पृष्ठम्:भरतकोशः-१.pdf/३४२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नर्म नर्म– प्रतिमुखसध्यङ्गम् क्रीडार्थं विहितं यत्तु हास्यं नर्मं । भरतः क्रीडा विलोभनार्थ च इति भोजगृहीतं पाठान्तरम् । यथा- वेणीसंहारे भानुमत्याः हस्तात्पुष्पपतनं दृष्ट्वा राज्ञः परिहास - वाक्यम् | भोज: ____कैशिक्यङ्गम् आस्थापितशृङ्गारं विशुद्धकरण निवृत्तवीररसम् । हास्यप्रवचनबहुलं नर्म त्रिविधं विजानीयात् || ईर्ष्याक्रोधप्राय सोपालंभकरणानु विद्धं च | आत्मोपक्षेपकृतं सविप्रलंभ स्मृतं नर्म ॥ तत्व नर्मणः शृङ्गारस्थापकत्वम् | हासप्रधानतया हासः सुचयितुं परं वोपालधुं परहृदयं वा आक्षेप्यमिति त्रिधा । आत्मनः परकीयस्य चित्तस्योपक्षेपः आत्मसमीपकरणम् । यथा- फलकमुद्दिश्य वासवदत्ता वाक्यं सहास नर्म ईर्ष्यासूचकम् | शीतांशुर्मुखमित्यादि प्रिये इत्यादि च वचः उपालम्भं सहासं च। सुसगताया हासवाक्यमुपक्षेपपरम् | अभिनवः परापवादैः परुषैरी विवर्जितम् । शुद्धमन्तर्गताकूतं नर्म स्याच्छद्मगर्भकम् ।। यथा- भरतः | आबुद्धगीतरभसाः कर्णोत्तसितपल्लवाः । कामोत्सवे विलासिन्य: क्रीडन्त्यद्य पुरे पुरे || आकूतछद्मगर्भहास्यप्रायैः वचनैः कान्तां हासयन् कोपं त्याज- यामि इति । अन्ये पुनराहु:- हासेच्छाभयभेदेन तन्नर्म विविधं भवेत् । शृङ्गारोद्दीपनो यः स्यात्परिहासम्सविभ्रमः ।। खापुसयोस्तु नर्मैतत् हास्यभेदव्यवस्थितम् । सन्ताड्य कुसुमैश्छन्नापीच्छ्यागत्य दर्शनम् । प्रियस्य नायिकायाति यत्तदिच्छाश्रयं भवेत् ॥ भयाश्रयमेव यथा- मेघगर्जनेन भीत्या नायकेन लिष्टा । क्रीडाविवृद्धभणितिर्नर्म सर्वोपहासकृत् । एतदष्टादशविधं प्रोक्तं तत्तत्ववेदिभिः ॥ बचश्शुद्धं क्रियाशुद्धं रूपशुद्धं तथैव च । वाचानुरागकथनं वेषव्यतिकरं तथा ॥ चेष्टाव्यक्तिकरं चैव वागिच्छाप्रतिपादना रूपेच्छाकरणं चेष्टास्पष्टीकरणमेव च ॥ सागर: वाग्भेदन भेदरूपं क्रियाभेदनमेवच | वाग्भयं भयरूपी व चेष्टाभयकरं तथा ॥ वाग्मीत्यपरसंयोगी वेषभीत्यपराश्रयी | चेष्टा भयान्यसंयोगीत्येवमष्टादशात्मकम् || नर्मगर्भः– कैशिक्यङ्गम् विज्ञानरूपशोभा धनादिभिनयको गुणैर्यल प्रच्छन्नं व्यवहरते कार्यवशान्नर्मगर्भोऽसौ ।। पूर्वस्थितौ विपद्येत नायको यत्न चापरस्तिष्ठेत् । तमपीह नर्मगर्भ विद्यान्नाट्यप्रयोगेषु || नर्मद्यतिः शृङ्गारोपयोगिभि: विज्ञानाद्यैः प्रच्छन्नं यत्न नायक आस्ते नवसमागमसिद्धये स नर्मगर्भ: । नर्मोपयोगिनो विज्ञानाद्वा गर्भीकृता इव प्रच्छन्नतया यत्रेति । यथा प्रच्छन्नरूपो नायकः सङ्केत्तस्थानं गच्छति नर्मदा-मेलरागः (नामनारायणी मेलजन्यः ) (आ) सरिगमधनि स. (अव) सनिधपम गरिस. सर्वेश्वरः अभिनवः यत्न अच्छाद्यात्मनो रूपं तत्कार्यनिष्पत्तये स्थीयते नर्मगर्भ: नरवाहन दत्तः प्रभावती वेषमास्थाय मदनमञ्जुकां प्राप्तवान् । सागर: नर्मद्युतिः–प्रतिमुखसन्ध्यङ्गम् दोषप्रच्छादनार्थ तु हास्य नर्मद्यतिः स्मृता । रतिर्नर्मकृता चैव धतिरित्यभिसंहिता || इति पाठान्तरम् । मझ भरतः I दोषो येनोक्तेन प्रच्छादयितुमिध्यते तस्यापि हास्यजनकत्वेन नर्म च सुतरां घोतितं भवतीति नर्मद्युतिः । यथा - रत्नावल्यां द्वितीयेऽङ्के विदूषकः चतुर्वेदी ब्राह्मण इव ऋचः पठितुं प्रवृत्ता इत्यभिहिते राज्ञा नावधारितम् । ततो विदूषकः दुर्लभजनानु- राग इति पठति । अत्र हि मौर्यात्कोपं छादयितुं दुर्लभजनेत्यादि- वाक्यं राज्ञो हास्यजननम् । तत्र नर्मवद् द्योतितं भवति । अभिनवः अन्ये तु नर्मजां धृतिं नर्मद्यतिमाहुः । यथा - सागरिकायाः- • इदानीमपि न विरमसीति, वाक्यम् । इदमङ्गं कामप्रधान- रूपकेषु प्रयोज्यम् । रामचन्द्रः