पृष्ठम्:भरतकोशः-१.pdf/३२८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धारा - वीणावादनप्राणः धारा सानुपदं यस्यामुत्क्षेपपरिवर्तकौ । कर्तरी रेफसंज्ञौ च तथैवोक्लेशरेफको । मूर्छना स्खलितौ चेति कट्चुरिह (?) तद्विदः । दारेति नामान्तरम् । उत्क्षेपः परिवर्तश्च ताभ्यां स्याद्यत्र कर्तरी । रेफेण सहिता तद्वदुल्लेखो रेफसंयुतः । एवं समुदितं प्राहुः धाराख्यं वादनं बुधाः ॥ ---बाद्यम् स्खलितो मूर्च्छना चाथ कर्तरीरेफ संयुतौ । उल्लेखरेफो यत्रास्तां धारां व्रते हरप्रियः || -भङ्गतालः लघुः द्रुतद्वयं गः पुनस्तथैव । 10051005 धालिकागौलं-मेलरागः (नटभैरवीमेलजन्यः) (आ) सरि म प ध नि स (अव) सनिधनिपग मरिस. धीः--सन्ध्यन्तरम् इष्टार्थसिद्धिपर्यन्ता चिन्ता धीरिति कथ्यते । परचितोपलक्षिका बुद्धिः धीः । यथा - मुद्राराक्षसे तृतीये- एवमस्मास्थिति चन्द्रगुप्तवाक्यम् | धीस्थाने भोजदेवः हिंयं पठति । धीरम् -- दर्शनम् स्फुरत्प्रभावगम्भीरं धीर मित्युच्यते बुधैः। धीरकला --मेलरागः ( खरहरप्रियामेलजन्यः) ( आ:) सरिग पनि धस. (अव) सनि ध प म गरिस. २९६ कुम्भः पार्श्वदेवः शार्ङ्गः EST सिंगः सागरः शारदातनयः धीरललितः–– नायकः यत्र तु धीरत्वं सन्निवेशसौकुमार्याद्विलालमसूर्ण स धीर- ललितः । यथा- अथ सललितयोषिदिति कुमारसंभवे धीरशङ्कराभरणं-मेलकर्ता (रागः) स० रि० गम०प०६० निस. धीरादयः धीरा रतिपरिश्रान्ता मूर्छितापि पुनः पुनः । प्रिये प्रोत्साहयति या रते च पुरुषायिते ॥ उपचारैः सविनयैरथवा क्रमभाषितैः खेदयत्येव नेक्षेत सापराधं प्रियं कुवा || भोजः धीरशान्तः— नायकः यज्ञ तु धीरत्वं अमीषामेव शास्त्रार्थावगमपरिणत्या तदति- । सत्वोत्तरं भवति स धीरप्रशान्तः । यथा- - जीमूतवाहनः मझ धीरा-नायिका मध्याप्रगलमयोर्भानविधौ वैविध्यम् | धीराधीरा परुषा चेति । स्त्रीणामीर्ष्याकृतः कोषो मानोऽन्यासङ्गिनि प्रिये । धीरा गुप्तविकारा स्यादादराङ्गार्पणादिकृत् ॥ धीरादयो नायिकाः धीराधीरा धीरा तद्वद्धीरेति मध्यमा त्रेधा । प्रौढापि प्रागल्भ्याद्धैर्य विशेषैश्च मानवृत्तिगतैः ॥ धीरोदात्तगुणान्विता च रमणी धीरात्वधीरा भवत् मानादौ मृदुरेव धीरललितप्रायैर्गुणैरन्विता । धीराधीरविलासिनी विलसिता धीरोद्धतोक्तैर्गुणः प्राय: कापि च धीरभाकू सञ्जायते सा क्रमात् ॥ भोज: कुम्भः शारदातनयः नीलकण्ठः धीरादयः– नायिकाः मध्याभिधानधीरा चक्रोक्त्या वक्ति सस्मिता किश्चित् । धीराधीरा दयिते सागसि वक्रोक्तिभिर्बदत्सास्रम् || अधीरमध्या परुषैश्च वाक्यैः कृतागसं वल्लभमाह कोपात् । अथैवमुक्तास्सकलाय मध्या ज्येष्ठा कनिष्टेति च ता. द्विधा स्युः || नीलकण्ठः