पृष्ठम्:भरतकोशः-१.pdf/३३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नकुलादिलक्षणम् तुम्बस्य बन्धनं कार्यमेकतन्त्रीवदेतयो । रातोपदेशतः कार्य स्वागप्रकाशनम् ॥ कार्य कोणेन विदुषा के चित्र प्रचक्षते । त्रीणि तुम्बानि तिस्रव तन्त्र्यो मंद्रादिषु त्रिषु ।। स्थानेषु युक्तिमाश्रित्य बन्धनीयाः प्रयत्नतः । शार्डी गान्धर्ववीणा च पद्मवीणा स्वरंगिका || नादवेदी श्रुतिपतिरिति देशीविदो विदुः । षड्वीणा दण्डभानं तु क्रमादासां निरूप्यते || दण्डमानं तु नकुले मुष्टयः स्युस्खयोदश । त्रितन्त्रकायामुष्टमेकादशकमुष्टयः ।। शायदि त्रिषु वीणासु स्वात्तुम्बद्वितयं तथा । तन्त्रीत्रये दण्डसानं सार्धा स्याद्दशमुष्टयः ।। स्वराङ्गयां तुम्बमेकं तु तन्त्रीणां त्रितयं तथा । दण्डसानमथायां तु सार्धाः स्युर्दशमुप्रयः || दण्डमानं नादवेद्यां सपादा दशमुष्टयः | तिस्रस्तन्वीस्तृम्बके द्वे तथाश्रुतिपतिर्भवेत् ॥ दशमुष्टिमिता दण्डे चितन्त्र्येककतुम्बिका । चित्रा स्यात्सततन्त्रीभिर्नवभिः स्यापिचिका || न तल विस्तरः कार्यो नास्ति यलोकवर्त्मनि । कोणामुळीभ्यामनयोर्बादनं तद्विदो विदुः || चित्राङ्गळी वादनीया कोणवाद्या विपत्रिका | इति व्यवस्थामनयोर्वादने केचनाभ्यः ॥ नकुलादिलक्षणम् तन्त्रीद्वयेन नकुलः स्वादन्वर्था त्रितन्त्रिका | तन्वीभिस्सतभिश्चित्रा विपक्षी नवभिर्मता || लन्त्रीणामेकविंशत्या कीर्तिता मत्तकोकिला | मुख्येयं सर्ववीणानां विस्थासप्तभिः स्वरैः ॥ सम्पन्नत्वात्तदन्यास्तु तस्याः प्रत्यङ्गमीरिताः । अस्यां षटुरणानि स्युरनौ धातुभिदो मताः ।। उभयेषां भिः पञ्च तद्वदाविद्धधातुजा | वातत्रो देशवृत्तिस्थात्रयस्त्रिंशतिरित्यमी | तद्रुवाहतास्तेऽत्र नास्माभिरुपदर्शिताः ।। तद्ज्ञैः भरतनान्यादिभिः । कुम्भः हम्मीरः २०४ नखकर्तरी – वीणायां दक्षिणहस्तव्यापारः चतुर्भिर्नखरैर्यत्र शीघ्र दक्षिणहत्तर्धाः । क्रमादाहन्यते तन्त्री तदास्यान्नखकर्तरी || -वादनम् ( दक्षिणहस्तव्यापार:) क्रमाद् द्रुत नखैर्घात चतुर्भिर्नखकर्तरी । नटभैरवी-मेलकर्ता (रागः ) स० रिगं० म०पध ०नि० स नटवर्धिनी– मेलरागः (नटभैरवीमेलजन्यः ) (आ) सरि गमधनिस. (अव) सनिपम रिगम रिस. नट्टः-सेलकर्ता निगो त्रिश्रतिको यह पताद्यौ षड्जमध्यमौ विशुद्धनट्टमेलोऽसौ शुद्ध/ षड्जम (रिषभ) पञ्चमः शुद्धनदृस्स विज्ञेयो ग्रहांशंन्यासषड्जकः । गमकैर्गीयते सायं यस्याद्या मूछेना मता ॥ नट्टः नटमल्लारिरामध्यानम् नटमल्लारिरनीलो नृत्यन्कुतुकेन नर्तयत् शिखिनः । कलितकदम्बो ललितो मिलितालि: सौरभात्कलितः || सोमनाथः कुम्भः पचमगान्धारावधितारो मन्द्रश्च शेषसको (?) नद्रः न्यासांशग्रहधैवतयुक्त: (पूर्णश्च ) धैवतीजातः || पूर्णो धैवतन्यासमहांशसहशस्वरः । नहस्तारच मन्द्रश्च कृतगान्धारपश्चमः || शाळे मज नटोरगी शुभकरेण सङ्गीतदामोदरे नामास्य गृहीतम् । ग्रन्थो नोपलब्धः । मझ श्रीकण्ठः नान्यः मतश: