पृष्ठम्:भरतकोशः-१.pdf/३३४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मुवादिषु कला: सप्तरूपप्रमाणं हि तद्भुबेत्यभिसंज्ञितम् । ध्रुवमन्योन्य संबद्धा यस्मात्तस्माड़वा स्मृता || -प्रवन्धः उत्तमप्रमुखर्भेदैः त्रिधेयं परिकीर्तिता । पदान्युग्राहके पश्चाभोगे किल पदानि च ॥ स्वरैः पदैश्च गीयन्ते देशीरागर्मनोहरैः । आभोगोऽस्य पढ़े नाम बिरुदानि च पञ्चमे || गीयन्ते यत्र सा धीरैरुतमत्वे प्रतिष्ठिता। पदैश्चतुर्थी रचिता मध्यमा कीर्तिता बुधैः । पदै त्रिमिर्विरचिता भवेदधमसंज्ञया || ध्रुवादिषु कला: ध्रुवमार्गे कला ज्ञेया लघुगुर्बादिकल्पना | चित्रे मात्रे उभे कला । मावाश्चतस्वस्तु कला वार्तिके दक्षिणे पुनः । अष्टौ मात्रा: कला ज्ञेया || ध्रुवाप्रयोगविधिः वस्तु प्रयोगं प्रकृतिं रसं भावं ऋतुं वयः । देश कालमत्रस्थां च ज्ञात्वा तत्तद्विधा ध्रुवा || प्रयोक्तव्या प्रयोग ज्ञैः प्रयोगः पुनरुच्यते । आदौ गीतमथो वाद्यं ततो नृत्तं च योजयेत् ॥ एतेषां मेलनं यत्तु स प्रयोग उदाहृतः । यानि वस्तूनि वाक्येषु वक्तव्यानीह नाटके || तानि सर्वाणि गीतेन प्रयोज्यानि प्रयोक्तृभिः । वायाशौरसेन्यादिभाषाणां नियमश्च यः | छन्दसां नियमस्तद्वदौपम्यार्थपरिग्रहः ।। ध्रुवाभेदाः शीर्षकी चोदता चैवाऽनुबन्धा च विलम्बिता | अड्डिता चापकृष्टा चेत्येते भेदाः प्रतिध्रुवम् ॥ षडुक्ता मुनिना तेषां क्रमाल्लक्षणमुच्यते ॥ ध्रुवा पञ्चविधा ज्ञेया प्रथमाक्षिप्तिका भवेत् । प्रावेशिकी द्वितीया च तथा प्रासादिकी पुनः । अन्तराख्या चतुर्थोस्यादन्या नैष्कामिकीति च ॥ भरतः वेमः वेमः मान्यः ३०२ ध्रुवाभेदहेतवः अथ जातिप्रमाणं च प्रकारौ नामकल्पना । स्थानं चेति ध्रुवाणां स्युः भेदकाः पञ्च हेतवः || वृत्ताक्षरप्रमाणं तु जातिरित्यभिधीयते । षटुलाष्टकले चैव प्रमाणे द्वे प्रकीर्तिते । समार्थविषमाणां तु वृत्तानां तु विधीयते । नाट्यज्ञे... प्रकार इति कथ्यते ॥ कुलाचाराश्रयं नाम यथा नृणां विधीयते । तथा स्थानाश्रयोपेता प्रवाणां नाम कल्पना | यद्वा वृत्तविशेषैश्च स्खेछया नाम कल्पयेत् ॥ ध्रुवायोगे विधिः अनिबद्धपदा ज्ञेया विषमाक्षरयोजिता । छन्दो वृत्तपदैबंद्धा निबद्धा कथिता ध्रुवा ॥ सतालास्त्वनुमन्तव्याः शेषास्तालाववर्जिताः । उत्तमाधमपात्राणां गुरुप्राया ध्रुवा भवेत् । मध्यमानां समा प्रोक्ता लघुप्राया ध्रुवाः स्मृताः । एकाक्षरादिषझिपर्यन्तमधुना क्रमात् ।। एकाक्षरादिषडन्तं चतुर्भिरताल इष्यते । गायत्र्यादिजगत्यन्तं द्विपदस्ताल इष्यते । जगत्यादि तूत्कृत्यन्तं तालः प्रतिपदे भवेत् ॥ ध्वजिनी: नान्यः ध्रुवालङ्काराः आद्यो ध्रुवस्ततो मण्ठः (मठथः ) प्रतिमठयो निसारकः । अठतालस्ततो रास एकतालश्च सप्तमः || ध्रुवरुषोडशविधः मठयकष्पडूविधः स्मृतः । चतुर्विधः प्रतीमठयः षड्विधञ्च निसारुकः || षड़िधारतालश्च रासकथ्य चतुर्विधः । त्रिविधश्चैकतालश्च गतिभेदाः पृथक् पृथक् || संगीतसार ध्वजिनी ध्रुवावृत्तम् तृतीय पञ्चमान्यानि प्रथमं सचतुर्थकम् । षष्ठं च नैधनं चाथ गुरुणि वजि.नी यथा ॥ विलसंति अ क्रमलसंडे पुष्पसुगंध के कुसुमलुद्धा: (विलसन्ति च कमलषंडे पुष्पसुगंधे कुसुमलुब्धाः) भरतः