पृष्ठम्:भरतकोशः-१.pdf/३४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवनीतम् नवनीतम्–मेलकर्ता सरिग०००मप०नि०स. नवपत्रिका --संगीतशृङ्गाराङ्गम् प्रथमवर्षणप्ररूढनवतृणाङ्कुरासु स्थलीषु झाद्वलमभ्यर्च्य भुक्त- पीतानां कृत्रिमविवाहादिक्रीडा नवपत्रिका | भोजः नवमनोहरी - मेलरागः (नटभैरवी मेलजन्यः ) (आ) सगम ध नि स (अव) सनिपम रिस. नवरत्तः - प्रबन्धः नवरत्रप्रबन्धोऽसौ नवखण्डैश्च मण्डितः । वर्णनं नवरत्नानां तावद्भिस्तालरागकैः । षडङ्गान्यपि तत्र स्युः नेतृनाम्ना विराजितः ॥ नवरत्नमुखम् - चालक: अल सङ्करसंसृष्टिरूपेण नव वा दश । विशिष्ट तितास्तु चालकान् प्राक्प्रयुज्य च || ततो धम्मिल्लपर्यन्तं करावुद्यम्य लोलितौ । तद्नु स्वस्तिकीकृत्यापराङ्गवलितावपि ॥ भूतळाभिमुखौ कुर्यादथैतौ मण्डलभ्रमे । क्रमेण युगपद्यद्वा तत्कालीनक्रियोचितम् ।। आविद्धावपविद्धौ च विधाय लुठिताङ्गुली ततः करौ स्वरूपा स्यातामान्दोलितावितौ तं चालकं प्रशंसन्ति नवरत्नमुखाभिधम् | नवरत्न विलासः-मेलरागः (आ) स० रि०० म०प००वि०स. (अव) स० निध०००म०गरि०स. नवरसकन्नड:- मेलरागः (हरिकाम्भोजीमेलजन्यः) (आ) सगमपधस (अव) सनिधम गरिस नवरोज्– मेल[गः नवरोजौ श्रुतिं हित्वा गीयते वैणिकैः पुनः । शङ्कराभरणमेलजौऽयं रागः । मझ मझ श्रीकण्ठ चेमः मेललक्षणम् मझ परमेश्वरः ३१२ I नवरोजुः– मेलरागः (धीरशङ्कराभरणमेलजन्य: ) (आ) पधनिसरि गमपप. (अव) मग रिस निधपप. नवरसः–मेलरागः ( गवाम्भोविमेलजन्यः ) ( आ ) सग म प ध नि ध स. (अव) सनिधमगस. नवलतिका–संगीत शृङ्गाराङ्गम् यत्र कस्ते प्रिय इति पृच्छद्धिः पलाशादिनवलताभिः प्रियजनो हन्यते सा नवलतिका | भोजः नाकजयन्ती – मेलरागः ( घीरशङ्कराभरणमेलजन्य:) (आ) सगरि गमधनिपस. (अव) सनिपमग गरिस. नागकृतिः --क्रियाङ्गरागः क्रियामद्वितयं भावकृतिर्नागकृतिस्तथा । लक्ष्यमार्गाप्रसिद्धत्वान्न सम्यगिह लक्षितम् || नागगान्यारी नागक्रिया – रागः न्यासांशप्रहसतम.. आन्दोलितादिगमका षड्जे मन्द्रा च नागकृतिः ॥ ..गधरितारा च । सप्तमांशप्रहन्यासा समन्द्रान्दोलितखना । धैवतर्षभगान्धारा ज्ञेया नायकृतिस्सदा || नागगान्धारः --रागः गान्धारीपञ्चमीजातो नागगान्धार उच्यते गान्धारांशग्रहन्यासः षड्जाल्पः काकलीयुतः ।। सावरोही प्रसन्नान्तो धैवतस्तारमन्द्रयोः । नागगान्धारलक्ष्मैवं निर्णीत दत्तिलादिभिः || चन्द्रयन्तीपञ्चमीभ्यां नागगान्धारसंज्ञकः । पचमांशोन्तगान्धार: पूर्णरस्यात्सप्तमिस्वरैः || मञ्ज नागगान्धारी - मेलराग : (गौरी मनोहरीमेलजन्य:) (आ) सरि गरि म प ध नि स (अव) सनिधपंम गरि ग.स. मझ मन कुम्भ: मान्यः याष्टिक: मोक्षः मझ