पृष्ठम्:भरतकोशः-१.pdf/३४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बागचर: नागचरः-

-मेलरागः ( खरहरप्रियामेलजन्यः)

(आ) समपधनि ध नि स. ( अब ) सनि धनि मग रिस. नागध्वनिः --- रागः अनन्तरं टकरागसंभवा वेगरञ्जिका । तदङ्गभूतो रागस्यात् नागध्वनिसमाह्वयः ॥ षड्जन्यासांशसहितो हीनधैवतपञ्चमः । नागध्वनिरिति प्रोक्तो नारदेन महर्षिणा || षड्जांशः कम्पितः स्थाने पमर्षभवर्जितः । गान्धारमध्यमाधिक्यो रागो नागध्वनिः स्मृतः || न्यासांशग्रहपञ्चमः समरवो मध्ये तथा पञ्चमे गान्धारर्षभनिस्कने बलयुतः कार्मारवीसंभवः । मन्द्रस्थानगावद्धपञ्चमरवः पूर्णरस्वरैस्सप्तभिः षड्जेच प्रवरध्वनिस्तु कथितो नागध्वनिर्धीवरैः ॥ षड्जव्याप्तिः पञ्चमांशो महन्याससमाधिकः । मन्दस्वरगध.. श्च पूर्णो नागध्वनिर्भवेत् ॥ एतैरभिहितैस्सम्यग्विशेष रुपलक्षितः । भिन्नतानवदस्यापि रूपकालापसम्पदः || -भाषाङ्गरागः टक्काङ्गवेगरञ्ज्यङ्गं विषड्जा धपवर्जिता । नागध्वनी रसे वीरे गेया वर्षासु सर्वदा ॥ त्रिषड्जा | न्यासांशग्रहेषु षड्जेत्यर्थः । -रागः वेगरञ्जी विभाषाया टकरागसमुद्भवा । नागध्वनिस्तदर्श स्यात् षड्जांशन्याससंयुता। धपाभ्यां वर्जिता नित्यं रसे वीरे नियुज्यते ।। मा नागध्वनि टक्कभाषाङ्गं षड्जन्यासप्रहांशकम् । धपत्यक्तं रसे वीरे श्रीहम्मीरम्समादिशत् ।। हरिः सोमेश्वरः नान्यः भतन: जगदेक: -मेलराग: - ( धीरशङ्कराभरणमेलजन्य: ) (आ) सगरि गमगम प ध नि ध पनि धनि प ध नि स (अ) सनिध निधपमध प म रिगमग रिगस भट्टमाधवः । वैमः 1 हम्मीर: ---रागः नागध्वनिर्धपत्यका सत्रया भाषया तता । नागनन्दिनी – मेलकर्ता (रागः) 1 स० रि० गम०प०० धनिस. नागपञ्चम:- (शुभपन्तुवरालीमेलजन्यः) (आ) सगमपनि स. (अव) सनिधपमग रिस. नागपाशः --- वर्णालङ्कारः नागपाशरस यंत्रकं गीत्वा वरचतुष्टयम् । अवरुह्य स्वरयुगं पुनर्गेये चतुष्टयम् || नागबन्धम् ---उत्प्लुतिकरणम् स्यादर्पसरणस्यान्ते नागबन्धवदासनम् । यत्र तन्नागबन्धाख्यं करणं तद्विदो विदुः || नागबन्धवर्तना यथा-सरि गमप सरिगम रिगमपम रिगमप इत्यादि । व्युत्कमेण तु मगरिसस रिमगरिस इत्यवरोहणाच उमा- वपि नागपाशौ । } संगीतसरणिः भागवन्धः - नृत्तबन्धः योऽस्मितृतीयपङ्क्तेर द्वितीय स्थानमाश्रिता | नर्तकी तु द्वितीयस्याः प्रथमं स्थानमाश्रयेत् || ततः प्रथमपतेस्तु क्रमात्स्थानचतुष्टयम् । प्राप्य तुर्य द्वितीयायाः तृतीयस्यास्तृतीयकम् || क्रमाद्वजेदेवमन्या चरेद्विनिमयेन च । नागबन्ध समाचष्ट तं सङ्गामधनञ्जयः ।। -इस्तपाट: गाढबन्धशब्दे द्रष्टव्यम् | प्रत्येकं पततो हस्तौ वाद्यपुष्करयोर्यदा। वेपर्यासेन वा सोऽयं नागबन्ध इति स्मृतः ॥ भदः नागबन्धवर्तना नाममात्रप्रसिद्धा । मज्ज मझ वेमः वेमः ननगिड किटतकि किटतकि ननगिड ननगिड़ ननगिड किटतकि ननकिट किटतकि ननगिड किटर्ताक किटतकि ननकिट किटतकि। नागबन्धो भवेदष्टमात्राभिस्सहितस्तदा । पार्श्वदेवः महिनावः