पृष्ठम्:भरतकोशः-१.pdf/३१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवमनोहरी देवमनोहरी --- मेलरामः (आ) सरि०००म०प०६० निस (अव) सनि ०६०प०००० रिस. --मेलराग: ( खरहरप्रियामेलजन्यः ) (आ) सरिम पनि ध नि स ( अब ) सनि ध प म गरिस. देवमुखारी --मेलरागः ( खरहरप्रियामेलजन्य ) ( आ ) सरिगम प ध नि स. ( अत्र) सनिधमपम रिग मरिस. देवरञ्जनी – मेलरागः ( हरिकाम्भोजीमेलजन्यः ) ( आ ) सरिगपधस. ( अब ) सधपम गरिस. देवरञ्जी-मेलराग: ( अ ) स०००० म०पध०० निस. (अव) सनि०० धप०म००००सं. देवराष्ट्रम्-~-मेलरागः ( धातुवर्धिनीमेलजन्यः ) (आ) सरिगमपनि स. (अव) सनि ध प म गरिस. देवशाखा- रागः न्यासांशग्रहगान्धारा गान्धारपञ्चमोद्भवा । रिवर्जिता निमन्द्रा च देवशाखा गकम्पिता || देवशीला--- नायिका स्निग्धाङ्गोपाङ्गनयना स्थिरा मन्दनिमेषिणी ।. अरोगा दीप्त्युपेता च सत्यार्जवदयान्विता || अल्पस्वेदा समरता स्वल्पभुक् सुरभिप्रिया । गान्धर्ववाद्याभिरता देवशीलाङ्गना स्मृता || देवस्तम्भः झापाथर्वमन्त्रैः वैचित्र्यकारित्वं देवस्तम्भः | मेललक्षणे मझ मञ्ज | मझ मैरुलक्षणे मज २७८ भरतः | श्रृङ्गारः 1 देवाञ्जनी–मेलरागः (सरसाङ्गीमेलजन्यः ) ( आ ) सरिग म प ध नि स (अव) सनि ध प म रिग मरिस. देवालः --- रागः पञ्चमांशग्रहन्यासो षड्जगान्धारदुर्बलः । देवाल: स्वरसंपूर्णो निषादर्षभकम्पितः ।। निरूप्यतेऽथ देवालो मध्यमांशप्रहान्वितः । मध्यमः कम्पितो मन्द्रे पञ्चमर्षभसंयुतः । तथा तिरिपसंयुक्तो देवालः परिकीर्त्यते ।। देवाला— भाषाङ्गरागः लोके वर्त्मन्यवर्तित्वादेवाला न प्रकीर्तिता । मयूरवाहना श्यामा नीलवस्त्रेति कंचन || देवाश्रम: --मेलरागः ( गमनश्रममेलजन्य ) (आ) सरिगमध निस. (अव) सनि ध म ग रिस. देवी एमिरेव गुणैर्युक्ता बहुमान विवर्जिता । गर्विता राजपुत्री च रतिसंभोगतत्परा 11- बाला नित्योज्वलगुणा प्रतिपक्षेष्वसूयिका यौवनादिगुणोन्मत्ता सा देवीत्यभिधीयते ॥ देवोपहारकः देवोपहारकः – चालकः अरालाकृति रेस्तु पार्वयोरुभयोर्लंडन | सारल्यात्प्रसृतोऽन्यस्तु तस्य कूर्परमूलतः । विलुउद्यत्र संप्रोक्तः तदा देवोपहार : ॥ मख सोमेश्वरः देवेन्द्रभट्टः सोमराब: [ सङ्गीतमुक्तावलीकार: | गोपाचलीय ( ग्वालीयरु) बासी स्यात् । समषितमुक्तावल्याः प्रशंसा पण्डितमण्डल्या कृतेति हेतोः देवेन्द्र: तत्पूर्व इत्यवगम्यते । अयं देवणभशादेवानुदा- • हरति । तस्माद कै. प. १३८ वर्षापूर्व: । अयं महाकवे रुद्रा- चार्यस्य शिष्यः | हरिपालः मझ भरतः