्याद्यत्रोक्तौ कोमली रिधो न्यासः स्याद्वैवतस्तस्यां गान्धारांशेन शोभिता । मेनारोहे तु पन्यासा पञ्चमेनोभयोरपि ॥ प्रथम प्रहरोत्तरगेया । पूर्वेति । श्रुतिद्वयपरित्यागात्पूर्व संज्ञेयस्य परिभाषा | आहोबिलः