पृष्ठम्:भरतकोशः-१.pdf/३१४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गनी त्याज्यावथारोहे रिधौ यत्र च कोमलौ । षड्जादिम्वरसंभूति: देश्यामंशस्तु रिः स्मृतः सर्वदा गेया। --रागः देश्यामशे ग्रह न्यासे धैवतो नास्ति पञ्चमः । रिषभोऽल्पस्तारमन्द्रो आगान्धारमुदादतम् || ग्रहांशकन्यासधृतैकधैवतां...पञ्चमापर्षभनादसुन्दराम् । गनादपर्यन्तगतारमन्द्रां द्विशन्ति देशीमिह धैवतांशाम् || नान्यः ( धैवतांशग्रहन्यासा मेन तु वर्जिता षड्जादिका भवेदेशी षाडवा गीयते बुधैः ॥ रेवगुप्तसमुद्भूतो देशीरागोऽथ कीर्त्यते । गान्धारे मन्द्रतां यातः पञ्चमेन विवर्जितः ॥ षड्जमध्यनिषादेषु बहुत्वं समुपागता । ऋषभांशग्रहन्यासो देशीरागरसमीरितः ।। स्यादनं रेषगुप्तस्य गमन्द्रा पञ्चमोज्झिता | ऋषभांशग्रहन्यासा तथा समनिभूयसी | देशीनामप्रयोक्तव्या रागोऽयं करुगे रखे || देशी पञ्चमहीना स्यादृषभत्रयसम्मता | कलोपनतिका ज्ञेया मूछेना विकृतपंभा' 11 स्यादङ्गं रेवगुप्तस्य गमन्द्रा पञ्चमोज्झिता। ऋषभांशग्रहन्यासा देशी समनिभूयसी ॥ —प्राकृतादिभाषासु शब्दवर्गः महाराष्ट्रादिदेशानां भाषामाश्रित्य वर्तते । यत्तद्देशीति विज्ञेयं सुज्ञेयमिह तद्विदाम् || अन्यत्व -- तदेव रुचिवैचित्र्याचित्तरञ्जनकृज्जनः । प्रयुक्तं स्वस्वदेशे यत्ततो देशीति कीर्तितम् ॥ २८२ अहोबिलः 1 अबलाबालगोपालैः क्षितिपालैर्निजेच्छया । गीयते सानुरागेण स्वदेशे देशिरुच्यते || मतन्न: सोमेश्वरः । हरिपालः जगदेकः दामोदरः हम्मीरः कुम्भः अब देशीशब्देन सीतभेद उच्यते । तच्छन्द: मार्ग- परामर्शकः । मतः देशेषु देशेषु नरेश्वराणां रुच्या जनानामपि वर्तते या । गीर्त च वाटयं च तथा च नृत्तं देशीति नाम्ना परिकीर्तिता सा || • वंशे वादनक्रमः स्थायिनं द्विगुणं षड्जं विधायाथ द्वितीयकम् । स्वरं द्रुतं वादयित्वा ततः स्थायिद्वितीयकौ || स्वरावुभौ लघुकृत्य तत्पदं तु विलम्बयेत् । वादयित्वा द्विवारं च पञ्चमस्फुरितं ततः ॥ श्रीनधस्त्यान् स्वरान् प्रोच्य स्थायिन्यासो यथा भवेत् । तदा स्वस्थानमाद्यं तु देश्यां देशीविदो विदुः ।। देशीकारम्—देशीलास्याङ्गम् मनोहरं यदग्राम्यं तत्तद्देशानुसारतः । नानारीत्यन्वितं नृत्तं देशीकारमिदं जगुः ॥ देशीताल: लघुवादिभिर्विमितया क्रियाया यो विमीतये । कांस्पतालस्फालनजध्वनिनाऽऽविष्कृताकृतिः । सकालः कथ्यते देशीतालशब्देन देशिकैः ॥ 7 देशीनृत्तानि देशीतोडी - मेलरागः (हनुमत्तोडी मेलजन्यः) (आ) सरिगमपथ निस. (अव) सनि ध नि ध प म गरिस. देशीवृत्तानि ब्रूमोऽधुना सम्प्रदायशास्त्रमेलनमुच्यते । अङ्गप्रत्यङ्गदृष्टयादिस्थानचारी प्रचारतः ॥ यान्युक्तानि पुरा तेषां करणानां क्वचित्कचित् । मेलने देशरीत्या च नानानृतव्यवस्थया || विद्वत्कविकलानाथः तौर्यत्रितयतत्त्वधीः । वृक्ति व्यक्तं हि देवेन्द्रः सम्प्रदायं मनोरमम् || • तक्ष पुष्पाञ्जलि: पूर्व मुखचाली ततः परम् । रागवाक्यानुग शब्दमृत्तं शुद्धगतिस्तथा ॥ रूपनृत्तं तदा ध्वाद: शब्दचालिरतः परम् । सूडादिशब्दनृत्तं च शब्दव्याजोपनर्तनम् ॥ जग वेभः अशोकः गोपतिप्पः मञ्ज.