पृष्ठम्:भरतकोशः-१.pdf/२९९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डपादा --मण्डलम् जनित दण्डपादां च चारीं कुर्यात्तु दक्षिणः | सूच च भ्रमरी वामः तथोद्वत्तां तु दक्षिणः || वामोऽलातां दक्षिणस्तु पार्श्वकान्तां ततःपरम् । भुजङ्गवासितां चापि वामोऽतिकान्तचारिकाम् || दक्षिणो दण्डपादां च वामः सूचीमतः परम् । अमरीमपि कुर्याच्चेदण्डपादं प्रचक्षते ॥ दण्डपादा- -चारी पार्द नूपुरपादायाः पार्ष्णिदेशपरस्य तु । निधाय यदि वेगेन वक्षरसम्मुखजानुकम् । प्रसारयेत्पुरोदण्डपादा चारी भवेदसौ ॥ दण्डपादिका - देशीचारी मुक्त्वा स्वस्तिकमावर्त्य चरण तिर्यगूर्ध्वतः । प्रसार्यते चेत्तामाहुः पण्डिता दण्डपादिकाम् || दण्डप्रणामाञ्चितम् - उत्प्लुतिकरणम् समपादाञ्चितस्यान्ते दण्डवत्प्रणतिर्भुवि । क्रियते यत्र तद्दण्डप्रणामाजित मुच्यते ।। दण्डरेचितम् –करणम् दण्डपादाभिधा चारी दण्डपक्षौ करावपि । यत्र रेचनसंयुक्तौ तद्भवेद्दण्डरेचितम् । नृत्ते प्रमोदयुक्तेऽस्य प्रयोगस्तूद्धतेऽथवा ॥ दण्डवर्तना वर्तितौ दण्डपक्षौ चेत्तदा स्याद्दण्डवर्तना। बक्षः क्षेत्रं श्रयत्येको येन कालेन पार्श्वतः । व्यावृत्या हंसपक्षात्यस्तेनैव परिवर्तितः ।। प्रसारितभुजोऽन्यस्तु तिर्यक्कार्योऽपरः पुनः । एवमङ्गान्तरेणापि क्रिया स्याइण्डपक्षयोः । दण्डवर्तनिकामेनां भट्टतण्डुरभाषत । दण्डहस्त:- हस्तपाठ: ऊर्ध्वधात पताकेन कृत्वकमथ रेफतः । • ऊर्ध्वघातद्वयं कुर्यायलासौ दण्डहस्तकः ॥ धातरकिटदां खरिखरिदां । बेमः २६७ ज्यायनः ज्यायनः अशोक: वेमः 1 हौड्डुचिकहस्तपाटः पुटं निपीडध बामेन दक्षिणस्याङ्गीमुखैः । निपीड्याङ्गुष्टघातेन दण्डहस्तो अवेवथा ॥ खुखुण खुखुण चेंद्र: चेंद्रः सेंद्र: सेंद्र: सेंद्र: टिरि टिरि टिरि टिरि


पाटवाद्यन्

करयोतियेनाथ मृदुना दक्षिणेन च । यद्राद्य क्रियते सोऽयं दण्डहस्तः प्रकीर्तितः ॥ दण्डहत जशब्देन मात्रामिद्वादशैता द्वाभ्यां क्रमेण हस्ताभ्यां क्रियते दण्डहस्तकः || दण्डान्तहस्तः अधोमुखरूस्तिकौ चेल्लूच्यौ दण्डान्तहस्तकः । पुरोभागे तु दण्डान्तं प्रजापतिनिरूपणे || दण्डिका–– वीणा इयं द्वितन्त्री- दक्षिणा तन्त्रिका ज्ञेया पश्चमस्वरसयुता । बामतन्त्री समाख्याता षड्जस्वरसमन्विता || दशिल: दत्तकः-हस्तः अंसदेशेऽपि शिखरो दत्तकार्थे नियुज्यते । दत्तकाभिनयः शिखरहस्तस्य भुजाग्रे धारणेन कर्तव्यः । दत्तिलः वेमः पार्श्व देवः एकाङ्गुरूप्रमाणेन जीवकाद्वयक भवेत् । नायिका दण्डिकामेनां तर्जन्या वादयेत्वधः । दण्डी खदिरनिर्वृत्ता विस्तृतिर्भानुमुष्टिभिः ॥ भाषायां विस्तृतिः ओलवु परिणाहस्तु वलवमिति ककुसं गोडुगन्सु इति पत्रिका करिवेल इति जीविका जीवगर्रा इति चोच्यते । खVार: महाराष्ट्र गान्धर्वशासकर्ताकै. प. १०० वर्षे एकस्मिन् शिलाशासने अस्य नाम दृश्यते । तस्मिन् महानुभाव इति वक्तु- सबकाओऽस्ति । अन्योऽपि नृत्तलक्षणग्रन्थः दत्तिलकृत इति बहुमन्येषूदाहरणाद्ज्ञायते ।