पृष्ठम्:भरतकोशः-१.pdf/३०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दुर्गा मतम् सर्वमार्गविमित्वात्प्रचारविषमादपि । अविभागादक्षराणां परस्याप्रतिभानतः || दुःखेन गम्यमानाद्वाद्यस्यालङ्कियामिमाम् । दुर्गाभिधामभ्यधत्त मिश्रिलामण्डलेश्वरः ॥ दुर्गामतम् रागाणां विभागे मतमिद् ग्रन्थकारैः सूचितम् | दुर्गामत- नामकः कोऽपि ग्रन्थो नोपलभ्यते । दुर्मील्लिका नृतरूपकम् चतुरङ्का गर्भसन्धिशून्या । यथा - - विन्दुमती । अस्यां प्रथमाङ्कः विटविलासमयः । द्वितीयो विदूषकविला- समयः । तृतीयः पीठमईविलासः । चतुर्थी नागरनायकविलासः। प्रथमस्त्रिणालिकः । द्वितीयः पञ्चनालिकः । शेषौ दशनालिकौ । सागरः अथ दुर्भालिका नाम प्रौढनागरनायिका | चतुरङ्का चतुरसन्धिर्गर्भसन्धिविना कृता ।। विटो विलसति खैरं प्रथमा त्रिनाडिका । विदूषको द्वितीयेऽङ्के विलसेत्पञ्चनाडिका || पीठमो विहरति तृतीये सप्तनाडिका । विटादित्रितयक्रीडा चतुर्थे दशनाडिका || चौर्यरतप्रतिभेदं यूनोरनुरागवर्णनं वापि यत्र ग्राम्यकथाभिः कुरुते किल दूतिका रहसि ॥ मन्त्रयतिः च तद्विषय तज्जातित्वेन याचते च वसु लब्ध्वापि लब्धुमिच्छति या सो दुर्मल्लिका नाम्ना एनां दुर्मल्लिकामन्ये आहुर्मत्तल्लिकामिति ॥ नान्यः शिष्टं मत्तलिकाशब्दे उक्तम् । दुल्लीतोडी -- रागः मध्यमांशन्यासयुक्ता षड्जमन्द्रा समस्वरा धैवतेन च भूयिष्ठा दुल्लीतोडीति सा मता ॥ दुष्करकरणा पुष्करकरणाशब्दे द्रष्टव्यम् । -~-अवनद्धे जाति: शारदातनयः २७४ पुष्कर करणेति नामान्तरम् । स्वस्तिक हस्तविचारा सर्वमृदङ्गप्रहार संयुक्ता । सा विलयवाद्ययुक्ता दुष्करकरणा भवेजातिः || भरतः यस्यां करणानि स्युः करयोः स्वस्तिकविवर्धकादीनि । अधमस्त्रीणां ज्ञेया दुष्करकरणेति सा जातिः ॥ दूतकृत्यानि दूतसंप्रेषणं दूतसन्देशदान दूतप्रणिधानं दूतानुगम: सखी निगहणं मार्गोदक्षिण गमागमचिन्ता चिरविमर्श: दूतागमन आकार परीक्षा दूतप्रतिभेदः दूतपरिप्रश्न: दूतव्याहार: दूत- वाक्या कर्णनं दूतगमनवृत्तान्तः दूतप्रवृत्युपलम्भः प्रियसन्देशः सुहृत्संमन्त्रर्ण अवस्थानुभवः सहायोत्साहनं प्रियदूतागमनं दूत- प्रतिपत्तिः वार्ताभिधान पौर्वापर्य नियोगः दूतवाक्यं उत्तराभ्युप- पत्तिः दूतप्रतिवाक्यं दूतवाक्याक्षेप: दूतामिभर्त्सनं परिजना दिक्षोभः गुरुजनाशङ्का सहायावेग: इतिकर्तव्यता स्वयंप्रवृत्तिः नायकानयन प्रियाभिगम: उपस्थापनं संभ्रमविकल्पः नायि- का प्रतिबोधनं सुहृत्परिहासः दूतपुरस्कार : इतिवृत्ताख्यान अव स्थाज्ञान अवधान संविधान शक्तिविवेचन समागमोपाय: समी- हितसिद्धिः इत्यष्टचत्वारिंशदूतकर्माणि शृङ्गारप्रकाशोक्तानि । उदाहरणानि तत्र द्रष्टव्यानि स्वयंदर्शनस्यालाभे दूतसंप्रेषणादयः । तेषु दूतसंप्रेषणं नाय - कयोः कर्म । तद्ज्ञातांवशेषकर्मणोर्न घटत इति दूतविशेषाद्- दूतकर्माणि च प्रागेवामिधीयन्ते । तब जात्यादियोगाद् दूतवि- शेषाः चतुरशीतिः प्रायशो भवन्ति । यथा - नान्यः ● जातिः, गुणः, क्रिया, द्रव्यं, संबन्धः अर्थः, प्रयोजनं, प्रयोगः, योग्यता, स्त्रीत्वं दूतमेदेषु हेतवः | | तेषु जातेः - देवो मनुष्य: किन्नरो वानरः शुक: शारिका पारावतो हंस इति । गुणत: - पितृपैतामहं अवैकृतं अविसंवादकं, अलोभशीलं, अपरिहार्य, मन्त्रविस्रावी, धार्मिक, भरसहिष्णुता इति । सोमेश्वरः । क्रियातः- सहपांसुक्रीडितं, उपकारसंबद्धं, जन्मान्तरार्जितं, सहा- ध्यायिता, समानशीलव्यसनं, रहस्यमर्मवेदिप्रत्यय, सहसंवृद्ध इति । - द्रव्यतः • मालाकार, ताम्बूलिक, गान्धिक, सौरिक, पीठमर्द, विट, विदूषक, पाषण्डिनो मित्राणि इति ।