पृष्ठम्:भरतकोशः-१.pdf/३४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-मेलकर्ता बशवेनुगिरिशाजसुमध्यप काकल्यमल्पहरिदेवमथावरोहे गान्धारवर्जमपि राजति नाटरागे संपूर्णषाडवगणे गणितस्तु पूर्वैः ॥ } समपाः शुद्धाः | रिः षट्श्रुतिः । गरसाधारणः । अल्पवैवतः | फाकलिनिः। परमेश्वरः नाटो निशि शुचौ धीरे षड्जांशा मधोत्कट: । -मेलरागः रितु तीव्रतरो यस्मिन्गान्धारस्तीत्रसंज्ञकः । धस्तु तीव्रतरः प्रोक्तो निषादस्तीव्रनामकः । अवरोहे धगौ न तो नाटे रिश्वर मुर्छना || सायं गेयः नाटकम् - रूपकभेदः प्रख्यातवस्तुविषयं प्रख्यातोदात्तनायकं चैव । राजर्षिवंशचरितं तथैव दिव्याश्रयोपेतम् ।। नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चैव । अङ्कप्रवेशकाढयं भवति हि तन्नाटकं नाम || नृपतीनां यचरितं नानारसभावचेष्टितं बहुधा । सुखदुःखोत्पत्तिकृतं भवति हि तन्नाटकं नाम ॥ प्रकरण नाटकविषये पवाद्या दश पराभवन्त्यङ्काः । काव्यश्लेषैर्बहुभिर्यायवत्वज्ञैः ॥ न. महाजनपरिवारं कर्तव्यं नाटकं प्रकरणं वा । थे तत्र कार्य पुरुषाश्चत्वारः पञ्च वा ते स्युः ।। काव्यं गोपुच्छामं कर्तव्यं कार्यबन्धमासाद्य । ये चोदात्ता भावास्ते सर्वे पृष्ठतः कार्याः ॥ सर्वेषां काव्यानां नानारसभावयुक्तियुक्तानाम् । निर्वहणे कर्तव्यो नित्यं हि रसोद्भुतस्तक्षैः ।। इतिहासकथोद्भुतमितरद्वा सदाश्रयम् । चतुर्वर्गफलोपेतं चतुरोदात्तनायकम् ॥ पञ्चावस्थामिनिष्पन्नैः पञ्चमिस्सन्धिभिर्युतम् । वृत्तिवृत्यङ्गसंपन्नं पार्थप्रकृतिक्षमम् ॥ + नारायण: महोबिल: भरतः महारसं महाभोगमुदत्तवचनान्वितम् । महापुरुषसंचारं साध्वाचारजनप्रियम् || सन्धियोग प्रयोग सुखाश्रयम् । मृदुशब्दाभिधानं च गुणालङ्कारभूषितम् ॥ सन्ध्यन्तरे कविंशत्या चतुष्पष्टयङ्गसंयुतम् । लक्षणैश्य चतुष्पष्टया युक्तं कुर्वीत नाटकम | 3 नाटक भरतः पञ्चावस्थाः | पद्मसन्धयः वृत्तिवृत्यज्ञान अर्धप्रकृतयः, नाट्या- लङ्काराः षट्त्रिंशत् । एकविंशतिसन्ध्यन्तराणि चतुष्षष्ट्यङ्गानि | तेषां लक्षणं तत्तत्स्थाने द्रष्टव्यम् । शिलोचनन्तु- "अथ किनाम- नाटकं देवादीनां पूर्ववृत्तानुचरितम् । यदाह -- देववृत्तानुकथनं तथा दिव्याश्रयोस्थितम् । राजर्षिमान्यचरितं कल्पितं नाटकं विदुः ॥ " इत्याह । 1 देवतानां मनुष्याणां राक्षां लोकमहात्मनाम् । पूर्ववृत्तानुचरितं नाटकं नाम तद्भवेत् ॥ भरतः तन्नाटकं मिश्र कर्तव्यम् | उत्तमाघममध्यमपात्राणां भाषाभिः मिश्रं कर्तव्यम् । नाटकान्येतानि भारतं वर्षमधिकृत्य कर्त- व्यानि यत्रैव सुखदुःखयोः संभवः । 1 अङ्कमानोदाहरणम्-- नागानन्दं पञ्जाम्। पडकं दृश्यते लोके रामाभ्युदयनाक्रम् | शाकुन्तलादि सप्ताई, अष्टाई, नलविक्रमम् । देवीपरिणयस्तल नवाई नाटकं स्मृतम् | बालरामायणं नाम दशाक नाटकं स्मृतम् । धुन्दमालानाटकं पाम् । चण्डकौशिक पाङ्कं मारीचवचनं च । वेणीसंहारं षडङ्कम् । नाटकलक्षणे पञ्चान्न्यून दशाङ्कादधिकं नास्तीत्यनियमः । महानाटके षोडशाङ्काः | भासभाटकानि एकाच्यानि सन्ति । यथा - कर्णभारदूतघटोत्कचोरुभङ्गपञ्चरात्रादिषु वैलक्षण्यं दृश्यते । | महानाटकं तु केवले नानानाटकेभ्यः पाताणां वचनान्येकल संभृतानि । तानि कथासन्दर्भेण षोडशधा विभक्तानि । तन्मा- नाटकं नाटकलक्षणस्य लक्ष्यन्न भवति । भासस्य न्यूनानाटकेषु भारतकथायुक्तानि पञ्चरात्रप्रभृतीनि चन्द्रकऋविना विरचिता- नीति केचन मन्यन्ते । चन्द्रकस्तु भारतकथां तत्र तत्र विभज्य बहूनि नाटकानि एकाद्यकानि चकारेति काश्मीरदेशेतिहासाद् ज्ञायते । भासीयान्यनाटकेषु लक्षणपुष्टिरस्ति । यथा - स्वा वासवदत्तम् । प्रख्यातराजर्षिवृत्तमिति नाटके नियमोऽस्ति । तत्कथं प्रबोध चन्द्रोदयादिषु युज्यते । तेषु गुणा दोषाश्च श्रद्धा मोहः विरक्तिः पुरुषः कामः धर्म विद्या अविद्या चैतन्यं इत्यादयः पदार्थाः